अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 618, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] चतुर्थं कोशस्थानम् ५९९
इष्टविपाकत्वात्¹ कुशलमित्युच्यते ।
यदि तु परमार्थेनाव्याकृतं मृग्यते, तत्—
परमाव्याकृते ध्रुवे ॥ ९ ॥
द्वे असंस्कृते निष्पर्यायेणानिवृताव्याकृते—आकाशम्, अप्रतिसंख्या-
नेरोधश्च ।
इदं विचार्यते—यदि समुत्थानवशात् कुशलाकुशलत्वं कायवाक्कर्मणः, किं
। महाभूतानाम् ? कर्मणि हि कर्तुरभिप्रायः, न महाभूतेषु ।
समाहितस्याविज्ञप्तौ नास्त्यभिप्रायः । न चासमाहितं चित्तं तस्याः
समुत्थापकं विसभाभूमिकत्वादिति कथं तस्याः कुशलत्वम् !
दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुशलत्वप्रसङ्गः ? कर्तव्योऽत्र यत्नः ।
मित्युच्यते । तदुक्तं भवति—यत् सास्रवं तदकुशलम्; परमाक्षेमत्वात् । विपाकं
प्रत्यव्याकरणार्थादव्याकृतमिति । कुशलमपि। तथैवाकुशलम् । इष्टविपाकत्वात्
कुशलमित्यवगन्तव्यम् ।
यदि समुत्थानवशादिति विस्तरः । चेतनाया एव कुशलाकुशलत्वमित्यनेना-
भिप्रायेण । कायवाक्कर्मणः कुशलाकुशलत्वं विचारयति । किं न महाभूतानामिति ।
कुशलाकुशलेन हि चित्तेन कायवाक्कर्म-तन्महाभूतानि समु-
त्थाप्यते । वैभाषिक आह—कर्मणि हि कर्तुरभिप्रायो न महाभूतेषु । न 'महा-
भूतानि कुर्याम्' इति । किं तर्हि ? 'इदं कर्म कुर्याम्' इति । न कर्मवन्महा-
भूतानां कुशलाकुशलत्वमिति ।
आचार्य आह—समाहितस्य कर्तुरविज्ञप्तौ नास्त्यभिप्रायः । अविज्ञप्तिं कुर्या-
मिति । न चासमाहितं चित्तं तस्याः समुत्थापकमस्ति । यदेवमभिप्रायं कुर्यात् ।
विसभागत्वान् विसदृशत्वाद् भूमितोऽसमाधानाद्वा । कथं तस्याः समाहितायाः
अविज्ञप्तेः कुशलत्वम् । महाभूतवत् तस्याः कुशलत्वं न स्यादित्यभिप्रायः ।
दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुशलत्वप्रसङ्ग इति । यद्यन्तरेणापि तदभिप्राय-
मविज्ञप्तेः कुशलमिति । अथ वा अयमस्याभिसम्बन्धः—यदि विसभागासमा-
हितचित्तवशेन तस्याः कुशलत्वम्, दिव्ययोरपि चक्षुःश्रोत्रयोः कुशलत्वप्रसङ्गः,
प्रयोगकाले तदभिप्रायसम्भवात् । न च तयोः कुशलमस्ति, “अव्याकृते श्रोत्र-
चक्षुरभिज्ञे” ( अभि० ७.४५ ) इति वचनात् ।
१. ०विपाकं च—का० ।