सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 539, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 539

वाह्ययोगः स तादृशो भवति यत् कदाचिद् विमानस्यार्धं दृश्यत इति पूर्वा-
चार्याः ॥
अथैतानि सूर्यादिविमानानि कतमे सत्त्वा अध्यावसन्ति ? देवाश्चातुर्महा-
राजकायिकाः ।
किमेतान्येव तेषां स्थानानि ? विमानवासिनामेतानि । भूमिनिवासिनां
पुनः सुमेरुपरिषण्डादीनि ॥ ६२ ॥
कति चास्य परिषण्डाः ? कियत्यो वा ?
परिषण्डाश्चतस्रोऽस्य दशसाहस्रिकान्तराः ।
दशयोजनसहस्राण्युद्गम्यैका, एवं यावच्चतुर्थी। ताभिः सुमेरुरर्धमाक्षिप्तम् ।
ताश्च ततो यथासंख्यम्—
षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः ॥ ६३ ॥
प्रथमा परिषण्डा षोडश सहस्राणि योजनानां सुमेरोर्निर्गता ।
द्वितीयाऽष्टौ । तृतीया चत्वारि । चतुर्थी द्वे ॥ ६३ ॥
करोटपाणयस्तासु मालाधारास्सदामदाः ।
महाराजिकदेवाश्च,
प्रथमायां परिषण्डायां करोटपाणयो नाम यक्षाः प्रतिवसन्ति । द्वितीयायां
मालाधाराः । तृतीयायां सदामदाः सदामत्ताः । सर्व एते चातुर्महाराज-
स्वच्छाययाच्छाद्यते—दूरे हि वर्तमाने प्रदीपे परिपूर्णस्तम्भो दृश्यते, किञ्चि-
दासन्ने किञ्चित् क्षीयते, यावदासन्ने स्तम्भो नष्टरूपो वर्तते; तद्वदेतत् ।
वाह्ययोग स तादृश इति । पुनस्तियंगवनामोन्नामयोगेनाधोभागश्चन्द्र-
मण्डलस्य क्षीयते, ऊर्ध्वं वर्धते चेति योगाचाराः ।
चातुर्महाराजकायिका इति । चतुर्महाराजानं कायः, तत्र भवाश्चातुर्महा-
राजकायिकाः ।
सुमेरुपरिषण्डादीनीति । आदिशब्देन युगन्धरादीनि ॥ ६२ ॥
“दशसाहस्रिकान्तराः” इति । योजनदशसहस्रप्रमाणान्तरा इत्यर्थः ।
अर्धमाक्षिप्तमिति । अर्धमवष्टब्धम् ॥ ६३ ॥
“सदामदाः” इति । 'सदामत्ताः' वक्तव्ये श्लोकबन्धानुगुण्येन 'सदामदाः'
इत्युक्तम्; अर्थैकत्वात् ।