अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] तृतीयं कोशस्थानम्
कथमग्निना न दह्यन्ते ? अग्नेर्नूनं कर्मभिः कृतावधित्वात्, भूतविशेष-
निवृत्तेर्वा ।
इमे तावदुष्णा अष्टौ महानरका उच्यन्ते ॥
शीता अन्येऽष्टावर्बुदादयः ॥ ५९ ॥
अन्ये शीतानरका अष्टौ । तद्यथा—अर्बुदः, निरर्बुदः, अटठः¹, हहवः,
हुहुवः, उत्पलः, पद्मः, महापद्मश्च ।
तेषां सत्त्वानां तीव्रशीताभिहतानां कायशब्दविकारानुरूपाण्येतानि नामानि।
तेऽप्यस्यैव जम्बूद्वीपस्याधस्तात् महानरकाणां तिर्यक् ।
कुत इयतो जम्बूद्वीपस्याधस्तादवीच्यादीनामवकाशः ? धान्यराशिवदधो
विशाला हि द्वीपाः । अत एव महासमुद्रोऽनुपूर्वनिम्नः ।
इतीमे षोडश नरकाः सर्वे सत्त्वकर्माधिपत्यनिर्वृत्ताः । प्रत्येकं नरकास्तु
स्वैः स्वैः कर्मभिरभिनिर्वृत्ताः। बहूनां सत्त्वानां द्वयोरेकस्य वा। तेषामनेकप्रकल्पो
भेदः स्थानं चानियतम्; नदीपर्वतमरुप्रदेशेष्वन्येषु वाऽधश्च भावात् ।
एष तावन्नरकभाजनानां सन्निवेशः ॥
तिर्यञ्चः स्थलजलाकाशगोचराः । तेषां किल मूलं स्थानं महासमुद्रः, ततो-
ऽन्यत्र विसृता इति ॥
प्रेतानां यमो राजा । तस्य जम्बूद्वीपस्याधस्तात् पञ्चयोजनशतान्तरपरि-
च्छिन्ना राजधानी तेषां मूलस्थानम्, ततोऽन्यत्र विसृताः। केचित् प्रेता महर्द्धिका
देवीमिव श्रियमुद्वहन्ति । शेषा यथा प्रेतावदाने ॥ ५९ ॥
पालानां को विप्रतिबन्धः । एतदुक्तं भवति—तेषामपि तावदानन्तर्यकारिणो
महदानन्तर्यकर्मणो विपाकस्यातिमहतो नरकेष्ववकाशोऽस्ति, किमङ्ग पुनर्न-
रकपालानां यत्कर्म तत् कारणाः कारयतामिति ! कृतावधित्वात् । कृतमर्याद-
त्वान्नरकपालान् प्रति—एते न दग्धव्या इति । भूतविशेषनिवृत्तेर्वा । भूतविशेषा-
स्तादृशास्तेषां कर्मभिरभिनिर्वृत्ताः यत्तेनाग्निना न दह्यन्ते ।
कायशब्दविकारानुरूपाणीति । कायविकारानुरूपाणि—अर्बुदः, निरर्बुदः,
उत्पलः, पद्मः, महापद्मश्चेति नामान्यर्बुदाद्याकारकायत्वात्तत्रत्यानां सत्त्वानाम् ।
शब्दविकारानुरूपाणि—अटठः, हहवः, हुहुव इत्येतानि नामानि । अत एवेति ।
धान्यराशिवदधोविशालत्वात् । बहिरिति नान्तर्गतः ॥ ५९ ॥
१. अटटः—का० ।
५१८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
अथेमौ चन्द्रार्कौ कस्मिन् प्रतिष्ठितौ ? वायौ । वायवोऽन्तरिक्षे सर्वसत्त्व-
साधारणकर्माधिपत्यनिर्वृत्ता आवर्तद्वत् सुमेरुं परिवर्तन्ते । चन्द्रार्कताराणां वोर्ध्व-
चारः ।
कियद्विप्रकृष्टवित्थश्चन्द्रार्कौ ?
अर्धेन मेरोश्चन्द्रार्कौ
युगन्धरगिरेर्मूर्ध्ना समं वहतः ।
किम्प्रमाणौ ? यथाक्रमम्—
पञ्चाशत्सैकयोजनौ ।
पञ्चाशद् योजनानि चन्द्रमण्डलस्य प्रमाणम् । सैकनि पञ्चाशत् सूर्य-
मण्डलस्य प्रमाणम् । एकपञ्चाशदित्यर्थः । तारकाविमानां यस्याल्पप्रमाणम्, प्रमाणं
तस्य क्रोशः । सूर्यविमानस्याधस्ताद् बहिः स्फटिकमण्डलं तैजसमभिनिर्वृत्तं
तापनं प्रकाशनं च । चन्द्रविमानस्याधस्तादाप्यं शीतलं भास्वरं च । प्राणिनां
कर्मभिर्दृष्टिशरीरफलपुष्पशस्यौषधीनामनुग्रहार्थम्, उपघातकार्थं च¹ यथासम्भवम् ।
चतुर्द्वीपके एकश्चन्द्रमाः कृत्यं करोति, एकः सूर्यः ।
किं पुनश्चतुर्द्वीपेषु सूर्यो युगपत् कृत्यं करोति ? नेत्याह । किं तर्हि ? तेषु—
अर्धरात्रोऽस्तङ्गमनं मध्याह्न उदयः सकृत् ॥ ६० ॥
यदोत्तरकुरावर्धरात्रः, तदा पूर्वविदेहे सूर्यस्यास्तङ्गमनम्, जम्बूद्वीपे
मध्याह्नः, गोदानीये उदयः । एवमन्येष्वपि योज्यम् । सूर्यस्येह गतिभेदेन
रात्रिदिवानां वृद्धिह्रासौ ॥ ६० ॥
तत्र पुनः—
तैजसं सूर्यकान्तात्मकम् । आप्यं चन्द्रकान्तात्मकम् । यथासम्भवमिति ।
तदुभयमण्डलं दृष्ट्यादीनां देशकालावस्थान्तरानुरूप्येणानुग्रहार्थमुपघातार्थं च ।
एवमन्येष्वपि योज्यमिति । कथम् ? यदा पूर्वविदेहेऽर्धरात्रस्तदा जम्बूद्वीपे
सूर्यास्तगमनम्, अवरगोदानीये मध्याह्नः, उत्तरावुदयः—इत्येवमन्यत्रापि
योज्यम् ॥ ६० ॥
१. का० पुस्तके नास्ति ।
निर्देशः ] तृतीयं कोशस्थानम् ५१९.
प्रावृण्मासे द्वितीयेऽन्त्यनवम्यां वर्धते निशा ।
वर्षाणां द्वितीये मासे भाद्रपदे द्वितीयस्य पक्षस्य नवम्यां वर्धते रात्रिः ।
हेमन्तानां चतुर्थे तु हीयते,
सैव हेमन्तानां चतुर्थे मासे पुनर्हीयते । अन्त्यनवम्यामिति वर्तते ।
फाल्गुनमासस्य द्वितीयपक्षनवम्यान् ।
अहर्विपर्ययात् ॥ ६१ ॥
यदा रात्रिर्वर्धते तदा दिवसो हीयते । यदा रात्रिर्हीयते तदा दिवसो
वर्धते ॥ ६१ ॥
कियत्या मात्रया वर्धते ?
लवशो राज्यहर्वृद्धी,
लवं लवं रात्रिर्वर्धते, दिवसो वा । ते च हानिवृद्धी यथाक्रमं—
दक्षिणोत्तरगे रवौ ।
जम्बूद्वीपस्य दक्षिणं पार्श्वं गच्छति भास्करे रात्रिवृद्धिः, उत्तरं गच्छत्य-
हर्वृद्धिः ॥
शुक्लपक्षस्यादौ चन्द्रमसो विकलं मण्डलं दृश्यते, किं तत्र कारणम् ?
स्वच्छाययाऽर्कसामीप्याद् विकलेन्दुसमीक्षणम् ॥ ६२ ॥
यदा हि सौरस्य विमानस्यासन्ने चान्द्रमसं विमानं वहति तदा किल सौर्यो
भासस्तस्मिन् विमाने पतन्ति, ततोऽपरपार्श्वे छाया पतन्ती विकलं मण्डलं
दर्शयतीति प्राज्ञप्तिको निर्देशः ।
“प्रावृण्मासे द्वितीयेऽन्त्यनवम्याम्” इति । प्रावृण्मासाश्चत्वारः—श्रावणो
यावत् कार्त्तिकः । सर्वे च मासाः कृष्णपक्षाद्याः । तत्र भाद्रपदशुक्लपक्षनवम्यां
रात्रिर्वर्धते ।
हेमन्तकानां चतुर्थे हीयते । हेमन्ता मासाश्चत्वारः—मार्गशीर्षाद्याः फाल्गु-
नान्ताः । तत्र फाल्गुनशुक्लपक्षनवम्यां हीयते ॥ ६१ ॥
“लवशः” इति लवं लवम्, “कालाध्वनोरत्यन्तसंयोगे” (पा० सू० २.३.५)
द्वितीया ।
अपरपार्श्वे छाया पतन्ती विकलमण्डलं दर्शयति । तद्यथा—स्तम्भे प्रदीप-
च्छाया पतन्ती यथा यथा स्तम्भ आसन्नो भवति, तथा तथा स्तम्भः
वाह्ययोगः स तादृशो भवति यत् कदाचिद् विमानस्यार्धं दृश्यत इति पूर्वा-
चार्याः ॥
अथैतानि सूर्यादिविमानानि कतमे सत्त्वा अध्यावसन्ति ? देवाश्चातुर्महा-
राजकायिकाः ।
किमेतान्येव तेषां स्थानानि ? विमानवासिनामेतानि । भूमिनिवासिनां
पुनः सुमेरुपरिषण्डादीनि ॥ ६२ ॥
कति चास्य परिषण्डाः ? कियत्यो वा ?
परिषण्डाश्चतस्रोऽस्य दशसाहस्रिकान्तराः ।
दशयोजनसहस्राण्युद्गम्यैका, एवं यावच्चतुर्थी। ताभिः सुमेरुरर्धमाक्षिप्तम् ।
ताश्च ततो यथासंख्यम्—
षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः ॥ ६३ ॥
प्रथमा परिषण्डा षोडश सहस्राणि योजनानां सुमेरोर्निर्गता ।
द्वितीयाऽष्टौ । तृतीया चत्वारि । चतुर्थी द्वे ॥ ६३ ॥
करोटपाणयस्तासु मालाधारास्सदामदाः ।
महाराजिकदेवाश्च,
प्रथमायां परिषण्डायां करोटपाणयो नाम यक्षाः प्रतिवसन्ति । द्वितीयायां
मालाधाराः । तृतीयायां सदामदाः सदामत्ताः । सर्व एते चातुर्महाराज-
स्वच्छाययाच्छाद्यते—दूरे हि वर्तमाने प्रदीपे परिपूर्णस्तम्भो दृश्यते, किञ्चि-
दासन्ने किञ्चित् क्षीयते, यावदासन्ने स्तम्भो नष्टरूपो वर्तते; तद्वदेतत् ।
वाह्ययोग स तादृश इति । पुनस्तियंगवनामोन्नामयोगेनाधोभागश्चन्द्र-
मण्डलस्य क्षीयते, ऊर्ध्वं वर्धते चेति योगाचाराः ।
चातुर्महाराजकायिका इति । चतुर्महाराजानं कायः, तत्र भवाश्चातुर्महा-
राजकायिकाः ।
सुमेरुपरिषण्डादीनीति । आदिशब्देन युगन्धरादीनि ॥ ६२ ॥
“दशसाहस्रिकान्तराः” इति । योजनदशसहस्रप्रमाणान्तरा इत्यर्थः ।
अर्धमाक्षिप्तमिति । अर्धमवष्टब्धम् ॥ ६३ ॥
“सदामदाः” इति । 'सदामत्ताः' वक्तव्ये श्लोकबन्धानुगुण्येन 'सदामदाः'
इत्युक्तम्; अर्थैकत्वात् ।
निर्देशः ] तृतीयं कोशस्थानम् ५२१
कायिकाः । चतुर्थ्यां¹ चत्वारो महाराजाः स्वयं प्रतिवसन्ति, तत्परिचाराश्च ।
अतस्तस्यां चातुर्महाराजकायिका² देवा इत्युक्तम् ।
यथा परिषण्डासु चतुर्महाराजकायिका देवाः, एवं
पर्वतेष्वपि सप्तसु ॥ ६४ ॥
युगन्धरादि पर्वतेषु तेषां ग्रामनिगमाः । अत एवैष देवनिकायः सर्वेषां
महिष्ठः ॥ ६४ ॥
मेरुमूर्ध्नि त्रयस्त्रिंशाः,
अथ कियान् मेरुमूर्धा ?
स चाशीतिसहस्रदिक् ।
एकैकपार्श्वमशीतिसहस्राणि यथैवाधस्तात् ।
अन्ये पुनराहुः—स विंशतिसहस्रदिक् । चत्वारि पार्श्वान्यस्य चतस्रो
दिशः । एकैकं पार्श्वं विंशतियोजनसहस्राणि, समन्तात् परिक्षेपेणाशीतिरिति ।
तस्य च—
विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः ॥ ६५ ॥
सुमेरुमूर्ध्नो विदिशः कोणाः, तासु पञ्चयोजनशतप्रमाणाश्चत्वारः कूटा
अभ्युद्गताः, येषु वज्रपाणयो नाम यक्षाः प्रतिवसन्ति ॥ ६५ ॥
तस्य च मेरुमूर्द्ध्नः—
चतुर्थ्यां चत्वारो महाराजाः³ स्वयं प्रतिवसन्तीति । धृतराष्ट्रः पूर्वदिग्भागे,
विरूढको दक्षिणे, विरूपाक्षः पश्चिमे, वैश्रवण उत्तरस्मिन्नित्यनुक्रमोऽवगन्तव्यः ।
चातुर्महाराजिका देवा इत्युक्तमिति । यस्माच्चतुर्थ्यां परिषण्डायां चत्वारो महा-
राजानः स्वयं प्रतिवसन्ति, अत एवमुक्तम्—"महाराजिकदेवाः" इति । महाराजे
भवा इति कृत्वा । महिष्ठो महत्तमः ॥ ६४ ॥
स विंशतिसहस्रदिगिति । यद्येवम्, कथमिदमुक्तम्—"समुच्छ्रायघनाश्च ते"
(अभि० को० ३.५१) इति ? मध्यभागमेवाभिसमीक्ष्यैवमुक्तमिति तेषामभि-
प्रायः ॥ ६५ ॥
१. चतुर्थ्यां तु—का० । २. महाराज०—का० ।
३. महाराजानः—इति मुद्रित पाठः ।
३५२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ को०-
मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम् ।
पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु ॥ ६६ ॥
सुमेरुतलस्य मध्ये सुदर्शनं नाम नगरं दैर्घ्ये सार्धतृतीययोजनसहस्रे
एकैकं पार्श्वमुच्छ्रायेणाप्यध्यर्धयोजनम् । प्राकारः सौवर्णः । एकोत्तरेण धातु-
शतेनास्य भूमिश्चित्रा । तच्च भूमितलं तूलपिचुवत् मृदुसंस्पर्शं पादक्षेपो-
त्क्षेपाभ्यां नतोन्नतम् । शक्रस्य देवानामिन्द्रस्य राजधानी ॥ ६६ ॥
सार्धद्विशतपार्श्वोऽत्र वैजयन्तः,
शक्रस्य देवानामिन्द्रस्य वैजयन्तो नाम प्रासादो नगरस्य मध्ये नानारत्न-
स्थानविधानसम्पदा सर्वान्यभवनश्रीमहिम्ना हेपणः, दैर्घ्येणार्धतृतीये योजनशते
पार्श्वं पार्श्वम् । इयं तावन्नगरस्याभिरमता ।
बहिः पुनः ।
तच्चैत्ररथ-पारुष्य-मिश्र-नन्दनभूषितम् ॥ ६७ ॥
तस्य हि नगरस्य बहिश्चतुर्षु पार्श्वेषु चत्वार्युद्यानादीनि देवानां क्रीडा-
भूमयः । चैत्ररथमुद्यानम्, पारुष्यकम्, मिश्रकावणम्, नन्दनवनं च ।
तैस्तन्नगरं बहिरलंकृतम् ॥ ६७ ॥
विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम् ।
एषां चोद्यानानां चतुर्दिशं चत्वारि सुभूमीनि विंशतियोजनान्यतिक्रम्य¹
अध्यर्धमिति । अधिकमर्धमस्मिन्निति । अध्यर्धं योजनमस्येति "अध्यर्ध-
योजनम्" । 'समुच्छ्रायेण' इत्यध्याहार्यम् ॥ ६६ ॥
धातुशतेन रङ्गशतेन । नानारत्नस्थानविधानसम्पदेति । नानारत्नविधान-
सम्पदा, नानास्थानविधानसम्पदा च । सर्वान्यभवनानां श्रियस्तासां महिमानो
महत्त्वानि । हेपणः । लज्जनः । लज्जाजनक इत्यर्थः । दैर्घ्येणार्धतृतीये योजनशते
पार्श्वमिति । एकं पार्श्वमेतत्प्रमाणम् । यावच्चतुर्थमप्येतत्प्रमाणमिति ।
चैत्ररथादीन्यपि चतुरस्राण्यर्धद्विशतपार्श्वानि ॥ ६७ ॥
"सुभूमीनि" इति । शोभना भूमय एषामिति सुभूमानि क्रीडास्थानानि ।
"चतुर्दिशमिति" । चतस्रो दिशा अस्येति चतुर्दिशं क्रियाविशेषणम् । भागुरि-
मतेन दिक्शब्द आकारान्तो भवति । विंशतियोजनान्यतिक्रम्येति । क्रीडा-
१. योजनान्तरितानि—का० ।
निर्देशः ] तृतीयं कोशस्थानम् ५२३
क्रीडास्थानानि १ भवन्ति । तान्येव २ देवानां परस्परस्पर्धयैव शोभां वितन्वन्ति ।
बहिरेव नगरस्य पार्श्वे—
पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणाबरे ॥ ६८ ॥
पारिजातो नाम कोविदारस्त्रायस्त्रिंशानां देवानां कामरतिप्रकर्शालयः २ ।
तस्य पञ्च योजनानि मूलाभिनिवेशः, योजनशतमुच्छ्रायः । पञ्चाशद् योजनानि
शाखापत्रपलाशं स्फरित्वा तिष्ठति ।
तस्य खलु सर्वपरिफुल्लस्य योजनशतमनुवातं गन्धो वाति पञ्चाशद् योज-
नानि ३ प्रतिवातम् ।
युक्तं तावदनुवातम्, प्रतिवातं तु कथम् ? वृक्षानतिक्रमं सन्धायोक्तमि-
त्येके । न हि नाम प्रतिवातं ४ वातो वाति । तस्यैव तु सा गन्धस्य तादृशी
प्रभावसम्पद्देष्टव्या यत् प्रतिबाध्यमनोऽपि दिव्यैर्मृदुमारुतैर्गन्धान्तरं सन्तनोति ।
मन्दतरतमसमारम्भात्तु गन्धसन्तान ५ आश्वेव समुच्छिद्यते, अतो ६ न तथा
विप्रकृष्टमध्वानं प्रसर्पति ।
स्थानानि भवन्तीति । विंशतियोजनान्यन्तरितानीत्युच्यते ।
त्रायस्त्रिंशानामिति । त्रयस्त्रिंशत्तेषु भवास्त्रायस्त्रिंशाः, तेषाम् । कामरति-
प्रकर्शालयः । कामरतिविशेषस्थानम् ।
वृक्षानतिक्रमं सन्धायोक्तमिति । तं कोविदारवृक्षमन्तिक्रम्य स गन्धो वर्त्तते ।
तस्य पञ्चाशद्योजनानि शाखापत्रपलाशमिति । एवं वृक्षानतिक्रमं सन्धायोक्तम्-
पञ्चाशद्योजनानि प्रतिवातं गन्धो वातीति । अत्रोत्तरमाहुः—न हि नाम प्रतिवातं
वातो भवति, यत्रैवोत्पद्यते तत्रैव ध्वंस्यते, न देशान्तरे सन्तानं सन्तनोति ।
उक्तं च—"पञ्चाशद्योजनानि प्रतिवातम्" इति, तस्मादसमाधिरेषः ? तस्मात्
समाध्यन्तरमिदमाह—तस्यैव त्विति विस्तरः । किं पुनः कारणम्—योजन-
शतमत्र वातं गन्धो वाति, प्रतिवातं तु पञ्चाशत्, न ततः परेण ? इत्यत
आह—मन्दतरतमसमारम्भात्विति विस्तरः । मृदुमारुतप्रतिबध्यमानतया मन्द-
तरतमसमारम्भः । ततश्च स गन्धसन्तान आश्वेव समुच्छिद्यते । अतः कारणात्
न तथा विप्रकृष्टमध्वानं योजनशतप्रमाणं प्रसर्पतीति ।
१-१. ०स्थानान्येव—का० । २. ०श्रयः—का० । ३. योजनयोजनानि—का० ।
४. सप्रतिवातं—का० । ५. सन्तान—का० । ६. यतो—का० ।
अभि० को० २ : १०
५२४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
किं पुनः स्वभूताश्रित एष पुष्पगन्धसन्तानो वर्तते, उताहो वायुरधिवासितो
जायते ? नात्र नियमः । उभयथापि ह्याचार्येष्टिः ।
यत्तर्हि भगवतोक्तम्—
“न पुष्पगन्धः प्रतिवातमेति न मौलिकस्तागरचान्दनो वा ।
सतां तु गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाति” ॥ ( ) इति ?
मानुष्यकं पुष्पगन्धं सन्धायोक्तम् । तद्धि प्रतीतं लोके । न च तस्य
तादृशी शक्तिः ।
महीशासकास्तु^१ पठन्ति— “योजनशतमनुवातं गन्धो वाति पञ्चाशद्
योजनानि प्रतिवातम्” ( ) इति ।
सुधर्मा नाम देवसभा दक्षिणपश्चिमे दिग्भागे, यस्यां निषद्य देवाः
कृत्याकृत्यं समर्थयन्ते^२ ॥ ६८ ॥
एष तावत् त्रिदशानां भाजनसन्निवेशः ॥
तत ऊर्ध्वं विमानेषु देवाः,
त्रिदशेभ्य ऊर्ध्वं देवा विमानेषु प्रतिष्ठिताः । ते पुनर्यामाः, तुषिताः,
निर्माणरतयः, परनिर्मितवशवर्तिनश्च ब्रह्मकायिकादयश्च पूर्वोक्ताः षोडशस्थाना-
न्तरगताः । इत्येते द्वाविंशतिदेवनिकायाः समासेन येषां भाजनं प्रज्ञायते ।
कामभुजस्तु षट् ।
तेषां तु षट् कामावचरा देवनिकायाः कामान् परिभुञ्जते, न शेषाः ।
तद्यथा—चातुर्महाराजकायिका यावत् परनिर्मितवशवर्तिनः । ते पुनः—
उताहो वायुरधिवासितो जायत इति । यथा तिलेषु पुष्पगन्धाद् गन्धान्तर-
मुत्पद्यतेऽन्यदेव, न स पौष्पो गन्ध इत्याह—यदि पञ्चाशद् योजनं प्रतिवातं
गन्धो वाति ।
यत्तर्हि भगवतोक्तं न पुष्पगन्धः प्रतिवातमेतीति विस्तरः । मौलिको गन्धो
मुस्तादिः ।
कृत्याकृत्यं समर्थयन्त इति । कार्याकार्यं सम्प्रतीच्छन्ति सम्प्रधारयन्ती-
त्यर्थः ॥ ६८ ॥
समासेन येषां भाजनं प्रज्ञायत इति । भाजनम्=स्थानम् । विस्तरेणान्येऽपि
देवाः क्रीडाप्रमोषकप्रहासकादयः सन्तीति । अतः समासेनोक्तम् ।
१. महीसासकास्त—का० । २. समर्थयन्ति—का० ।
द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षितमैथुनाः ॥ ६९ ॥
द्वन्द्वेन मैथुनं भूमिसम्बद्धवासिनाम्—चातुर्महाराजकायिकानां त्राय-
स्त्रिशानाम्, यथा मनुष्याणाम्। तेषां तु वायुनिर्मोक्षाद् दाहविगमः; शुक्राभावात् ।
आलिङ्गनेन मैथुनं यामानाम्; आलिङ्गनमात्रेण दाहविगमात् । पाणिसम्प्राप्त्या
तुषितानाम्, हसितेन निर्माणरतीनाम्, प्रेक्षितेन परनिर्मितवशवर्तिनाम् । स्व-
वर्तिनां सर्वेषां द्वन्द्वसमापत्त्या ।
कालपरिमाणं तु प्रज्ञप्तावुक्तमिति वैभाषिकाः । यावद्यावद् विषयाणां
तीव्रतरता, तावत्तावद् रागोऽपि तीव्रतरः ।
यस्य देवस्य देव्या वा उत्सङ्गे देवकुमारो देवकन्या वा जायते, स तयो
पुत्रो भवति सा च दुहिता ॥ ६९ ॥
कियत्प्रमाणो जायते ?
पञ्चवर्षोपमो यावद् दशवर्षोपमः शिशुः ।
सम्भवत्येषु
यथासंख्यं षट्सु देवनिकायेषु । ते तु क्षिप्रमेवाभिवर्धन्ते ।
सम्पूर्णाः सवस्त्राश्चैव रूपिणः ॥ ७० ॥
रूपावचरा देवाः सम्पूर्णकायाः वस्त्रेण संवीता उपपद्यन्ते । सर्वे देवा
आर्यभाषाभाषिणः ॥ ७० ॥
तदत्र कामधातौ वेदितव्याः—
कामोपपत्तयस्तिस्रः कामदेवाः समानुषाः ।
द्वन्द्वेन यावदीक्षितेन मैथुनमेषामिति "द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षित-
मैथुनाः ।”
सर्वेषां समापत्त्येति । षण्णामपि कामभुजां द्वन्द्वसमापत्त्या परिदाहविगमः ।
कालपरिमाणं तु प्रज्ञप्तावुक्तमिति । यावता कालेन द्वन्द्वालिङ्गनपाण्याप्ति-
हसितेक्षितानि भवन्ति, तावता कालेन एषां भूमिसम्बन्धवासिनां याम-तुषित-
निर्माणरति-परनिर्मितवशवर्तिनां यथाक्रमं द्वन्द्वसमापत्तिरिति वैभाषिकाः ।
यावद्यावदिति विस्तरः । यावद्यावत् परेण परतरेण विषयाणां तीव्रतरत्वात्
रागोऽपि तीव्रतरः, तावत्तावन्मैथुनकर इत्यभिप्रायः ॥ ६९-७० ॥
५२६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
कथं कृत्वा ? सन्ति सत्त्वाः प्रत्युपस्थितकामाः प्रत्युपस्थितेषु कामेष्वैश्वर्यं
वशे वर्तयन्ति । तद्यथा—मनुष्याः, तदेकत्याश्च देवाः । ते पुनश्चत्वारो देव-
निकायाः ।
सन्ति सत्त्वा निर्मितकामा निर्माय कामानैश्वर्यं वशे वर्तयन्ति । तद्यथा—
देवा निर्माणरतयः ।
सन्ति सत्त्वाः परनिर्मितकामाः परनिर्मितेषु कामेष्वैश्वर्यं वशे वर्त्तयन्ति ।
तद्यथा—देवाः परनिर्मितवशवर्तिनः ।
ता एता यथोत्पन्नपरिभोगित्वात्, यथेच्छात्मनिर्मितपरिभोगित्वाद्, यथे-
च्छात्मपरनिर्मितपरिभोगित्वाच्च तिस्रः कामोपपत्तय इत्युच्यन्ते ॥
रूपधातौ तु—
सुखोपपत्तयस्तिस्रो नवत्रिध्यानभूमयः ॥ ७१ ॥
त्रिषु ध्यानेषु या नव भूमयः तास्तिस्रः सुखोपपत्तयः । ते हि देवा
विवेकजेन समाधिजेन च प्रीतिसुखेन च निष्प्रीतिकेन च सुखेन सुखं विहरन्तो
दीर्घमध्वानं तिष्ठन्ति । अत एता निर्दुःखदीर्घसुखत्वात् सुखा उपपत्तयः सुखोप-
पत्तयः । ध्यानान्तरोत्पत्तौ तु प्रीतिसुखाभावात् सुखोपपत्तित्वं विचार्यम् ॥ ७१ ॥
ते पुनश्चत्वारो देवनिकाया इति । चातुर्महाराजकायिका यावत् तुषिताः ।
यथोत्पन्नप्रतिभोगः, स एषामस्तीति यथोत्पन्नपरिभोगिनः, तद्भावस्तस्मात् ।
यथेच्छात्मनिर्मितम्, तस्य परिभोगः पूर्ववत् । यथेच्छात्मपरनिर्मितपरिभोगित्वा-
दिति । आत्मना परेण च निर्मिते यथेच्छात्मपरनिर्मिते, तयोः परिभोगः पूर्व-
वत् । यथेच्छपरनिर्मितपरिभोगित्वादिति केचित् पठन्ति । तत्र तावदेवं विग्रहः—
परनिर्मितं यथेच्छं परनिर्मितं तस्य परिभोग इति पूर्ववत् । निर्माणरतीनां
परनिर्मितान् कामान् परिभोक्तुं न समृद्ध्यति । तदेवं परनिर्मितवशवर्त्तिनां
निर्माणरतिभ्यो निश्शेषः प्रदर्शितो भवति । बाह्यरूपपादिविषयनिर्माणं चात्र
वेदितव्यम् ।
विवेकजेन प्रथमध्यानभूमिकेनाकुशलविविक्तत्वात् । समाधिजेन च द्वितीय-
ध्यानभूमिकेन वितर्कविचारविगमात् । प्रीतिसुखेनेति । प्रीतिलक्षणेन सुखेन ।
निष्प्रीतिकेन च सुखेन सौमनस्यविगमात् । सुखं विहरन्त इति । सुखमिति
क्रियाविशेषणम् । सुखोपपत्तित्वं विचार्यमिति । सुखाभावान्न ध्यानान्तरं सुखोप-
निर्देशः ] तृतीयं कोशस्थानम् ५२७
यान्येतानि देवानां द्वाविंशतिस्थानान्युक्तानि, तेषामधरादुत्तरं कियद्
विप्रकृष्टम् ? नैतत् सर्वं योजनपरिसंख्यया सुकरं परिसंख्यातुम् । अपि तु—
स्थानात् स्थानादधो यावत् तावदूर्ध्वं ततस्ततः ।
जम्बूद्वीपात् प्रभृति यदुत्तरं स्थानं तस्माद् यावदधो जम्बूद्वीपस्तावत्
पुनस्तस्मादूर्ध्वं स्थानान्तरम् । तद्यथा—चतुर्थी परिषण्डा चतुर्णां महाराजानां
मूलस्थानमितश्चत्वारिंशद्योजनसहस्राणि, तस्माद् यावदधो जम्बूद्वीपस्तावदूर्ध्वं
त्रिदशानां स्थानम् । तस्मादपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं यामानां स्थानम् ।
ततोऽपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं तुषितानां स्थानमिति । एवं विस्तरेण
सर्वमनुक्रम्य सुदर्शनेभ्यो यावदधो जम्बूद्वीपस्तावदूर्ध्वमकनिष्ठानां स्थानम् ।
तस्मादूर्ध्वं न पुनः स्थानमस्ति । अत एव ज्येष्ठभूत्वादकनिष्ठा उच्यन्ते ।
अघ-निष्ठा इत्यपरे । अघं किल चित्तस्थं रूपम्, तन्मात्रनिष्ठेति ॥
किं पुनरधरस्थानोपपन्ना ऊर्ध्वानि विमानानि गत्वा पश्यन्ति ?
नोर्ध्वं दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात् ॥ ७२ ॥
ऋद्ध्या वा त्रायस्त्रिंशा यामान् गच्छेयुः । पराश्रयेण वा यदृद्धिमता
नीयेरन्, देवेन वा तत्रत्येन । एवं शेषाः ।
आगतं तूर्ध्वोपपन्नं पश्येत्, न तूर्ध्वधातुकम्, नोर्ध्वभूमिकम् । यथा
स्प्रष्टव्यं न स्पृशेदविषयत्वात् । अत एव ते नास्वेन कायेनागच्छन्ति, किं तर्हि ?
निर्मितेनाधरभूमिकेन ।
तदिच्छया पश्येदिहत्यमिवेति निकायान्तरीयाः ॥
पत्तिरिति शक्यं वक्तुम् । कुशलविपाकत्वेन सुखकल्पत्वात् सुखोपपत्तिरिति
न शक्यं व्यवस्थापयितुम्, चतुर्थेऽपि ध्याने सुखोपपत्तिप्रसङ्ग इति चेत् ? न;
तस्यां भूमौ सुखाभावात् । तस्माद्विचार्यं सम्प्रधार्यमेतदिति भावः ॥ ७१ ॥
एवं शेषा इति । ऋद्ध्या वा यामास्तुषितां गच्छेयुः, यदि ऋद्धिमता
नीयेरन्, देवेन वा तत्रत्येन । समानभूमिकास्तु चातुर्महाराजकायिकास्त्रायस्त्रिंशां
गच्छन्ति । आगतं तूर्ध्वोपपन्नं पश्येदिति । समानभूमिकम्, नोर्ध्वभूमिकमिति ।
प्रथमध्यानोपपन्नो न द्वितीयध्यानोपपन्नमित्यादि ।
तदिच्छयेति । ऊर्ध्वोपपन्नेच्छया । इहत्यमिवेति । इह भवः इहत्यः ।
अधोभूमिक इत्यर्थः । इहत्यमिव पश्येदिति निकायान्तरीयाः । यथा स्प्रष्टव्य-
मिति । उदाहरणमात्रमेतत् । यथाशब्द इत्येतदपि गम्येत ।
५२८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
अथैषां यामादिविमानानां कियत् प्रमाणम् ?
चतुर्णां तावद् यावत्सुमेरुमूर्ध्नः इत्येके। द्विगुणोत्तरमित्यपरे।
प्रथमं तु ध्यानं यावांश्चातुर्द्वीपकः, द्वितीयं यावान् साहस्रश्चूडिको
लोकधातुः, तृतीयं यावान् द्विसाहस्रः, चतुर्थं यावांस्त्रिसाहस्र इत्येके।
प्रथमादीनि साहस्रादिपरिमाणानि, चतुर्थं त्वपरिमाणमित्यपरे ॥ ७२ ॥
अथ कोऽयं साहस्रचूडिको लोकधातुः, को द्विसाहस्रः, त्रिसाहस्रो वा ?
चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् ।
ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः ॥ ७३ ॥
सहस्रं जम्बूद्वीपानां पूर्वविदेहानाम् अपरगोदानीयानामुत्तरकुरुणाम्, सहस्रं
सूर्याणां चन्द्राणां सुमेरूणाम्, सहस्रं चातुर्महाराजकायिकानां देवानां यावत्
परनिर्मितवशवर्तिनाम्, सहस्रं ब्रह्मलोकानाम्—अयमुच्यते साहस्रश्चूडिको
लोकधातुः।
तत् सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः ।
तेषां चूडिकानां लोकधातूनां सहस्रं द्विसाहस्रो मध्यमो लोकधातुः।
तत् सहस्रं त्रिसाहस्रः,
तेषां द्विसाहस्राणां लोकधातूनां सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातुः ।
एष हि कृत्स्नः—
समसंवर्तसम्भवः ॥ ७४ ॥
समं संवर्तते, समं विवर्तते। सम्भवो हि विवर्त इत्युत्तरत्र व्याख्यास्यामः
चतुर्णां कामावचराणां यामादिस्थानानाम्। द्विगुणोत्तरमिति। यामस्थानं
द्विगुणं तुषितस्थानमित्यादि । चतुर्थं त्वपरिमाणमिति। तारकावदतलवाटव-
प्रतिबद्धविमानत्वादपरिमाणत्वसम्भव इत्यभिप्रायः ॥ ७२ ॥
सहस्रं ब्रह्मलोकानामिति । ब्रह्मकायिक-ब्रह्मपुरोहित-महाब्रह्मणामित्यर्थः ।
लोके तथा प्रतीतत्वात् ।
“चूडिकः” इति । महतो लोकधातोश्चूडाभूतत्वाच्चूडिक इत्युच्यते ।
सम्भवो हि विवर्त्त इति। विविधवर्त्तनं विवर्त्तः। विविधा वर्तन्तेऽस्मिन्निति
१. व्याख्यास्यते—का० ।
निर्देशः ] तृतीयं कोशस्थानम् ५२९
किं खलु यथा भाजनानां प्रमाणभेदः, एवं तद्वासिनामपि सत्त्वानां
प्रमाणभेदोऽस्ति ? अस्तीत्याह । तत्र तावत्—
जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः ।
जम्बूद्वीपका मनुष्याः प्रमाणार्धचतुर्हस्तकाः । केचित्तु चतुर्हस्तकाः ।
द्विगुणोत्तरवृद्ध्या तु पूर्वगोदोत्तराह्वयाः ॥ ७५ ॥
पूर्वविदेहकाः, गोदानीयाः, १ औत्तरकौरवाश्च २ मनुष्या अष्ट-षोडश-द्वात्रिंश-
द्धस्तप्रमाणका ३ यथाक्रमम् ॥ ७५ ॥
पादवृद्ध्या तनुर्यावत् सार्धक्रोशो दिवौकसाम् ।
कामिनाम्,
पादः = कोशस्य चतुर्थो भागः । तन्मात्रं शरीरं चातुर्महाराजकायिकानाम्,
द्वौ पादौ त्रायस्त्रिंशानाम्, त्रयो यामानाम्, चत्वारस्तुषितानाम्, पञ्च निर्माणरती-
नाम्, अध्यर्धः कोशः परिनिर्मितवशवर्तिनाम् ।
रूपिणां त्वादौ योजनार्धम्,
रूपिणां देवानां प्रथमे स्थाने ब्रह्मकायिकानामर्धयोजनमात्रं शरीरम् ।
विवर्तः । संवर्तनं „वर्तः । संवर्तन्ते वास्मिन्निति संवर्त्तः । तस्मिन् हि काले
सत्त्वा एकस्मिन् ध्याने द्वितीये तृतीये चतुर्थे वा संवर्तन्ते, सङ्गच्छन्त इति ।
“विवर्तते च संवृत्त आस्ते संवर्तते समम्” ( अभि० को० ३.९३ ) इति
उत्तरत्र व्याख्यास्यामः ॥ ७३-७४ ॥
“जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः” इति । सार्धत्रिहस्तप्रमाण-
शरीराः । केचित्तु चतुर्हस्तप्रमाणशरीराः ।
“पूर्वगोदोत्तराह्वयाः” इति । पूर्वगोदः, उत्तर इति चाह्वय एषां ते पूर्वगोदो-
त्तराह्वयाः, तेषां यथासंख्यमष्टहस्तप्रमाणाः पूर्वविदेहकाः, षोडशहस्तप्रमाणा
गोदानीयाः, द्वात्रिंशद्धस्तप्रमाणका औत्तरकौरवा इति ॥ ७५ ॥
“पादवृद्ध्या” इति विस्तरः । “यावत् सार्धक्रोशः” इति । वक्ष्यमाणत्वात्
पाद इति कोशस्येति गम्यते । कोशचतुर्थभागमात्रं च शरीरं चातुर्महाराजकायिका-
नाम्, द्विपादमात्रं त्रायस्त्रिंशानाम्, यावदध्यर्धं कोशमात्रं परिनिर्मितवशवर्तिनाम् ।
१. गोदानीकाः—का० । २. उत्तर०—का० ।
३. ०द्धस्तकाः—का० ।
५३० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
ततः परम् ॥ ७६ ॥
अर्धार्धवृद्धिः,
त्रिषु स्थानेषु ब्रह्मपुरोहितानां योजनम्, महाब्रह्मणोऽध्यर्धम्, परीत्ताभानां
द्वे योजने ।
ऊर्ध्वं तु परीत्ताभेभ्य आश्रयः ।
द्विगुणद्विगुणा हित्वाऽनभ्रकेभ्यस्त्रियोजनम् ॥ ७७ ॥
अप्रमाणाभानां चत्वारि योजनानि । आभास्वराणामष्टौ । एवं द्विगुण-
वृद्ध्या यावच्छुभकृत्स्नानां चतुःषष्टिः । अनभ्रकाणां ततो योजनत्रयेण हीनं
द्विगुणं पञ्चविंशतियोजनशतम् । तस्मात् परेण पुनः पुण्यप्रसवानां द्विगुणं
द्विगुणं यावदकनिष्ठानां षोडशयोजनसहस्राणि शरीरम् ॥ ७६-७७ ॥
एवं प्रमाणभिन्नानां किमायुषोऽप्यस्ति भेदः ? अस्तीत्याह ।
सहस्रमायुः कुरुषु,
वर्षाणाम् ।
द्वयोरर्धार्धवर्जितम् ।
द्वयोर्द्दीपयोरर्धार्धं वर्जयित्वा पञ्च वर्षशतानि गोदानीयानाम् । अर्धतृतीये
वर्षशते पूर्वविदेहानाम् ।
इहानियतम्,
जम्बूद्वीपे नास्त्यायुषो नियमः । कदाचित् भूयो भवति, कदाचिदल्पीयः ।
अन्ते तु दशाब्दाः,
अब्दः = संवत्सरः । अन्ते हीयमानं दश वर्षाण्यायुर्भवति ।
आदितोऽमितम् ॥ ७८ ॥
आदितः प्राथमकल्पिकानां मनुष्याणामपरिमागमायुर्भवति । सहस्रादि-
योजनत्रयेण हीनं द्विगुणमिति । द्विगुणं कृत्वा त्रीणि योजनान्यपनेयानि ।
पञ्चविंशयोजनशतमनभ्रकाणां शरीरप्रमाणमिति । पुण्यप्रसवानामिति । पुण्यप्रसवा-
नामर्धतृतीये योजनशते शरीरप्रमाणम्, बृहत्फलाना पञ्चयोजनशतानीति गण-
यितव्यम् ॥ ७६-७७ ॥
निर्देशः ] तृतीयं कोशस्थानम् ५३१
संख्यया परिमातुं न शक्यते ।
उक्तं मनुष्याणाम् ॥
देवानां वक्तव्यम् । तच्चाहोरात्रं व्यवस्थाप्य शक्यं वक्तुमिति स एव
चैषां व्यवस्थाप्यते—
नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम् ।
कामेऽधराणाम्,
यानि मनुष्याणां पञ्चाशद् वर्षाणि, तानि कामधातावधराणां देवानां
चातुर्महाराजकायिकानामेकं रात्रिन्दिवम् ।
तेनायुः पञ्चवर्षशतानि तु ॥ ७९ ॥
तेन ततस्त्येनाहोरात्रेण १ तेषां त्रिंशद्रात्रकेण मासेन द्वादशमासकेन
संवत्सरेण दिव्यानि पञ्चवर्षशतानि आयुःप्रमाणम् ।
द्विगुणोत्तरमूर्द्धानामुभयम्,
ऊर्ध्वानां देवानामुभयं द्विगुणोत्तरमहोरात्रश्चायुश्च । कथं कृत्वा ?
यन्मनुष्याणां वर्षशतं तत् त्रायस्त्रिंशानां देवानामेकं रात्रिन्दिवम्, तेन रात्रिन्दिनेन
दिव्यं वर्षसहस्रमायुः । एवं यामादीनां यथाक्रमम् । मानुष्यकाणि द्वे चत्वार्यष्टौ
षोडश वर्षशतान्येकं रात्रिन्दिवम्, तेन रात्रिन्दिनेन द्वे चत्वार्यष्टौ षोडश
दिव्यानि वर्षसहस्राण्यायुषः प्रमाणम् ।
युगन्धरादूर्ध्वं सूर्याचन्द्रमसोर्भावात् कथं देवानामहोरात्रव्यवस्थानम्,
आलोककृत्यं वा ?
पुष्पाणां सङ्कोचविकासात् कुमुदपद्मवत् २, शकुनीनां च ३ कूजनाकूजनात्,
“कुमुदपद्मवदिति” । यथेह कुमुदान्यहनि सङ्कुचन्ति रात्रौ विकसन्ति,
पद्मानि तु विपर्ययेण; तथा तत्र केषाञ्चिदेव पुष्पाणां सङ्कोचादहनि च
विकासादहोरात्रव्यवस्थानम् । शकुनीनाञ्च कूजनाकूजनात् । अकूजनाद् रात्रिः,
१. ततस्तेना०—का० । २. कुमुदबन्धुवत्—का० ।
३. का० पुस्तके नास्ति ।
५३२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
मिद्धापगमोपगमाच्च¹ आलोककृत्यम्; स्वयम्प्रभत्वात् ।
उक्तमायुः कामिनाम् ॥
रूपिणां पुनः ।
नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसम्मितैः ॥ ८० ॥
येषां रूपिणामर्धयोजनमाश्रयः, तेषामर्धकल्पमायुः । येषां योजनम्, तेषां
कल्पम् । एवं यस्य यावद्योजनमाश्रयः, तस्य तावत्कल्पमायुः; यावदकनिष्ठानां
षोडशकल्पसहस्राण्यायुःप्रमाणम् ॥ ८० ॥
आरूप्ये विंशतिः कल्पसहस्राण्यधिकाधिकम् ।
आकाशानन्त्यायतने विंशतिकल्पसहस्राण्यायुषः प्रमाणम् । विज्ञाना-
नन्त्यायतने तस्मादधिकं विंशतिः सहस्राणि । आकिञ्चन्यायतने तस्मादधिकं
विंशतिः । भवाग्रे तस्मादधिकं विंशतिः । एवं तेषां यथाक्रमं चत्वारिंशत्²
षष्टिरशीतिः कल्पसहस्राण्यायुःप्रमाणम् ॥
कतमोऽत्र कल्पो वेदितव्यः—किमन्तरकल्पः, अथ संवर्तकल्पः, अथ
विवर्तकल्पः, अथ महाकल्पः ?
महाकल्पः परीत्ताभात् प्रभृत्यर्धमधस्ततः ॥ ८१ ॥
परीत्ताभादेव निकायात् प्रभृति महाकल्पेनायुः वेदितव्यम् । तस्मादधो
महाकल्पस्यार्धं कल्पीकृत्य महाब्रह्मादीनामायुर्व्यवस्थापितम् ।
कूजनात् प्रभातम् । विपर्ययेण वा यथा शकुनिजात्³ मिद्धापगमोपगमाच्च ।
मिद्धोपगमाद् रात्रिः प्रज्ञायते, मिद्धापगमात् प्रभातमिति ॥ ७८-८० ॥
“अधिकाधिकम्” इति । विंशतिरधिकम् । अधिकं भवतीत्यर्थः । तेनाह—
एवं तेषां यथाक्रमं चत्वारिंशत् षष्टिरशीतिः कल्पसहस्राणि आयुःप्रमाणमिति ।
विज्ञानानन्त्यायतने चत्वारिंशत् । आकिञ्चन्यायतने षष्टिः । भवाग्रेऽशीतिः ।
तस्मादधो महाकल्पस्यार्धमिति विस्तरः । अशीतिरन्तरकल्पा महाकल्पः,
तस्यार्धं चत्वारिंशदन्तरकल्पाः । तस्य महाकल्पार्धस्य कल्पीकृतस्य यदर्धं
विंशतिरन्तरकल्पाः, तद् ब्रह्मकायिकानामायुःप्रमाणम् । यत्तदर्धकल्पीकृतं
चत्वारिंशदन्तरकल्पाः, तद्ब्रह्मपुरोहितानामायुःप्रमाणम्। तदेवमात्मीयार्धं महा-
ब्रह्मण आयुःप्रमाणम् । स ह्यर्धः कल्प इत्युच्यते षष्ट्यन्तरकल्पसंख्यः । महा-
१. मिद्धापगमागमाच्च—का० । २. विंशतिश्चत्वा०—का० ।
३. शकुनिज्योति—मु० पाठः ।
निर्देशः ] तृतीयं कोशस्थानम् ५३३
कथं कृत्वा ?
यच्च लोको विंशतिमन्तरकल्पान् विवर्तते, यच्च लोको विंशतिमन्तरकल्पान्
विवर्त आस्ते, यच्च विंशतिमन्तरकल्पान् संवर्तते—इमे षष्टिरन्तरकल्पा महा-
ब्रह्मणोऽध्यर्धः कल्प उक्तः । एवं च कृत्वा महाफलस्यार्धं चत्वारिंशदन्तर-
कल्पान् कल्पीकृत्य तेषामायुःप्रमाणमुक्तम् ॥ ८१ ॥
उक्तं सुगतावायुःप्रमाणम् ॥
दुर्गताविदानीं वक्तव्यम् । तत्र तावत्—
कामदेवायुषा तुल्या अहोरात्रा यथाक्रमम् ।
सञ्जीवादिषु षट्सु,
यावत् षण्णां कामावचराणां देवनिकायानामायुरुक्तम्, तेन तुल्या
अहोरात्राः षट्सु नरकेषु यथाक्रमं वेदितव्याः—सञ्जीवे, कालसूत्रे,
सङ्घाते, रौरवे, महारौरवे, तापने च ।
आयुस्तैस्तेषां कामदेववत् ॥ ८२ ॥
तैरिदानीं स्वैरहोरात्रैस्तेषां यथा षण्णां कामावचराणां देवानामायुः, तथैव
यथाक्रमं वेदितव्यम् ।
कथं कृत्वा ? यद्धि चातुर्महाराजकायिकानामायुःप्रमाणम्, तत् सञ्जीवने
महानरके एकं रात्रिन्दिवम् । तेन यावद् द्वादशमासकेन संवत्सरेण तत्रत्यानि
पञ्चवर्षशतान्यायुः ।
ब्रह्मादीनामिति । आदिशब्देन ब्रह्मपुरोहितानां ब्रह्मकायिकानां च प्रातिलोम्येन
ग्रहणम् ।
“अर्धमधस्ततः” । परीत्ताभात् देवनिकायादिति निर्देशापेक्षणात् तेषामायुः
प्रमाणमुक्तमिति । तेषां महाब्रह्मपुरोहितानां ब्रह्मकायिकानाम् ॥ ७८-८१ ॥
“कामदेवायुषा तुल्याः” इति विस्तरः । चातुर्महाराजकायिकानां यदायुः-
प्रमाणमुक्तम्, स सञ्जीवे अहोरात्रः । एवं यावद्यत् परनिर्मितवशवर्त्तिनामायुः-
प्रमाणमुक्तम्, स तापने अहोरात्रः ।
“कामदेववत्” इति । कामदेवानामिव कामदेववत् । “तत्र तस्येव”
( पा० सू० ५.१.११६ ) इति वतिः । तेन यावद् द्वादशमासकेनेति । तेन तत-
स्त्येनाहोरात्रेण तेषां त्रिंशद्रात्रेण मासेन द्वादशमासकेन संवत्सरेण तत्रत्यानि
५३४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
यत् त्रायस्त्रिंशानामायुःप्रमाणम्, तत् कालसूत्रे महानरके एकं रात्रि-
न्दिवम् । तेन रात्रिन्दिवेन तस्मिन् वर्षसहस्राण्यायुःप्रमाणम् ।
एवमन्येष्वपि यथायोगं योज्यम्, यावत् परनिर्मितवशवर्तिनामायुःप्रमाणं
तत्तुल्येनाहोरात्रेण तापने षोडश वर्षसहस्राण्यायुःप्रमाणम् ॥ ८२ ॥
अर्धं प्रतापने,
प्रतापने महानरकेऽन्तरकल्पस्यार्धमायुःप्रमाणम् ।
अवीचावन्तःकल्पम्,
तिरश्चां तु नियमो नास्ति ।
परं पुनः ।
कल्पं तिरश्चाम्,
परमायुस्तिरश्चामन्तरकल्पम् । तत् पुनर्नगानां नन्दोपनन्दाश्वतली-
प्रभृतीनाम् । उक्तं हि भगवता—"अष्टाविमे भिक्षवो नागा महानागाः
कल्पस्था धरणीन्धराः” ( ) इति विस्तरः ।
प्रेतानां मासाह्ना शतपञ्चकम् ॥ ८३ ॥
यो मनुष्याणां मासः, स प्रेतानामहोरात्रः । तेनाहोरात्रेण पञ्च वर्ष-
शतान्यायुः ॥ ८३ ॥
शीतनरकेष्वायुषः किं प्रमाणम् ?
वाहाद् वर्षशतेनैकतिलोद्धारक्षयायुषः ।
अर्बुदाद् विंशतिगुणप्रतिवृद्ध्यायुषः परे ॥ ८४ ॥
दिव्यानि पञ्च वर्षशतान्यायुरित्यादि ।
एवमन्येष्वपि यथायोगं योज्यमिति । यद् यामानामायुःप्रमाणम्, तत् सङ्घाते
महानरके एकं रात्रिन्दिवम् । तेन तस्मिन् रात्रिन्दिवेन वर्षसहस्रद्वयमायुः-
प्रमाणम् । एवमन्येष्वपि यथायोगं योज्यम् ॥ ८२ ॥
अष्टाविमे भिक्षव इति । 'अष्टाविमे भिक्षवो नागा महानागाः कल्पस्था
धरणीन्धरा अप्रत्युद्धार्याः सुपर्णिनः पक्षिराजस्य देवासुरमपि संग्राममनुभवन्त्यपि
प्रत्यनुभवन्त्यपि । ते पुनः कतमे ? तद्यथा—नन्दो नागराजः, उपनन्दो
नागराजः, अश्वतरी नागराजः, मुचिलिन्दो नागराजः, मनस्वी नागराजः,
निर्देशः ] तृतीयं कोशस्थानम् ५३५
उपमानमात्रेण तेष्वायुराख्यातं भगवता--“तद्यथा भिक्षव इह स्याद्
विंशतिखारिको मागधकस्तिलवाहः पूर्णस्तिलानां चूडिकायद्धः । ततः कश्चिदेव
वर्षशतस्यात्ययादेकं तिलमपनयते, क्षिप्रतरं भिक्षवः स विंशतिखारोको मागधक-
स्तिलवाहोऽनेनोपक्रमेण परिक्षयं पर्यादानं गच्छेत् । न त्वेवाहमर्बुदोपपन्नानामा-
युषः पर्यन्तं वदामि। यथा खलु भिक्षवो विंशतिरर्बुदाः, एवमेको निरर्बुदः;
विस्तरेण यथा खलु भिक्षवो विंशतिः पद्मा एवमेको महापद्मः” इति ॥
एवमेषामायुष्मतां सत्त्वानां किमस्त्यपरिपूणायुषामन्तरा मृत्युः, आहोस्विन्न ?
सर्वत्रास्ति--
कुरुबाह्योऽन्तरामृत्युः,
उत्तरकुरुषु नियतायुषः सत्त्वा अवश्यं कृत्स्नमायुर्जीवन्ति । अन्येषु
नावश्यम् । पुद्गलानां तु बहूनां नास्त्यन्तरेण कालक्रिया । तुषितस्थस्यैकजाति-
प्रतिबद्धस्य' बोधिसत्त्वस्य, चरमभविकसत्त्वस्य जिनादिष्टस्य जिनभूतस्य, श्रद्धा-
नुसारिधर्मानुसारिणोः, २ बोधिसत्त्वचक्रवर्त्तिमात्रोश्च तद्गर्भयोरित्येवमादीनाम् ॥
योजनप्रमाणेन स्थानानि शरीराणि चोक्तानि, वर्षप्रमाणेन नायुरुक्तम् ॥
तयोश्च प्रमाणं नोक्तमिति वक्तव्यम्, नाम्ना च सर्वेषां व्यवस्थानम्,
अतस्तस्यापि पर्यन्तो वक्तव्यः । तेषां समानाख्यानार्थमादिप्रक्रम आरभ्यते--
परमाण्वक्षरक्षणाः ।
धृतराष्ट्रो नागराजः, महाकारो नागराजः, एलपत्रो नागराजः” ( )
इति । चूडिकाबद्ध इति शिखाबद्धः ॥ ८३-८४ ॥
एकजातिप्रतिबद्धस्येति । एकजन्मप्रतिबद्धबुद्धत्वस्य । चरमभविकस्येति ।
अन्त्यजन्मनः । येन तस्मिन्नेव जन्मन्यर्हत्त्वं साक्षात् कर्त्तव्यम् । तस्य नास्त्य-
न्तरेण कालक्रिया यावदर्हत्त्वं न प्राप्नोति । श्रद्धानुसारिधर्मानुसारिणोः नास्त्य-
न्तरेण कालक्रिया यावच्छ्रद्धाधिमुक्तदृष्टि प्राप्तौ न भवतः । तद्गर्भयोरिति । बोधि-
सत्त्वचक्रवर्त्तिगर्भयोः तन्मात्रोर्नास्त्यन्तरेण कालक्रिया यावन्न तौ जायेते ।
एवमादीनामिति । आदिशब्देन निरोधासंज्ञितमापत्तिसमापन्नानां मैत्र्यादिसमा-
पन्नानां च नास्त्यन्तरेण कालक्रिया, यावत्तास्मात् समाधेर्न व्युत्तिष्ठन्ते ॥ ८६ ॥
१. जातिबद्धस्य--का० । २. श्रद्धाधर्मानुसारिणो--का० ।
रूपनामाध्वपर्यन्ताः,
रूपस्यापचीयमानस्य पर्यन्तः परमाणुः । कालस्य पर्यन्तः क्षणः । नाम्नः
पर्यन्तोऽक्षरम् । तद्यथा—गौरिति ।
क्षणस्य पुनः किं प्रमाणम् ? समग्रेषु प्रत्ययेषु यावता धर्मस्यात्मलाभः,
गच्छन् वा धर्मो यावता परमाणोः परमाण्वन्तरं गच्छति । बलवत्पुरुषाच्छोटमात्रेण
पञ्चषष्टिः क्षणा अतिक्रामन्तीत्याभिधार्मिकाः ।
परमाणुरणुस्तथा ॥ ८५ ॥
लोहाब्शशाविगोच्छिद्ररजोलिक्षास्तदुद्भवाः ।
यवस्तथाऽङ्गुलिपर्व ज्ञेयं सप्तगुणोत्तरम् ॥ ८६ ॥
एतत् परमाण्वादिकं सप्तगुणोत्तरं वेदितव्यम् । सप्त परमाणवोऽणुः,
सप्ताणवो लोहरजः, तानि सप्ताब्जरजः, तानि सप्त शशरजः, तानि सप्तैडकरजः,
तानि सप्त गोरजः, तानि सप्त वातायनच्छिद्ररजः, तानि सप्त लिक्षाः, तदुद्भवा
यूकेत्यर्थः, सप्त यूका यवः, सप्त यवा अङ्गुलिपर्व । त्रीणि पर्वाण्यङ्गुरिति प्रसिद्ध-
मेवेति नोक्तम् ॥ ८५-८६ ॥
पार्धीकृतास्तु—
चतुर्विंशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् ।
धनुः,
व्यासेनेत्यर्थः ।
पञ्चशतान्येषां क्रोशोऽरण्यं च तन्मतम् ॥ ८७ ॥
धनुषां पञ्चशतानि क्रोशः । क्रोशमात्रं च ग्रामादि अरण्यमिष्टम्¹ ॥८७॥
तेऽष्टौ योजनमित्याहुः,
उक्तं योजनस्य प्रमाणम् ॥
वर्षस्येदानीमुच्यते—
विंशं क्षणशतं पुनः ।
“चतुर्विंशतिरङ्गुल्यो हस्तः” इति । अभिधर्मवचनकाले यः पुरुषहस्तः स
ग्रहीतव्यः । येन चतुर्द्दीपिकादिपरिमाणव्यवस्थानम् ॥ ८७ ॥
१. रण्यमिष्टम्—का० ।