सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 464, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 464

निर्देश: ] तृतीयं कोशस्थानम् ४४३
हेतुः संक्षिप्तः'; एकमुखक्लेशोपदेशादिति ।
फलहेत्वभिसंक्षेपो द्वयोर्मध्यादनुमानतः ॥ २६ ॥
मध्येनैव हि पूर्वान्तापरान्तयोरपि हेतुफलविस्तरः शक्योऽनुमातुमिति
नोक्तः । पुनरपरात्मकं हि यत्नं मा कार्यमिति ॥ २६ ॥
यदि खलु द्वादशाङ्ग एव प्रतीत्यसमुत्पादः, एवं सत्यविद्याया अनुपदिष्ट-
हेतुकत्वादनादिमान् संसारः प्राप्नोति, जरामरणस्य चानुपदिष्टफलत्वादन्तवान् ।
अङ्गान्तरं वा पुनरुपसंख्यातव्यं तस्याप्यन्यस्मादित्यनवस्थाप्रसङ्गः ? नोपसंख्या-
तव्यम्; यस्मादुपदर्शितोऽत्र भगवता—
क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः ।
वस्तु क्लेशाश्च जायन्ते भवाङ्गानामयं नयः ॥ २७ ॥
क्लेशात् क्लेशो जायते—तृष्णाया उपादानम् ।
क्लेशात् कर्म—उपादानाद् भवः, अविद्यायाश्च संस्काराः । कर्मवस्तु—
संस्कारेभ्यो विज्ञानम्, भवाच्च जातिः । वस्तुनो वस्तु---विज्ञानान्नामरूपं यावत्
स्पर्शाद् वेदना, जातेश्च जरामरणम् । वस्तुनः क्लेशः —वेदनायास्तृष्णेति ।
यस्मादेष नयो व्यवस्थितो भवाङ्गानाम्, तस्मादविद्यापि क्लेशस्वभावा वस्तुनः
क्लेशाद्वेति ज्ञापितं भवति । वेदनावशाच्च जरामरणवस्तुनः पुनः क्लेशो भावीति
जातिर्जरामरणमिति । अतीतेऽध्वनि हेतुः संक्षिप्त एकमुखक्लेशोपदेशात् ।
अविद्यामुखक्लेशोपदेशादित्यर्थः । न पुनरनागतेऽध्वनि फलमेव पञ्चधा विशा-
लितम्, अतीते चाध्वनि नैवं द्विधा हेतुर्विशालित इति ॥ २६ ॥
यस्मादुपदर्शितोऽत्र भगवतेति । कः ? “क्लेशात् क्लेशः” इत्येवमादिकः
“भवाङ्गानामयं नयः” ।
“ततो वस्तु” इति । ततः क्रियायाः । “ततः पुनः वस्तु” इति । ततो
वस्तुनः वस्तु । “क्लेशाश्च जायन्ते” इति । वस्तुन इत्यधिकृतम् , जायन्त इत्यत्रे-
तिकरणोऽध्याहार्यः । वस्तुनः क्लेशाद्वेति ज्ञापितमिति । इति क्लेशो वस्तुन
उत्पद्यमानो दृष्टः—वेदनायास्तृष्णेति । क्लेशादपि तथा दृष्टः—तृष्णाया उपा-
दानमिति । अविद्या च पूर्वान्तसर्वक्लेशस्वभावाख्याता । तद् यद्युपादानम्,
तृष्णायास्तदुत्पद्यत इति गम्यते । अथ तृष्णा, तद्वस्तुन उत्पद्यत इति गम्यते ।
१. हेतुरेक०—का० ।
अभि० को० २ : ५