सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] तृतीयं कोशस्थानम् ४३५
एतेन प्रकारेण क्लेशकर्महेतुकं जन्म तद्धेतुकानि पुनः क्लेशकर्माणि तेभ्यः
पुनर्जन्मेत्यनादिभवचक्रकं वेदितव्यम् ।
आदौ हि परिकल्प्यमाने तस्याहेतुकत्वमेतेषु सज्येत । सति चास्याहेतुकत्वे १
सर्वमेवेदमहेतुकं प्रादुःस्यात् । दृष्टं चाङ्कुरादिषु बीजादीनां सामर्थ्यं देशकाल-
प्रतिनियमादग्न्यादीनां वा २ पाकजादिष्विति नास्ति निर्हेतुकः प्रादुर्भावः ।
नित्यकारणास्तित्ववादः ३ प्रागेव पर्युदस्तः । तस्मान्नास्त्येव संसारस्यादिः ।
अन्तस्तु हेतुक्षयाद् युक्तः । हेत्वधीनत्वाज्जन्मनो बीजक्षयादिवाङ्कु-
रस्येति ॥ १९ ॥
य एष स्कन्धसन्तानो जन्मत्रयावस्थ उपदिष्टः,
स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः ।
तत्र द्वादशाङ्गानि—अविद्या, संस्काराः, विज्ञानम्, नामरूपम्, षडायतनम्,
स्पर्शः, वेदना, तृष्णा, उपादानम्, भवः, जातिः, जरामरणं च ।
त्रीणि काण्डानि पूर्वापरान्तमध्यान्यतीतानागतप्रत्युत्पन्नानि जन्मानि ।
कथमेषु त्रिकाण्डेषु द्वादशाङ्गानि व्यवस्थाप्यन्ते ?
पूर्वापरान्तयोर्द्वे द्वे, मध्येऽष्टौ,
तस्याहेतुकमिति । आदेरहेतुकत्वम् । सति चास्याहेतुकत्वे । तद्वदेव सर्व-
महेतुकं प्रादुः स्यात् । दृष्टं चांकुरादिषु बीजादीनां सामर्थ्यम् । अङ्कुरनाल-
काण्डपत्रादिषु बीजाङ्कुरनालकाण्डादीनां सामर्थ्यमुत्पादनाय । कस्मात् ? देश-
कालप्रतिनियमात् । देशकालयोस्तु प्रतिनियमात् । तत्र देशप्रतिनियमो बीजा-
दिसम्बद्ध एव देश उत्पत्तेः । कालप्रतिनियमो बीजानन्तरमुत्पत्तेः । अग्न्यादीनां
वाग्निशीतोष्णाभिघातचक्षुरादीनां पाकजादिषु पाकजसुखदुःखशब्दचक्षुर्विज्ञाना-
दिषु दृष्टं सामर्थ्यम्; देशकालप्रतिनियमात् । यदि हि निर्हेतुकः प्रादुर्भावः
स्यात्, बीजादीनामङ्कुरादिषु अग्न्यादीनाञ्च पाकजादिषु देशकालप्रतिनिय-
मेनोत्पत्तिं प्रति सामर्थ्यं न स्यात् । सर्वं सर्वत्र सर्वदोत्पद्येत । न चैवं दृष्टम्,
इत्यतो नास्ति निर्हेतुकः प्रादुर्भावः । नित्यकारणास्तित्ववादः प्रागेव पर्युदस्तः;
“नेश्वरादेः क्रमादिभिः” ( अभि० को० २.६५ ) इति वचनात् ॥ १८-१९ ॥
१. चाहेतुकत्वे—का० । २. च—का० । '
३. ०वादश्च—का० ।

४३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
अविद्या संस्काराश्च पूर्वान्ते, जातिर्जरामरणं चापरान्ते । शेषाण्यष्टौ मध्ये ।
किं पुनरेतान्यष्टाङ्गानि सर्वस्यां जातौ भवन्ति ? नेत्याह । कस्य तर्हि ?
परिपूरिणः ॥ २० ॥
परिपूरोऽस्यास्तीति परिपूरी, य एतानि सर्वाण्येवावस्थान्तराणि स्पृशति
सोऽत्र पुद्गलोऽभिप्रेतः, न तु योऽन्तराल एव म्रियते । नापि रूपारूप्यावचरः ।
तथा हि महानिदानपर्यायसूत्रे¹ कामावचर एव पुद्गलो निर्दिष्टः; “विज्ञानं
चेदानन्द मातुः कुक्षिं नावक्रामेत्” ( ) इति वचनात् ।
यदा तु द्विविधः प्रतीत्यसमुत्पाद उच्यते—पौर्वान्तिकश्च, अपरान्तिकश्चेति;
तदा सप्ताङ्गानि पौर्वान्तिको यावद्वेदनान्तः, पञ्चापरान्तिकः, सफलहेतुकयोः
पूर्वापरान्तयोर्ग्रहणात् ॥ २० ॥
अथ क इमेऽविद्यादयः ?
पूर्वक्लेशो दशाऽविद्या,
या पूर्वके जन्मनि क्लेशावस्था, सेहाविद्येत्युच्यते; साहचर्यात्, तद्वशेन तेषां
शेषाण्यष्टौ मध्य इति । विज्ञाननामरूपषडायतनस्पर्शवेदना तृष्णोपादान-
भवाङ्गानि ।
नापि रूपारूप्यावचर इति । रूपावचरस्य विज्ञानाङ्गकाल एव नामरूप-
षडायतनाङ्गयोः सद्भावात् । न मध्येऽष्टावङ्गानि; आरूप्यावचरस्य च नामरूप-
षडायतनाङ्गयोरभावात् । महानिदानपर्यायसूत्रे “विज्ञानं चेदानन्द मातुः कुक्षिं
नावक्रामेदपि तु तन्नामरूपं कललत्वायाभिसम्मूच्छेत्, नो भदन्त” इत्यादि तत् सूत्रं
पठ्यते । मातुः कुक्ष्यवक्रमणं हि कामधातावेवेति । सफलहेतुकयोः पूर्वापरान्त-
योर्ग्रहणादिति । यथाक्रममेतत्—पूर्वान्तस्य सफलस्य ग्रहणाद्, अपरान्तस्य
च सहेतुकस्य ग्रहणादिति । तत्र पूर्वान्ते हेतुरविद्या संस्काराश्च, तस्य फलं
पञ्चाङ्गानि—विज्ञानं यावद्वेदनेति । अपरान्ते जातिर्जरामरणं चेति, फलम्
तस्य त्रीण्यङ्गानि हेतवस्तृष्णोपादानभवाः । तदेवं सप्ताङ्गानि पौर्वान्तिकः,
पञ्चाङ्गान्यपरान्तिक इति व्याख्यातं भवति ॥ २० ॥
अथ क इमेऽविद्यादय इति । किमविद्यैव केवला, उताहो सर्वे क्लेशाः, आहो-
स्वित् क्लेशावस्था—इति सन्देहे पृच्छति । साहचर्यादिति । यस्मादविद्यासह-
१. ०पर्याये—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ४३७
समुदाचाराच्च। राजागमनवचने तदनुयातृकागमनसिद्धवत्¹।
संस्काराः पूर्वकर्मणः।
'दश' इति वर्त्तते। पूर्वजन्मन्येव या पुण्यादिकर्मावस्था सेह संस्कारा
इत्युच्यन्ते, यस्य कर्मण इह विपाकः।
सन्धिस्कन्धास्तु विज्ञानम्,
मातुः कुक्षौ प्रतिसन्धिक्षणे पञ्च स्कन्धा विज्ञानम्।
नामरूपमतः परम् ॥ २१ ॥
प्राक् षडायतनोत्पादात्,
सन्धिचित्तात् परेण यावत् षडायतनं नोत्पद्यते साऽवस्था नामरूपं
तावत् षडायतनमित्युच्यते। प्राक्चतुरायतनोत्पादादिति वक्तव्ये षडायतनवचनं
तदा तद्ब्यवस्थापनात् ॥ २१ ॥
तत्पूर्वं त्रिकसङ्गमात्।
उत्पन्ने षडायतने सावस्था तावत् षडायतनमित्युच्यते यावदिन्द्रिय-विषय-
विज्ञानत्रिकसन्निपातः।

चारिणः क्लेशाः। तद्वशेन तेषां समुदाचाराच्च। यस्माच्चाविद्यावशेन तेषां
क्लेशानां समुदाचारः स पुनस्तदनुवृत्तिः। मूढस्य हि क्लेशसमुदाचारः,
नामूढस्य। राजागमनवचन इति विस्तरः। साहचर्यात् तद्वशेन तेषां समुदा-
चारात्, तद्वदेतत्। तदेवमविद्यावशादविद्याङ्गः क्लेशदशेत्यर्थः। तस्मादुक्तम्—
“पूर्वक्लेशदशाविद्या” इति, न तूक्तम्—पूर्वाविद्यादशाविद्येति।
पुण्यादिकर्मावस्थेति। पुण्यापुण्यकर्मावस्थेत्यर्थः ॥ २१ ॥
प्राक् चतुरायतनोत्पादादिति वक्तव्य इति। मनःकायायतनयोरुपपत्तिभव
एवोत्पादात्। तदा तद्व्यवस्थापनादिति। चक्षुराद्यायतननोत्पत्तिकाले कायमन-
आयतनयोर्व्यवस्थापनादित्यर्थः।
“तत्पूर्वं त्रिकसङ्गमात्” इति। तत् षडायतनाङ्गं प्राक् त्रिकसङ्गमात्,
प्रागिन्द्रियविषयविज्ञानत्रिकसङ्गमात्। प्रागिन्द्रियविषयविज्ञानत्रिकसन्निपाता-
दित्यर्थः ॥
१. तदनुयात्रिक०—का० ।

४३८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
स्पर्शः प्राक् सुखदुःखादिकारणज्ञानशक्तिः ॥ २२ ॥
त्रयाणां सन्निपातात् स्पर्शो भवति । स यावद्वेदनात्रयकारणपरिच्छेदेन
भवति साऽवस्था स्पर्श इत्युच्यते ॥ २२ ॥
परिच्छेदसामर्थ्ये सति—
वित्तिः प्राङ् मैथुनात्,
वेदनावस्था यावन्मैथुनरागो न समुदाचरति ।
तृष्णा भोगमैथुनरागिणः ।
कामगुणमैथुनरागसमुदाचारावस्था तृष्णेत्युच्यते, यावन्न तद्विषयपर्येष्टि-
मापद्यते ।
उपादानं तु भोगानां प्राप्तये परिधावतः ॥ २३ ॥
यस्यामवस्थायां विषयप्राप्तये पर्येष्टिमापन्नः सर्वतो धावति, असाववस्था
उपादानमित्युच्यते ॥ २३ ॥
तथा च परिधावन्—
स भविष्यद्भवफलं कुरुते कर्म तद् भवः ।
“स्पर्शः प्राक्” इति । षडिन्द्रियविषयविज्ञानसन्निपातः स्पर्शो जाता-
वस्थायां व्यवस्थाप्यते; परिपूर्णषडायतनसन्निपातसद्भावात् । आ कुतः ?
प्राक् सुखदुःखासुखवेदनाकारणेषु । “ज्ञानशक्तिः”। स बालो यावत् सुखाया
वेदनाया एतत् कारणम्, अदुःखासुखायाश्चैतत् कारणम्–इति परिच्छेदे न शक्तो
भवति सावस्था स्पर्श इत्युच्यते । तथा हि बालकोऽग्निमपि स्पृशेद्—दुःखस्यैतत्
कारणमित्यपरिच्छिन्दन् ॥ २२ ॥
परिच्छेदे सामर्थ्ये सति “वित्तिः” वेदनेत्यर्थः । आ कुतः ? “प्राङ्मैथुनात्” ।
यावन् मैथुनरागो न समुदाचरति सावस्था वेदनेत्युच्यते । वेदनाप्रकर्षिणी हि
सावस्था वेदना; कारणवेदनात् ।
“तृष्णा भोगमैथुनरागिणः” इति । भोगेषु रूपादिकामगुणलक्षणेषु मैथुने च
लोकप्रतीते रागिणः पुद्गलस्य तद्रागसमुदाचारावस्था तृष्णेत्युच्यते । पर्येष्टिमापन्न
इति । ‘एष’ ( मा० धा० १.३९९ ) इत्येतस्य धातोरेतद्रूपम् ।
उपादीयते विषय आत्मभावोऽनेनेत्युपादानम्, चतुर्विधः क्लेशः सावस्थो-
पादानमित्युच्यते ॥ २३ ॥
“स भविष्यद्भवफलम्” इति । स परिधावतो निर्देशः, भविष्यद्भवः फलम-

स विषयाणां प्राप्तिहेतोः परिधावन् पौनर्भविकं कर्मोपचिनोति सोऽस्य
भवः । तेन हि कर्मणा पुनरितः प्रच्युतस्यायत्यां प्रतिसन्धिर्भवति ।
योऽसौ
प्रतिसन्धिः पुनर्जातिः
यदेवेह विज्ञानाङ्गं तदेवास्यान्यत्र जन्मनि जातिः ।
तत ऊर्ध्वम्—
जरामरणमा विदः ॥ २४ ॥
जातेः परेण यावद्वेदनावस्था जरामरणम् । यान्येवेह चत्वार्यङ्गानि—
नामरूपषडायतनस्पर्शवेदनाः, तान्येवान्यत्र जरामरणमित्येतानि द्वादशाङ्गानि ॥
स चैव प्रतीत्यसमुत्पादश्चतुर्विध उच्यते—क्षणिकः, प्राकर्षिकः, सम्बन्धकः,
आवस्थिकश्च ।
कथं क्षणिकः ? एकस्मिन् खल्वपि क्षणे द्वादशाङ्गानि भवन्ति ।
तद्यथा—लोभवशेन प्राणिं जीविताद् व्यपरोपयेत्, यो मोहः साऽविद्या,
या चेतना ते संस्काराः, वस्तुप्रतिविज्ञप्तिर्विज्ञानम्, विज्ञानसहभुवश्चत्वारः
स्कन्धा नामरूपम्, नामरूपे व्यवस्थितानि इन्द्रियाणि षडायतनम् । षडायत-
नाभिनिपातः स्पर्शः, स्पर्शानुभवनं वेदना, यो लोभः स तृष्णा, तत्सम्प्रयुक्तानि
स्येति भविष्यद्भवफलम् । “कर्म” पौनर्भविकमित्यर्थः । “तद्भवः” इति ।
भवत्यनेनेति भवः कर्मपर्यायः ।
“जरामरणमा विदः” इति । आ विद। आ वेदनाङ्गात् । जरामरणं नाम-
रूपादिचतुरङ्गस्वभावम् । विनेयजनोद्वेजनार्थं भगवता जरामरणशब्देन चत्वा-
र्यङ्गान्युक्तानि—“यो भिक्षवो रूपस्योत्पादः । एवं यावद् विज्ञानस्य”
( ) इति ॥ २४ ॥
क्षणिकः । क्षणे भवः, क्षणोऽस्यास्तीति वा क्षणिकः । प्रकर्षेण दीव्यति चरति
वा प्राकर्षिकः प्रबन्धयुक्त इत्यर्थः । एवं सम्बन्धकः हेतुफलसम्बन्धयुक्त इत्यर्थः ।
एवमावस्थिकः द्वादशपञ्चस्कन्धिका अवस्था इत्यर्थः । विज्ञानसहभुव इति
विस्तरः । रूपमत्र सहभूर्विज्ञप्त्यविज्ञप्त्यादि । संज्ञादिस्कन्धत्रयं नाम । नाम-
रूपव्यवस्थितानि इन्द्रियाणि तत्प्रतिबद्धवृत्तित्वादिन्द्रियाणाम् । आश्रयत्वेन
वा तानि नाम्नि व्यवस्थितानि इति । षडायतनाभिनिपातः स्पर्श इति ।
चक्षुरादीनां स्वस्मिन् विषये प्रवृत्तिरभिनिपातः । स तु सम्भवतः । कस्य

४४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
पर्यवस्थानानि उपादानम्, तत्समुत्थितं कायवाक्कर्म भवः, तेषा धर्माणांमुन्मज्जनं
जातिः, परिपाको जरा, भङ्गो मरणमिति ।
पुनराहुः—क्षणिकः साम्बन्धिकश्च यथा प्रकरणेषु—“प्रतीत्यसमुत्पादः
कतमः ? सर्वे संस्कृता धर्माः” इति ।
आवस्थिको द्वादश पञ्चस्कन्धिका अवस्था निरन्तरजन्मत्रयसम्बद्धाः । स
एव प्राकर्षिकः ।
एषां कतमोऽयमभिप्रेतो भगवतः ?
आवस्थिकः किलेष्टोऽयं,
यद्यङ्गमङ्गं पञ्च स्कन्धाः किं कारणमविद्यादीनेव धर्मान् कीर्तयति स्म ?
प्राधान्यात्त्वङ्गकीर्तनम् ।
अविद्याप्रधानांमवस्थामविद्यां जगाद संस्कारप्रधानां संस्कारान् यावज्जरा-
मरणमित्यदोषः ।
किं पुनः कारणं सूत्रे द्वादशाङ्ग उक्तः, प्रकरणेष्वन्यथा “प्रतीत्यनुत्पादः
कतमः ? सर्वे संस्कृता धर्माः” इति ? आभिप्रायिकः सूत्रे, लाक्षणिकोऽभिधर्मे ।
तथावस्थिकः क्षणिकः प्राकर्षिकः साम्बन्धिकः सत्त्वाख्योऽसत्त्वाख्यश्चेति भेदः ।
तदानीमभिनिपातः सम्भवति स तस्य स्पर्श इति वेदितव्यः । तत्सम्प्रयुक्तानि
पर्यवस्थानान्युपादानम् । तया तृष्णया सम्प्रयुक्तान्यह्रीक्यानपत्राप्यादीनि पर्य-
वस्थानानि तदुपादानम् । तत्समुत्थम

निर्देशः ] तृतीयं कोशस्थानम् ४४१
किमर्थं पुनः सूत्रे सत्त्वाख्य एव ?
पूर्वापरान्तमध्येपु सम्मोहविनिवृत्तये ॥ २५ ॥
अत एव च त्रिकाण्डः । तत्र पूर्वान्तसंमोहो यत इयं विचिकित्सा—
‘को न्वहमभूवमतीतेऽध्वनि, आहोस्विन्नाभूवं कथं न्वहमभूवम्' इति । अपरा-
न्तसंमोहो यत इयं विचिकित्सा—'किं नु भविष्याम्यनागतेऽध्वनि' इति विस्तरः ।
मध्यसंमोहो यत इयं विचिकित्सा—'किंस्विदिदं के सन्तः के भविष्यामः' इति ।
एतस्य त्रिविधस्य संमोहस्य व्यावर्तनार्थं सत्त्वाख्य एव त्रिकाण्डश्च
प्रतीत्यसमुत्पाद उपदिष्टः सूत्रे यथाक्रममविद्या संस्काराश्च जातिर्जरामरणं च
विज्ञानं यावद् भवश्च । तथा हि सूत्रे एवोक्तम्—“यतश्च भिक्षवो भिक्षुणा
प्रतीत्यसमुत्पादश्च प्रतीत्यसमुत्पन्नाश्च धर्मा एवं यथाभूतं सम्यक् प्रज्ञया दृष्टा
भवन्ति । स न पूर्वान्तं प्रतिसरति—किं न्वहमभूवमतीतेऽध्वनि” इति विस्तरः ।
सर्वसंस्कृतग्रहणात् सत्त्वासत्त्वाख्यः प्रतीत्यसमुत्पादः उक्तः; सर्वसंस्कृत-
हेतुत्वयोगात् ।
विनेयसम्मोहविनिवृत्तिहेतुः सत्त्वाख्य एव द्वादशाङ्गः प्रतीत्यसमुत्पादो
देशितः । अत आह—"पूर्वापरान्तमध्येपु सम्मोहविनिवृत्तये” इति । अत एव
च त्रिकाण्ड इति । काण्ड इति भागः । कोन्वहमभूवमिति । देवो मनुष्य इति
वा । कथं न्वहमभूवमिति । केन प्रकारेण कया युक्त्येत्यर्थः । कि नु भविष्याम्य-
नागतेऽध्वनीति विस्तरः । किं नु भविष्याम्यनागतेऽध्वनि, आहोस्विन्न भवि-
ष्यामि, को नु भविष्यामि, कथं नु भविष्यामीति । केन प्रकारेण कया
युक्त्येत्यर्थः । किग्विदिदमिति । आत्मभावद्रव्यमन्वेषते, कथंस्विदिदमिति,
केन प्रकारेण कया युक्त्येति, तदेवात्मभावद्रव्यं नावधारयति । के सन्त इति ।
के वयमिदानीं विद्यमानाः । के भविष्याम इति एवं नावधारयति ।
सूत्रे यथाक्रममिति । अविद्या संस्काराश्च पूर्वान्तसम्मोहव्यावर्त्तनार्थम् ।
जातिर्जरामरणं चापरान्तसम्मोहव्यावर्त्तनार्थम् । विज्ञानं यावद्भवश्च मध्यसम्मोह-
व्यावर्तनार्थमिति । तथा हि सूत्र एवोक्तमिति विस्तरः । सूत्रेऽप्येवमेवं दर्शित-
मिति । सूत्रेण स्वव्याख्यानं समर्थयति । स न पूर्वान्तं प्रतिसरति, कि न्वहम-
भूवमतीतेऽध्वनीति विस्तरः । स न पूर्वान्तं प्रतिधावति । किं न्वहमभूवमतीते-
ऽध्वनीति प्रतीत्यसमुत्पादयथाभूतदर्शनेन नैवमतीतेऽध्वनि सम्मुह्यत इत्यर्थः ।
विस्तरशब्देन स नापरान्तं प्रतिसरति, किं नु भविष्याम्यनागतेऽध्वनीति
विस्तरः । तथा न स मध्यान्तं प्रतिमरति, किंस्विदिदमिति विस्तरः ।

४४२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
तृष्णोपादानभवा अप्यपरान्तसम्मोहव्यावर्तनार्थमित्यपरे । तस्यैव ह्येते
हेतव इति ॥ २५ ॥
स.पुनरेष द्वादशाङ्गः प्रतीत्यसमुत्पादस्त्रिस्वभावो वेदितव्यः क्लेशकर्मवस्तूनि ।
तत्र—
क्लेशास्त्रीणि,
त्रीण्यङ्गानि क्लेशस्वभावानि—अविद्यातृष्णोपादानानि ।
द्वयं कर्म,
अङ्गद्वयं कर्मस्वभावम्—संस्काराः, भवश्च ।
सप्त वस्तु,
सप्ताङ्गानि वस्तुस्वभावानि—विज्ञाननामरूपषडायतनस्पर्शवेदनाजातिजरा-
मरणानि; क्लेशकर्माश्रयत्वात् । यथा च वस्तु सप्ताङ्गानि,
फलं तथा ।
सप्तैवाङ्गानि फलभूतानि । शेषाणि पञ्च हेतुभूतानि; कर्मक्लेशस्वभावत्वात् १ ।
किं पुनः कारणं मध्ये फलहेतू विशालितौ ? वस्तुनः पञ्चधा भेदात् ।
क्लेशस्य च २ द्विधा । अनागतेऽध्वनि फलं संक्षिप्तं द्विधा भेदात् । अतीतेऽध्वनि
तृष्णोपादानभवा अपीति । सर्वे तृष्णोपादानभवा अपरान्तसंमोहव्यावर्त्त-
नार्थम्, न मध्यसंमोहव्यावर्त्तनार्थम् । यथा पूर्वमुपदिष्टं विज्ञानं यावद्भवश्चेति ।
का पुनरत्र युक्तिः ? इत्याह—तस्यैव ह्येते हेतव इति । यस्मादपरान्तस्यैवैते
हेतव इति ॥ २५ ॥
क्लेशकर्माश्रयत्वादिति । विज्ञानादीनि सप्ताङ्गानि वस्तून्यधिष्ठानानि
क्लेशकर्मणामित्यर्थः ।
“फलं तथा” इति । सप्तैवाङ्गानि विज्ञाननामरूपषडायतनस्पर्शवेदनाङ्गा-
न्यविद्यासंस्काराणां फलानि। जातिर्जरामरणं च तृष्णोपादानभवानां फलानि।
पञ्च हेतुभूतानीति । अविद्यासंस्कारतृष्णोपादानभवाः। कर्मक्लेशस्वभावत्वादिति ।
अविद्यातृष्णोपादानानि क्लेशस्वभावानि, संस्काराः भवाश्च कर्मस्वभावाः ।
वस्तुनः पञ्चधा भेदादिति । विज्ञाननामरूपषडायतनस्पर्शवेदना इति । क्लेशस्य
च द्वेधेति । तृष्णोपादानमिति । अनागतेऽध्वनि फलं संक्षिप्तं द्विधा भेदादिति ।
१. ॰स्वभावभूतत्वात्—का० । २. का० पुस्तके नास्ति ।

निर्देश: ] तृतीयं कोशस्थानम् ४४३
हेतुः संक्षिप्तः'; एकमुखक्लेशोपदेशादिति ।
फलहेत्वभिसंक्षेपो द्वयोर्मध्यादनुमानतः ॥ २६ ॥
मध्येनैव हि पूर्वान्तापरान्तयोरपि हेतुफलविस्तरः शक्योऽनुमातुमिति
नोक्तः । पुनरपरात्मकं हि यत्नं मा कार्यमिति ॥ २६ ॥
यदि खलु द्वादशाङ्ग एव प्रतीत्यसमुत्पादः, एवं सत्यविद्याया अनुपदिष्ट-
हेतुकत्वादनादिमान् संसारः प्राप्नोति, जरामरणस्य चानुपदिष्टफलत्वादन्तवान् ।
अङ्गान्तरं वा पुनरुपसंख्यातव्यं तस्याप्यन्यस्मादित्यनवस्थाप्रसङ्गः ? नोपसंख्या-
तव्यम्; यस्मादुपदर्शितोऽत्र भगवता—
क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः ।
वस्तु क्लेशाश्च जायन्ते भवाङ्गानामयं नयः ॥ २७ ॥
क्लेशात् क्लेशो जायते—तृष्णाया उपादानम् ।
क्लेशात् कर्म—उपादानाद् भवः, अविद्यायाश्च संस्काराः । कर्मवस्तु—
संस्कारेभ्यो विज्ञानम्, भवाच्च जातिः । वस्तुनो वस्तु---विज्ञानान्नामरूपं यावत्
स्पर्शाद् वेदना, जातेश्च जरामरणम् । वस्तुनः क्लेशः —वेदनायास्तृष्णेति ।
यस्मादेष नयो व्यवस्थितो भवाङ्गानाम्, तस्मादविद्यापि क्लेशस्वभावा वस्तुनः
क्लेशाद्वेति ज्ञापितं भवति । वेदनावशाच्च जरामरणवस्तुनः पुनः क्लेशो भावीति
जातिर्जरामरणमिति । अतीतेऽध्वनि हेतुः संक्षिप्त एकमुखक्लेशोपदेशात् ।
अविद्यामुखक्लेशोपदेशादित्यर्थः । न पुनरनागतेऽध्वनि फलमेव पञ्चधा विशा-
लितम्, अतीते चाध्वनि नैवं द्विधा हेतुर्विशालित इति ॥ २६ ॥
यस्मादुपदर्शितोऽत्र भगवतेति । कः ? “क्लेशात् क्लेशः” इत्येवमादिकः
“भवाङ्गानामयं नयः” ।
“ततो वस्तु” इति । ततः क्रियायाः । “ततः पुनः वस्तु” इति । ततो
वस्तुनः वस्तु । “क्लेशाश्च जायन्ते” इति । वस्तुन इत्यधिकृतम् , जायन्त इत्यत्रे-
तिकरणोऽध्याहार्यः । वस्तुनः क्लेशाद्वेति ज्ञापितमिति । इति क्लेशो वस्तुन
उत्पद्यमानो दृष्टः—वेदनायास्तृष्णेति । क्लेशादपि तथा दृष्टः—तृष्णाया उपा-
दानमिति । अविद्या च पूर्वान्तसर्वक्लेशस्वभावाख्याता । तद् यद्युपादानम्,
तृष्णायास्तदुत्पद्यत इति गम्यते । अथ तृष्णा, तद्वस्तुन उत्पद्यत इति गम्यते ।
१. हेतुरेक०—का० ।
अभि० को० २ : ५

नात्र पुनः किञ्चिदुपसंख्येयम् ; “एवमस्य केवलस्य महतो दुःखस्कन्धस्य
समुदयो भवति” ( ) इति वचनात् । अन्यथा हि किमस्य सामर्थ्यं स्यात् ।
अयोनिशोमनस्कारहेतुकाऽविद्योक्ता सूत्रान्तरे ।
अविद्याहेतुकश्चायोनिशोमनस्कारः । स चेहाप्युपादानान्तर्भूतत्वादुक्तो
भवतीति अपरे ।
तस्मादविद्या क्लेशस्वभावा सती वस्तुनः क्लेशाद्धेति ज्ञापितं भवति ।
जरामरणं चतुरङ्गस्वभावं वस्त्विति व्याख्यातम् । वस्तुनश्चेह क्लेश उत्पद्यमानो
दृष्टः—वेदनाप्रत्यया तृष्णेति । तस्मात् ततः क्लेशो भावी भविष्यतीति
ज्ञापितं भवति, नात्र पुनः किञ्चिदुपसंख्येयमेवं ज्ञापितत्वात् । कथं पुनरेवं नयो
दर्शित इति गम्यते ? इत्याह—एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो
भवतीति वचनात् । अन्यथा हि किमस्य सामर्थ्यं स्यादिति । यद्ययं यथोक्तो नयो
न स्यात्—“क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः वस्तु क्लेशाश्च
जायन्ते” इति, एतावदेव ब्रूयात्—अविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्यया
जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः सम्भवन्तीति । इदं न ब्रूयात्—
“एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति” इति । समुदयः,
उत्पाद इत्यनर्थान्तरम् । तस्माद् यथोक्तप्रकाराभिद्योतकस्य सामर्थ्यमिति
गम्यते ।
अयोनिशोमनस्कारहेतुकाऽविद्योक्ता सूत्रान्तर इति । सहेतुसप्रत्ययसनिदान-
सूत्रे । कथम्—'अविद्या भिक्षवः सहेतुका सप्रत्यया सनिदाना । कश्च भिक्षवो-
ऽविद्याया हेतुः, कः प्रत्ययः, किं निदानम् ? अविद्याया भिक्षवोऽयोनिशो-
मनस्कारो हेतुः, अयोनिशोमनस्कारः प्रत्ययः, अयोनिशोमनस्कारो निदानम्”
( ) इति सूत्रे वचनात् । अविद्याहेतुकश्चायोनिशोमनस्कार इति । सूत्रान्तर
उक्त इत्यधिकृतम् । “चक्षुः प्रतीत्य रूपाणि चोत्पद्यते, आविलो मनस्कारो
मोहजः” ( ) इति सूत्रे वचनात् । किमर्थं तस्येहावचनम् ? कथं
च नाङ्गान्तरं भवति ? इत्यत आह—स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति ।
स इत्याविलो मनस्कारः । इहेति प्रतीत्यसमुत्पादसूत्रे । कथमुक्तः ? उपादानान्त-
र्भूतत्वात् । तथा हि उपादानं भोगानां प्राप्तये क्लेशसमुदाचारावस्थाः । तत्र
चायोनिशोमनस्कारो विपरीतचेतस आभागोऽन्तर्भूत इत्युक्तो भवति, अतो
नास्त्यहेतुकत्वमविद्यायाः। न चाङ्गान्तरमुपसंख्यातव्यं द्वादशभ्योऽविद्यादिभ्यः ।
न चानवस्थाप्रसङ्गः; अविद्याहेतुकत्वादयोनिशोमनस्कारस्येति ।
अपर इति । स्थविरो वसुबन्धोराचार्यो मनोरथोपाध्याय एवमाह ।

निर्देशः ] तृतीयं कोशस्थानम् ४४५
कथमयोनिशोमनस्कारस्योपादानेऽन्तर्भावः ? यदि सम्प्रयोगात्, तृष्णा-
ऽविद्ययोरपि तस्यान्तर्भावः १ प्राप्नोति । सत्यपि चान्तर्भावे २कथमयोनिशोमन-
स्कारो हेतुरविद्याया इति विज्ञापितं भवति२ । यदि ह्यन्तर्भावेनैव३ हेतुफलभावो
विज्ञायते, तृष्णाऽविद्ययोरपि तर्हि तत्रान्तर्भावादङ्गान्तरत्वं शक्यमकर्तुम् ।
अन्यः पुनराह—अयोनिशोमनस्कारो हेतुरविद्याया उक्तः सूत्रान्तरे ।
स चापि स्पर्शकाले निर्दिष्टः, “चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो
मनस्कारो मोहजः” इति । वेदनाकाले चावश्यमविद्यया भवितव्यम् ; “अविद्या-
आचार्य आह—कथमिति विस्तरः । कथमयोनिशोमनस्कारस्योपादानेऽन्त-
र्भावः । न ह्ययोनिशोमनस्कार उपादानस्वभावः । यदि सम्प्रयोगात् । यद्ययोनि-
शोमनस्कार उपादानेन सम्प्रयुज्यते इत्यतो भगवतोऽस्योपादानेऽन्तर्भाव इष्यते ।
तृष्णाविद्ययोरपि प्रतीत्यसमुत्पादाङ्गयोस्तस्यायोनिशोमनस्कारस्यान्तर्भावः प्राप्नोति ।
तृष्णाविद्याभ्यामपि ह्यसौ सम्प्रयुज्यत इति । ततश्चैवं वक्तव्यं स्यात्—स चेहाप्य-
विद्यातृष्णोपादानान्तर्भूतत्वादुक्तो भवतीति । न त्वेवं वक्तव्यम्—स चेहाप्युपा-
दानान्तर्भूतत्वादुक्तो भवतीति । नैवमुपादानान्तर्भावावधारणं कर्तव्यमित्यभि-
प्रायः । सत्यपि चान्तर्भाव इति । असम्भवं तमन्तर्भावमभ्युपेत्य ब्रूमः ।
कथमयोनिशोमनस्कारो हेतुरविद्याया इति विज्ञापितं भवति । नहि तथा सूत्रे
वचनमस्ति । यदि ह्यन्तर्भावेनेति विस्तरः । यदि यस्मादुपादानेऽन्तर्भवत्ययो-
निशोमनस्कारः, तस्मादयोनिशोमनस्कारो हेतुरविद्याया इति विज्ञापितं भवति,
न च तदङ्गान्तरं वक्तव्यम्; उपादानवचनादेव तत्सिद्धेः । तृष्णाविद्ये अपि
तर्ह्युपादानेऽन्तर्भवतः । अतस्तयोरपि तत्रान्तर्भावादङ्गान्तरत्वं शक्यमकर्तुम् ।
उपादानवचनादेव तत्सिद्धेः । उक्ते च पृथक् तृष्णाविद्याङ्गे । तस्मादपरिहार
एषः ।
अन्यः पुनराहेति । भदन्तश्रीलाभः । अयोनिशोमनस्कारो हेतुरविद्याया
उक्तः सूत्रान्तर इति । सहेतुसप्रत्ययसनिदानसूत्रे । “अविद्यापि भिक्षवः सहे-
तुका सप्रत्यया सनिदाना” इति विस्तरेण । स चापि इति विस्तरः । स चाप्य-
योनिशोमनस्कारः स्पर्शकाले निर्दिष्टः । कथम् ? इत्याह—चक्षुः प्रतीत्य रूपाणि
चोत्पद्यते आविलो मनस्कारो मोहज इति । स्पर्शकालो योऽयं चक्षुर्विज्ञानोत्पत्ति-
कालः । आविलो मनस्कारः, अयोनिशः प्रवृत्तत्वान्मोहजत्वाद्वा । मोहाज्जातो
१-१. ०र्भावप्रसङ्गः । २-२. कथमेवं ज्ञापितं भवत्ययोनिशोमनस्कार-
३. तर्ह्य—का० । हेतुका अविद्येति—का० ।

संस्पर्शजं वेदितं प्रतीत्योत्पन्ना तृष्णा” ( ) इति सूत्रान्तरात् ।
तदेवं¹ स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्त्तिन्या अविद्यायाः प्रत्यय-
भावेन सिद्ध इति नास्यहेतुकत्वमविद्यायाः । न चाङ्गान्तरमुपसंख्येयम् । न
चाप्यनवस्थाप्रसङ्गः; तस्याप्ययोनिशोमनस्कारस्य पुनर्मोहजवचनादाविलो मनस्कारो
मोहज इति ।
तत्तह्येतदन्यत्रोक्तमिह पुनर्वक्तव्यम् ? न वक्तव्यम् । कथमनुच्यमानं
गम्यते ? युक्तितः । कया युक्त्या ? न हि निरविद्या वेदना तृष्णायाः प्रत्ययी-
भवत्यर्हताम्, न चाविपरीतः स्पर्शः क्लिष्टाया वेदनायाः, न च पुनर्निरविद्यस्या-
र्हतः² विपरीतः स्पर्शः³ इत्यनया युक्त्या ।
मोहज इति । अविद्यासंस्पर्शजं वेदितमिति । अविद्यासम्प्रयुक्तात् संस्पर्शाज्जा-
तमविद्यासंस्पर्शजं वेदितम् । यत्र वेदितमविद्यासंस्पर्शजम्, अवश्यं तत्राविद्या
सम्प्रयुज्यते । न हि वेदितमसम्प्रयुक्तमविद्यया तृष्णाहेतुर्भवति । तदेवं स्पर्शकाले
भवन्नयोनिशोमनस्कारो वेदनासहवर्त्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति ।
ज्ञापितमिदं भवति--अयोनिशोमनस्कारहेतुकाऽविद्येति । अतो नास्त्यहेतुकत्वम-
विद्यायाः । अन्योऽन्यहेतुकत्वात् । न चाङ्गान्तरमुपसंख्येयं द्वादशभ्यो-
ऽन्यत्, यस्मात् स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्त्तिन्या अवि-
द्यायाः प्रत्ययभावेन सिद्ध इति । न चाप्यनवस्थाप्रसङ्गः, तस्याप्ययोनिशोमनस्कारस्य
पुनर्मोहजवचनात् आविलो मनस्कारो मोहज इति । तदेतच्चक्रकमुक्तं भवति--
अयोनिशोमनस्कारादविद्या, अविद्यायाश्चायोनिशोमनस्कार इति ।
एवं पुनः परिहारमाचार्यः सदोषं पश्यंस्तस्य दोषस्याभिव्यक्त्यर्थं प्रसङ्ग-
मारभते—तत्तर्हीति विस्तरः । तद्यथोक्तमयोनिशोमनस्कारो हेतुरविद्याया
इति विस्तरेण सूत्रतो युक्त्या वा, तर्हीत्यर्थान्तरविवक्षायाम्, इदानीमर्थ इति
भगवद्विशेषः । एतदन्यत्र सूत्र उक्तमिह पुनः प्रतीत्यसमुत्पादसूत्रे वक्तव्यम् । न
वक्तव्यं इति भदन्तश्रीलाभः । कया युक्त्या ? इति पृष्टो भदन्त श्रीलाभ आह—न
हीति विस्तरः । अर्हतामस्ति वेदना । न च सा तृष्णायाः प्रत्ययीभवति । सा
विद्यैव वेदना तृष्णाप्रत्यय इति गम्यते । न चाविपरीतस्पर्शः क्लिष्टाया वेदनायाः ।
प्रत्ययीभवति इति प्रकृतम् । न च पुनर्निरविद्यस्यार्हतो विपरीतः स्पर्श इति ।
स्पर्शोऽपि साविद्य एवेति गम्यते यो वेदनायाः प्रत्यय उक्तः प्रतीत्यसमुत्पाद-
सूत्रे, अविद्या चास्य स्पर्शस्य हेतुरिति गम्यते—इत्यनया युक्त्या प्रतीत्य-
१ अतः—का० । २. अर्हतः स्पर्शो—का० । ३ का० पुस्तके नास्ति ।

Here is the line-by-line transcription of the Sanskrit text from the image:

निर्देशः ] तृतीयं कोशस्थानम् ४४७
अतिप्रसङ्ग एवं प्राप्नोति, यावद् युक्त्या सम्भवति तावदनुक्तं गम्यत
इति तस्मान्न भव्ययं परिहारः ?
अचोद्यमेव त्वेतद् । अविद्याजरामरणयोः परेणाङ्गान्तरानभिधानात् संसार-
स्याद्यन्तवत्त्वप्रसङ्गः । न चापरिपूर्णो निर्देश इति । किं कारणम् ? प्रवृत्तिसम्भू-
देभ्यो विनेयेभ्यः कथं परलोकादिहलोकः, इहलोकाच्च पुनः परलोकः सम्बध्यत
इत्येतावतोऽर्थस्यात्र¹ विवक्षितत्वात् । एतस्य चार्थस्य² पूर्वमेवोक्तत्वात्—
समुत्पादसूत्रे साविद्यस्पर्शप्रत्यया वेदना साविद्यवेदनाप्रत्यया च तृष्णेति गम्यते।
अतो युक्त्या यथोक्तया। स चापि स्पर्शकाले निर्दिष्ट इति विस्तरेणात्र प्रतीत्य
समुत्पादे सिद्धं भवति—अयोनिशोमनस्कारो हेतुरविद्याया इति ।
अत्र चोद्यते—यदि तर्हि निरविद्या वेदना तृष्णायाः प्रत्ययो न भवती-
त्यादिवचनेन स्वगतयैव युक्त्या अयोनिशोमनस्कारो हेतुरविद्यायाः, अविद्या
चायोनिशोमनस्कारस्य हेतुरिति गम्यते; किं सूत्रान्तरापाश्रयेणाविद्यायोनिशो-
मनस्कारयोरन्योन्यहेतुकत्वप्रदर्शन प्रयोजनमिति ? अत्रोच्यते—सत्यमस्त्ये-
तत्; किन्तु युक्तिमात्रमिदं प्रतीत्यसमुत्पादसूत्रे, न कण्ठोक्तिः । अतः सूत्रान्तरे
कण्ठोक्त्येयं युक्तिर्व्यवस्थाप्यत इति तत् सूत्रान्तरोपन्यासप्रयोजनमवगन्तव्यम् ।
अतिप्रसङ्ग एवं प्राप्नोतीति शास्त्रकारः। कथमतिप्रसङ्गः ? इत्याह—“अविद्या-
संस्पर्शजं वेदितम् प्रतीत्योत्पन्ना तृष्णा” इति सूत्रान्तरे निर्दिष्टम् । न च निर-
विद्यवेदितस्यार्हतो वेदना तृष्णायाः प्रत्ययो भवति, न चाविपरीततः स्पर्शः
क्लिष्टायाः वेदनायाः, न च निरविद्यस्यार्हतो विपरीत. स्पर्शः—इत्यनया
युक्त्या एतदप्यङ्गद्वयं स्पर्शवेदनाख्यमिह प्रतीत्यसमुत्पादसूत्रेऽनुच्यमानमप्यन्य-
त्रोपदिष्टत्वादम्यते इत्येतस्याप्यङ्गद्वयस्यावचनं प्राप्तम् । तथा सूत्रान्तर उप-
दिष्टम्—“स पुण्यांश्चेत् संस्कारानभिसंस्करोति पुण्योपगमस्य विज्ञानं भवति ।
एवमपुण्योपगम्, आनिञ्ज्योपगं च । न च निरविद्यसंस्कारस्यार्हतः पुण्योपगं
विज्ञानं यावद्वानिञ्ज्योपगं विज्ञानमिति । एतदपि संस्काराङ्गं युक्त्या सिद्धम्,
न वक्तव्यमत्रेति प्राप्तम् । तथा जातिमन्तरेण जरामरणं न भवतीति युक्त्या
गम्यत इति जात्यङ्गं न वक्तव्यं स्यादित्यादिप्रसङ्गः प्राप्नोति ।
अचोद्यमेव त्वेतदिति विस्तरेणाचार्यः स्वमतमाह—कथं परलोकादिहलोक
इति विस्तरः । तत्राविद्यासंस्काराभ्यामिहलोकः सम्बध्यते । स चेहलोको
विज्ञाननामरूपषडायतनस्पर्शवेदनाङ्गानि । तृष्णोपादानभवैः परलोकः सम्ब-
१. ०तोऽर्थस्यास्य—का० । २. च—का० ।

४४८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
“पूर्वापरान्तमध्येषु सम्मोहविनिवृत्तये” ( अभि० को० ३.२५ ) ।
उक्तं भगवता—“प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि प्रतीत्य-
समुत्पन्नांश्च धर्मान्” ( ) इति । अथ क एषां विशेषः ? शास्त्रतस्तावन्न
कश्चित् ; उभयं हि सर्वे संस्कृता धर्मा इति ।
कथमिदानीमनुत्पन्ना एवानागताः प्रतीत्यसमुत्पन्ना इत्युच्यन्ते, कथं
तावदकृता एवानागताः संस्कृता उच्यन्ते ? आभिसंस्कारिकया चेतनया चेति-
तत्वात् । अनास्रवाः कथम् ? तेऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति ।
निर्वाणेऽपि प्रसङ्गः ? तज्जातीयत्वात्¹ तत्रैवातिदेशः¹ । यथा न च तावद्रूप्यते रूपं
ध्यते । स च परलोको जातिर्जरामरणं च । इत्येतावतोऽर्थस्यात्र प्रतीत्यसमु-
त्पादसूत्रे विनेयेभ्यो विवक्षितत्वात् । एतस्य चार्थस्य पूर्वमेवोक्तत्वात् । 'पूर्वा-
परान्तमध्येषु सम्मोहविनिवृत्तये' ( अभि० को० ३.२५ ) इत्यनेन उक्तत्वात् ।
अचोद्यमेव त्वेतद् विस्तरेण यावत् न चापरिपूर्णो निर्देश इत्यभिसम्बन्धः ।
उभयं हि सर्वे संस्कृता धर्मा इति । त्रैयध्विकाः सर्वे संस्कृता धर्माः प्रतीत्य-
समुत्पादः । अत एव च प्रतीत्यसमुत्पन्ना इति न कश्चिद्विशेषः ।
कथं तावदकृता इति । भाविन्या संज्ञया यथानागताः संस्कृता उच्यन्ते,
तथा प्रतीत्यसमुत्पन्ना इत्यभिप्रायः । आभिसंस्कारिकया चेतनयेति । सर्व-
चेतनानां स्वलक्षणमभिद्योतयन्नाभिसंस्कारिक्येत्याह । सा हि विपाकाभि-
संस्करणादाभिसंस्कारिका, तया चेतितत्वात् प्रणिहितत्वात् । देवो भविष्यामि,
मनुष्यो भविष्यामीत्येवमादि । अतोऽनागता संस्कृताः उच्यन्ते । न तु भाविन्या
संज्ञयेति तमभिप्रायं विहन्ति । अनास्रवाः कथमिति । ये सास्रवा अनागता
त एवं चेतयितुं युज्यन्ते, ये त्वनास्रवा अनागतास्ते कथं चेतयितुं युज्यन्ते ।
चोदक आह—तेऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति । अनास्रवा धर्माः
प्राप्येरन्निति । निर्वाणेऽपि प्रसङ्ग इति । निर्वाणमपि संस्कृतत्वं प्रसज्यते ।
प्राप्तिं प्रति चेतितत्वान्निर्वाणं प्राप्येतेति । तदेवमनेनार्थेनानागतानां संस्कृतत्व-
व्यवस्थापने दोष इति विध्यन्तरमुपन्यस्यते । तज्जातीयत्वाद्विति विस्तरः ।
यथा न च तावद्रूप्यते यदनागतं रूपं रूप्यमाणरूपजातीयत्वाद्रूपमित्यतिदेशः ।
तथा प्रतीत्यसमुत्पन्नधर्मजातीयत्वादनागता अपि धर्माः प्रतीत्यसमुत्पन्ना
इत्यतिदेश एषामनागतानां भवतीति ॥ २७ ॥
१-१. ०यत्वात्तत्तत्रै०—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ४४९.
चोच्यते तज्जातीयत्वादित्यदोषः ॥ २७ ॥
सूत्राभिप्रायस्त्वयमुच्यते—
हेतुरत्र समुत्पादः समुत्पन्नं फलं मतम् ।
हेतुभूतमङ्गं प्रतीत्यसमुत्पादः, समुत्पद्यतेऽस्मादिति कृत्वा । फलभूतमङ्गं
प्रतीत्यसमुत्पन्नम् । एवं सर्वाण्यङ्गान्यभयथा सिध्यन्ति; हेतुफलभावात् । न
चैवं सत्यव्यवस्थानं¹ भवति, भिन्नापेक्षत्वात्¹ । यदपेक्ष्य प्रतीत्यसमुत्पादो न
तदेवापेक्ष्य प्रतीत्यसमुत्पन्नम्, हेतुफलवत् पितृपुत्रवच्च ।
स्थविरपूर्णशः किलाह—स्यात् प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पन्ना
धर्मा इति । चतुष्कोटिकः । प्रथमा कोटिरनागता धर्माः । द्वितीयाऽर्हत्श्वरमाः ।
तृतीया तदन्येऽतीतप्रत्युत्पन्ना धर्माः । चतुर्थ्यसंस्कृता धर्मा इति ।
अत्र तु सौत्रान्तिका विज्ञापयन्ति—किं खल्वेता इष्टय उच्यन्ते या
यस्येष्टिः, आहोस्वित् सूत्रार्थः ? सूत्रार्थ इत्याह । यदि सूत्रार्थः ? नैष सूत्रार्थः ।
कथं कृत्वा ? यत्तावदुक्तम्—"आवस्थिक एष प्रतीत्यसमुत्पादो द्वादश पञ्च-
हेतुफलभावादिति । यस्मात्तदेवाङ्गं हेतुस्तदेव फलम् । न चैवं सत्यव्यवस्थानं
भवतीति । पारापारवत् । हेतुफलवदिति । नाव्यवस्थितः प्रतीत्यसमुत्पादः
प्रतीत्यसमुत्पन्नो भिन्नापेक्षत्वात् । हेतुफलवत् पितृपुत्रवद्वा । तत्र हेतुफलम्, तद्
यथा—बीजाङ्कुरादि । यथा यदपेक्ष्य हेतुर्व्यवस्थाप्यते न तदपेक्ष्य फलम्, यदपेक्ष्य
फलं व्यवस्थाप्यते न तदपेक्ष्य हेतुः । किं तर्हि ? फलमपेक्ष्य हेतुर्व्यवस्थाप्यते,
हेतुञ्चापेक्ष्य फलमिति । यथा च यमपेक्ष्य पिता न तमपेक्ष्य पुत्रः, यमपेक्ष्य पुत्रो
न तमपेक्ष्य पिता, किं तर्हि ? तत्पुत्रमपेक्ष्य पितेति, पितरं चापेक्ष्य पुत्र इति ।
न च तदव्यवस्थितम्, तद्वदेतत् ।
किलेत्यसम्भावनायाम् । प्रथमा कोटिरनागता धर्मा इति । अन्यधर्म-
हेतुत्वात् प्रतीत्यसमुत्पादः समुत्पद्यतेऽस्मादिति कृत्वा । न प्रतीत्यसमुत्पन्नाः,
अनुत्पन्नत्वात् । द्वितीयार्हतश्चरमा इति । उत्पन्नत्वात्ततः फलानुत्पत्तेश्च । तृतीया
तदन्य इति । अर्हतश्चरमेभ्योऽन्येऽतीतप्रत्युत्पन्ना धर्माः । चतुर्थ्यसंस्कृता इति ।
तत्फलाभावादनुत्पत्तिमत्त्वाच्च ।
किं खल्वेता इष्टय उच्यन्त इति । आवस्थिकः प्रतीत्यसमुत्पादः स्यात्
१-१. ०वस्था भवन्त्यपेक्षाभेदात्—का० ।

४५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
स्कन्धिका अवस्था द्वादशाङ्गानि” इति । एतदुक्तं भवति । सूत्रेऽन्यथानिर्देशाद्—
“अविद्या कतमा ? यत्तत् पूर्वान्तेऽज्ञानम्” ( ) इति विस्तरेण ।
यच्च नीतार्थं न तत् पुनर्नेयं भवतीति नैष सूत्रार्थः । न वै सर्वं निर्देशतो
नीतार्थं भवति । यथाप्रधानं चापि निर्देशाः क्रियन्ते । तद्यथा हस्तिपदोपमे—
“पृथिवीधातुः कतमः ?” इत्यधिकृत्याह—“केशा रोमाणि” ( )
इति । सन्ति च तत्रान्येऽपि रूपादयः । एवमत्रापि यथाप्रधानं निर्देशः
स्यात् ।
अनुपसंहार एषः । न हि तत्र केशादयः पृथिवीधातुना निर्दिश्यन्ते,
यत एषामपरिपूर्णो निर्देशः स्याद्; अपि तु केशादिभिरेव पृथिवीधातुः१ निर्दिश्यते ।
न च केशादीनभ्यतीत्याप्यस्ति पृथिवीधातुरिति सम्पूर्ण एवास्य निर्देशः ।
एवमिहाप्यविद्यादीनां परिपूर्ण एव निर्देशः, न सावशेषः ।
प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पन्ना इत्येवमाद्याः । पूर्वान्तेऽज्ञानमिति । यस्माद-
विद्यैवोक्ता नान्ये स्कन्धास्तस्मादविद्यैवाङ्गमिति ।
नीतार्थमेतदिति दर्शयति । नीतार्थमिति विभक्तार्थम् । हस्तिपदोपमे सूत्रे ।
सन्ति च तत्रान्येऽपि रूपादय इति । तेषु केशरोमादिषु । न पृथिवीधातुमेवेति ।
एवमत्रापि यथाप्रधानं निर्देशः स्यादिति । एवमत्रापि प्रतीत्यसमुत्पादसूत्रे द्वाद-
शसु पञ्चस्कन्धिकास्ववस्थासु यत्र यस्य प्राधान्यं तत्र तस्य निर्देशः स्यात् ।
अविद्याप्रधानायामविद्येति निर्देशः स्यात्, संस्कारादिप्रधानास्ववस्थासु
संस्कारादीनां निर्देशः स्यात् । सन्ति च तत्रान्येऽपि रूपवेदनादयो धर्मा इति ।
नहि तत्रेति विस्तरः । नहि तत्र सूत्रे केशादयः पृथिवीधातुना निर्दिश्यन्ते-
केशादयः कतमे ? पृथिवीधातुरिति । यत एषां केशादीनामपरिपूर्णो निर्देशः
स्यात् । सन्ति हि तत्रान्येऽपि रूपादय इति । रूपादिस्वभावा अपि केशादयो
न केवलं पृथिवीधातुस्वभावा इति । अपि तु केशादिभिरेव पृथिवीधातुर्नि-
र्दिश्यते—पृथिवीधातुः कतमः ? केशरोमाणीति । न च केशादीनभ्यतीत्या
प्यतिक्रम्याप्यस्ति पृथिवीधातुरध्यात्मिक इति सम्पूर्ण एवास्य पृथिवीधातो
निर्देशः । एवमिहाप्यविद्यादीनाम् । एवमिहापि सूत्रेऽविद्यासंस्कारविज्ञानादीनां
परिपूर्ण एव निर्देशोऽयम्, न सावशेषः ।
१. ०तत्र—का० ।

ननु चाभ्यतीत्यापि केशान्तिश्रुसिङ्घाणिकानिष्पत्तिः¹ पृथिवीधातुः । सोऽपि
निर्दिष्ट एवेति । यद्वा “पुनरन्यदप्यस्मिन् काये खक्खरं खरगतम्” ( )
इति वचनात् भवतु वा तथैवाविद्यावशेषः, यदि शक्यते दर्शयितुम्,
जात्यन्तरस्य त्वविद्यायां किङ्कृतः प्रक्षेपः ? यद्यपि च तास्ववस्थासु पञ्च स्कन्धा
विद्यन्ते, यस्य तु भावाभावयोर्यस्य भावाभावनियमः तदेवाङ्गं व्यवस्थापयितुम् ।
सत्यपि च पञ्चस्कन्धके² संस्कारा न भवन्ति पञ्चस्कन्धहेतुकाः । किं तर्हि ?
अविद्याहेतुका एव । तथा पुण्यापुण्यानेञ्ज्योपगं च विज्ञानं न भवति, तृष्णो-
पादानादयश्चेति³ । यथानिर्देश⁴ एव सूत्रार्थः ।
यदप्युक्तम्—“हेतुरत्र समुत्पादः समुत्पन्नं फलं यावच्चतुष्कोटिकः”
अश्रुसिङ्घाणकादिष्विति । अश्रुसिङ्घाणकादीनि न तत्र सूत्र

इति । एतदप्युत्सूत्रम् ; सूत्रेऽन्यथा निर्देशात् । "प्रतीत्यसमुत्पादः कतमः ?
यदुतास्मिन् सतीदं भवति" इति विस्तरेणोक्त्वा "इति याऽत्र धर्मता धर्मस्थितिता
यावदविपर्यस्तता अयमुच्यते प्रतीत्यसमुत्पादः" इति । धर्मजातिः धर्माणां शैलिः।
अतो येयं धर्मता य एष नियमः । अविद्यायामेव सत्यां संस्कारा भवन्ति,
नान्यथा । एष प्रतीत्यसमुत्पादो न हेतुरेव । यदपि चतुष्कोटिकमुक्तम्, तत्र
यद्यनागताः धर्मा न प्रतीत्यसमुत्पन्नाः, सूत्रं विरुध्यते—"प्रतीत्यसमुत्पन्ना धर्माः
कतमे ? अविद्या, यावज्जातिर्जरामरणम् ।"
अथ वा—तयोरनागताध्वव्यवस्थानं नैष्टव्यमिति त्रिकाण्डव्यवस्था भिद्यते ।
'असंस्कृतः प्रतीत्यसमुत्पादः' इति निकायान्तरीयाः । "उत्पादाद्वा
तथागतानामनुत्पादाद्वा तथा तानां¹ स्थितेवेयं धर्मता" इति वचनात् । तदेतद्-
भिप्रायावशादेवं च न चैवम् ।
कथं तावदेवम्, कथं वा नैवम् ?
भिक्षुसङ्घेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः सम्बहुलेश्च बोधिसत्त्वैरिति ।
आयुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वमेतदवोचत् । शालिस्तम्बमवलोक्य
भिक्षुभ्यः सूत्रमिदमुक्तम्—यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति,
यो धर्मं पश्यति स बुद्धं पश्यति, इत्युक्त्वा भगवांस्तूष्णीम्बभूव । तदस्य
भगवता भाषितस्य सूत्रस्य कोऽर्थः ? प्रतीत्यसमुत्पादः कतमः ? धर्मः कतमः ?
बुद्धः कतमः ? कथं च प्रतीत्यसमुत्पादं पश्यन् धर्मं पश्यतीत्यादि ? तत्र
प्रतीत्यसमुत्पादो नाम यदिदमविद्येत्यादि । इदं चाभिसन्धायेदमुक्तं तत्र
सूत्रे—उत्पादाद्वा तथागतानामनुत्पादाद् वा तथागतानां स्थितेवेयं धर्मता धर्म-
स्थितिता धर्मनियामता तथता अवितथता अनन्यतथता भूतता सत्यता
तत्त्वमविपरीतता अविपर्यस्ततेत्येवमादि भगवन्मैत्रेयवचनम्। यद्यनागता न
प्रतीत्यसमुत्पन्ना इति । यदुक्तं प्रथमा कोटिरनागता धर्मा इति, सूत्रं विरुध्यत
इति । जातिर्जरामरणयोः प्रतीत्यसमुत्पन्नत्वं न स्यात् । उक्तं च—अविद्या
यावज्जातिजरामरणमिति ।
अथ वेति विस्तरः । अथ जातिजरामरणाङ्गेऽपि प्रतीत्यसमुत्पन्ने इष्टे ।
तयोरनागताध्वव्यवस्थानं नैष्टव्यमिति कृत्वा त्रिकाण्डव्यवस्था भिद्यते । "पूर्वा-
परान्तयोर्द्वे द्वे मध्येऽष्टौ" ( अभि० को० ३.२० ) इति ।
निकायान्तरीया इति । आर्यमहीशासकाः ।
१. का० पुस्तके नास्ति ।

निर्देशः ] तृतीयं कोशस्थानम् ४५३
यद्ययमभिप्रायः—उत्पादाद्वा तथागतानामनुत्पादाद्वा नित्यमविद्यादीन्
प्रतीत्य संस्कारादीनामनुत्पादः, न कदाचिदप्रतीत्यान्यद्वा प्रतीत्यातो नित्य इति;
एवमेतदिति प्रतिग्राह्यम् । अथायमभिप्रायः—प्रतीत्यसमुत्पादो नाम किञ्चित्
भावान्तरं नित्यमस्तीति; नैतदेवमिति प्रतिषेद्धव्यम् । किं कारणम् ? उत्पादस्य
संस्कृतलक्षणत्वात् । न च नित्यं भावान्तरमनित्यस्य लक्षणं युज्यते । उत्पादश्च
नामोत्पत्तिर्भवतीति कोऽस्याविद्यादिभिरभिसम्बन्धः, यतस्तेषां प्रतीत्यसमुत्पाद
इत्युच्येत । पदार्थश्चासम्बन्धो १ भवतीति नित्यश्च नाम प्रतीत्यसमुत्पादश्चेति ।
अथ प्रतीत्यसमुत्पाद इति कः पदार्थः ? प्रतिः प्राप्यर्थः, एतिः गत्यर्थः ।
उपसर्गवशेन धात्वर्थपरिणामात् प्राप्येति योऽर्थः सोऽर्थः प्रतीत्येति ।
यदि सत्ता

४५४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक- ]

न युक्त एष पदार्थः । किं कारणम् ? एकस्य हि कर्तुर्द्वयोः क्रिययोः
पूर्वकालायां क्रियायां क्त्वाविधिर्भवति । तद्यथा—स्नात्वा भुङ्क्त इति । न चासौ
पूर्वमुत्पादात् कश्चिदस्ति, यः पूर्वं प्रतीत्योत्तरकालमुत्पद्यते । न चाप्यकर्तृकाऽस्ति
क्रियेति । आह चात्र—
“प्रत्येति पूर्वमुत्पादाद् यद्यसत्त्वान्न युज्यते ।
सह चेत् क्त्वा न सिद्धोऽत्र पूर्वकालविधानतः” ॥ इति ?
नैष दोषः । इदं तावदयं प्रष्टव्यः शाब्दिकः—किमवस्थो धर्मः उत्पद्यते
वर्त्तमानः, उताहोऽनागत इति ? किं चातः ? यदि वर्त्तमान उत्पद्यते, कथं
वर्त्तमानो यदि नोत्पन्नः । उत्पन्नस्य वा पुनरुत्पत्तावनवस्थाप्रसङ्गः । अथानागत
उत्पद्यते, कथमसतः कर्तृत्वं सिद्ध्यत्यकर्तृका वा क्रियेति ? अतो यदवस्थ उत्पद्यते
तदवस्थ एव प्रत्येति । किमवस्थश्चोत्पद्यते ? उत्पादाभिमुखोऽनागतः । तदवस्थ
एव प्रत्ययं प्रत्येतीत्युच्यते । अनिष्पन्नं चेदं यदुत शाब्दिकीयं कर्तृक्रिया-


सत्तायाम्” ( ) इति । तेनेति कारणेन । पूर्वकालायां क्रियायां
क्त्वाविधेरिति । “समानकर्तृकयोः पूर्वकाले” ( पा० सू० ३.४.२१ ) इति
वचनात् । न चासौ पूर्वमुत्पादात् कश्चिदस्तीति सौत्रान्तिकमतेन । न चाप्य-
कर्तृकास्ति क्रियेति । कर्तरि सति क्रियाया व्यवस्थापनात् ।
आह चात्रेति । एतद्वैयाकरणचोद्यं श्लोकेनोपनिबध्नात्याचार्यः । यदि पूर्व-
मुत्पादात् प्रत्येति प्राप्नोति । असत्त्वान्न युज्यते । न ह्यविद्यमानः कर्त्ता
स्नानादिक्रियां कुर्वन् दृष्ट इति । सह चेत् । अथ मन्यसे प्रतीत्यक्रियां समुत्पाद-
क्रियां च सहकरोतीत्येवम् । क्त्वा न सिद्धोऽत्र प्रत्ययः । कस्मात् ? पूर्व-
कालविधानतः । पूर्वस्मिन् काले विधानं क्त्वाप्रत्ययस्य; “समानकर्तृकयोः
पूर्वकाले” इति वचनात् । अतः क्त्वाप्रत्ययो न सिद्धो भवेत् ।
पुनरुत्पत्ताविति । उत्पन्नस्य पुनरुत्पत्तौ कल्प्यमानायामनवस्थाप्रसङ्गः ।
द्वितीये तृतीये क्षणे पुनः पुनरुत्पद्यत इत्यनिष्ठाप्रसङ्गः । अथानागत इति विस्तरः ।
अलब्धात्मकोऽनागत इति कथमसतोऽलब्धात्मलाभस्य कर्तृत्वं सिध्यति,
अकर्तृका वा क्रिया कथं सिध्यति; यत एवमतो यदवस्थ उत्पद्यते शाब्दि-
कस्य शब्दविदः, तदवस्थ एव मम प्रत्येति । किमवस्थश्चेति । कावस्थास्येति
किमवस्थः । उत्पादाभिमुखोऽनागत इति । न सर्वोऽनागत उत्पद्यते, किं तर्हि ?
उपपादाभिमुखः । उत्पादेऽभिमुखे उत्पित्सुरित्यर्थः । तदवस्थ एव । उत्पादा-