अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 465, कुल 1258 में से
संदर्भ में पढ़ेंनात्र पुनः किञ्चिदुपसंख्येयम् ; “एवमस्य केवलस्य महतो दुःखस्कन्धस्य
समुदयो भवति” ( ) इति वचनात् । अन्यथा हि किमस्य सामर्थ्यं स्यात् ।
अयोनिशोमनस्कारहेतुकाऽविद्योक्ता सूत्रान्तरे ।
अविद्याहेतुकश्चायोनिशोमनस्कारः । स चेहाप्युपादानान्तर्भूतत्वादुक्तो
भवतीति अपरे ।
तस्मादविद्या क्लेशस्वभावा सती वस्तुनः क्लेशाद्धेति ज्ञापितं भवति ।
जरामरणं चतुरङ्गस्वभावं वस्त्विति व्याख्यातम् । वस्तुनश्चेह क्लेश उत्पद्यमानो
दृष्टः—वेदनाप्रत्यया तृष्णेति । तस्मात् ततः क्लेशो भावी भविष्यतीति
ज्ञापितं भवति, नात्र पुनः किञ्चिदुपसंख्येयमेवं ज्ञापितत्वात् । कथं पुनरेवं नयो
दर्शित इति गम्यते ? इत्याह—एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो
भवतीति वचनात् । अन्यथा हि किमस्य सामर्थ्यं स्यादिति । यद्ययं यथोक्तो नयो
न स्यात्—“क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः वस्तु क्लेशाश्च
जायन्ते” इति, एतावदेव ब्रूयात्—अविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्यया
जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः सम्भवन्तीति । इदं न ब्रूयात्—
“एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति” इति । समुदयः,
उत्पाद इत्यनर्थान्तरम् । तस्माद् यथोक्तप्रकाराभिद्योतकस्य सामर्थ्यमिति
गम्यते ।
अयोनिशोमनस्कारहेतुकाऽविद्योक्ता सूत्रान्तर इति । सहेतुसप्रत्ययसनिदान-
सूत्रे । कथम्—'अविद्या भिक्षवः सहेतुका सप्रत्यया सनिदाना । कश्च भिक्षवो-
ऽविद्याया हेतुः, कः प्रत्ययः, किं निदानम् ? अविद्याया भिक्षवोऽयोनिशो-
मनस्कारो हेतुः, अयोनिशोमनस्कारः प्रत्ययः, अयोनिशोमनस्कारो निदानम्”
( ) इति सूत्रे वचनात् । अविद्याहेतुकश्चायोनिशोमनस्कार इति । सूत्रान्तर
उक्त इत्यधिकृतम् । “चक्षुः प्रतीत्य रूपाणि चोत्पद्यते, आविलो मनस्कारो
मोहजः” ( ) इति सूत्रे वचनात् । किमर्थं तस्येहावचनम् ? कथं
च नाङ्गान्तरं भवति ? इत्यत आह—स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति ।
स इत्याविलो मनस्कारः । इहेति प्रतीत्यसमुत्पादसूत्रे । कथमुक्तः ? उपादानान्त-
र्भूतत्वात् । तथा हि उपादानं भोगानां प्राप्तये क्लेशसमुदाचारावस्थाः । तत्र
चायोनिशोमनस्कारो विपरीतचेतस आभागोऽन्तर्भूत इत्युक्तो भवति, अतो
नास्त्यहेतुकत्वमविद्यायाः। न चाङ्गान्तरमुपसंख्यातव्यं द्वादशभ्योऽविद्यादिभ्यः ।
न चानवस्थाप्रसङ्गः; अविद्याहेतुकत्वादयोनिशोमनस्कारस्येति ।
अपर इति । स्थविरो वसुबन्धोराचार्यो मनोरथोपाध्याय एवमाह ।