सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

२२४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
किमप्राप्तेरपि प्राप्तिवत् प्रकारभेदः ? नेत्याह । किं तर्हि ?
अक्लिष्टाव्याकृताऽप्राप्तिः
अप्राप्तिरनिवृताव्याकृतैव सर्वा । अध्वभेदेन पुनः
साऽतीताजातयोस्त्रिधा ॥ ३९ ॥
प्रत्युत्पन्नस्य नास्त्यप्राप्तिः प्रत्युत्पन्ना । अतीतानागतयोस्तु त्रैयध्विकी ॥ ३९॥
कामाद्याप्तामलानां च
‘त्रिविधा’ इति वर्तते । कामाप्तानां कामरूपारूप्यावचरी । एवं रूपा-
रूप्याप्तानामनास्रवाणां च नास्त्यनास्रवा काचिदप्राप्तिः । तथा हि—
विज्ञप्त्यविज्ञप्तिक्षणस्यादौ सहजा प्राप्तिर्भवति । द्वितीयादिषु क्षणेषु तस्यैवाद्यस्य
क्षणस्य पश्चात्कालजा भवति । एवमन्येषामपि द्वितीयादीनां क्षणानां सहजा
पश्चात्कालजा प्राप्तिर्वेदितव्या । कामावचरस्यैव रूपस्याग्रजा प्राप्तिप्रतिषेधाद्
ध्यानानास्रवसंवररूपस्याग्रजा प्राप्तिरस्त्येवेत्युत्सृष्टा भवति ।
अप्राप्तिरनिवृताव्याकृतैव सर्वा । कस्माद्व्यवस्थाप्यते ? यद्यप्राप्तिः क्लेशानां
क्लिष्टा भवेत्, प्रहीणक्लेशस्य क्लेशवदेव न स्यात् । यदि कुशला स्यात्, समु-
च्छिन्नकुशलमूलस्य न स्यात् । अनास्रवाणां धर्मानामप्राप्तिरनास्रवा स्यात् ।
किं स्यात् ? पृथग्जनो न स्यात्; नित्यमार्यधर्मसमन्वागतत्वात् । पारिशेष्याद-
निवृताव्याकृतैवाप्राप्तिरिति व्यवस्थाप्यते । प्रत्युत्पन्नस्य नास्त्यप्राप्तिः प्रत्युत्प-
न्नेति । प्रत्युत्पन्नस्य धर्मस्य प्राप्तिर्वर्तते । तस्मादस्याप्राप्तिर्नास्ति प्रत्युत्पन्ना;
तस्य प्राप्यप्राप्त्योः समवधानासम्भवात् । अतीतानागतयोस्तु त्रैयध्विकीति ।
अप्राप्तानां प्राप्तिविहीनानां च प्रायोगिकाणां गुणानामनागतानां च चक्षुरादीना-
मपि च येषां प्राप्तिर्नास्ति, अतीताप्यस्त्यप्राप्तिः, अनागतापि, प्रत्युत्पन्नापि ।
स्रोतोम्बुन्यायेन हि तेषामप्राप्तिरुत्पद्यते निरुध्यते अनागतावस्थानेति ॥ ३९ ॥
“कामाद्याप्तामलानां च” इति । “त्रिधा” इत्यनुकर्षणार्थश्चकारः । कामा-
दिषु धातुष्वाप्ता अभियुक्ताः कामाद्याप्ताः, कामाद्याप्तानाममलानां चाप्राप्ति-
स्त्रिविधा, उपपन्नाश्रयवशेन तदुद्भवद्भावात् । धर्मसहाव्यवस्थापिनी ह्यप्राप्तिः,
न प्राप्तिवद्धर्मवशेन व्यवस्थाप्यते । तद्यथा—कामधातूपपन्नस्य कामरूपारूप्या-
वचराणामनास्रवाणां च धर्मानामप्राप्तिः कामावचरी, रूपधातूपपन्नस्य रूपा-
वचरी, आरूप्यधातूपपन्नस्यारूप्यावचरी । तद्यथा—कामधातूपपन्नस्य प्रायोगि-
काणां गुणानामुपपत्तिलाभिकानामपि कुशलसमुच्छेदावस्थायामप्राप्तिः, अवीत-
रागत्वाच्च रूपारूप्यावचराणामक्लिष्टाना मप्राप्तिः, पृथग्जनत्वाच्चानास्रवा-

निर्देशः ] द्वितीयं कोशस्थानम् २२५
मार्गस्याप्राप्तिरिष्यते ।
पृथग्जनत्वम्
“पृथग्जनत्वं कतमत् ? आर्यधर्माणामलाभः” ( ) इति
शास्त्रपाठः। अलाभश्च नामाप्राप्तिः। न च पृथग्जनत्वमनास्रवं भवितुमर्हति ।
कतमेषामार्यधर्माणामलाभः ? सर्वेषाम्; अविशेषवचनात् । स तु यो विना
लाभेनालाभः । अन्यथा हि बुद्धोऽपि श्रावकप्रत्येकबुद्धसान्तानिकैरसमन्वागमाद्¹
अनार्यः स्यात् । एवशब्दस्तर्हि पठितव्यः ? न पठितव्यः । एकपदान्यपि
ह्यवधारणानि भवन्ति, तद्यथा—अब्भक्षः, वायुभक्ष इति ।


णामप्राप्तिः कामावचरी । तथा रूपधातूत्पन्नस्य कामावचराणां भूमिसञ्चार-
त्यक्तानां रूपारूप्यावचराणां च प्रायोगिकाणां गुणानां पृथग्जनत्वाच्चा-
नास्रवाणामप्राप्ती रूपावचरी । तथैव चारूप्यधातूत्पन्नस्य कामरूपावचराणां
भूमिसञ्चारत्यक्तानामारूप्यावचराणां च प्रायोगिकाणां गुणानां पृथग्जनत्वादेव
चानास्रवाणामप्राप्तिरारूप्यावचरीति नेयम् ।
पृथग्जनत्वं कतमत् ? आर्यधर्माणामलाभ इति । अनेन शास्त्रपाठनानास्रवत्वा-
भावमप्राप्तेर्दर्शयति ।
कतमेषामार्यधर्माणामलाभ इति । 'आर्यधर्मा दुःखेदर्मज्ञानक्षान्तिमारभ्य
सर्वोऽनास्रवो मार्गः' इति । अत एवं पृच्छति । सर्वेषामविशेषवचनादिति ।
सर्वेषां दुःखेदर्मज्ञानक्षान्त्यादीनां शैक्षाशैक्षज्ञानानामलाभः । कस्मात् ?
अविशेषितत्वात् । यद्येवम्, उत्पन्नायामपि दुःखेदर्मज्ञानक्षान्तौ परिशिष्टा-
नामार्यधर्माणामलाभोऽस्यास्तीत्यनार्यः स्यात् ? तस्मादिदमाह—स तु यो विना
लाभेनेति । यो विना लाभेनालाभः, तत् पृथग्जनत्वमिति । अन्यथा हीति ।
विस्तरः—यद्यार्यधर्माणां लाभेऽपि सत्यन्येषामपि धर्माणामलाभः पृथग्जनत्व-
मिष्यते, बुद्धोऽपि श्रावकप्रत्येकबुद्धसन्तानिकैर्धर्मैरसमन्वागमादनार्यः स्यात् ।
केवलालाभग्रहणात्त्वप्रसङ्गः । एवशब्दस्तर्हि पठितव्य इति । आर्यधर्माणाम-
लाभ एवेति । एकपदान्यपि ह्यवधारणानीति केवलपदान्यपीत्यर्थः । अब्भक्षो
वायुभक्ष इति । अब्भक्ष एव, वायुभक्ष एवेति नोच्यते, एवशब्दस्य चार्थो
गम्यते, तद्वदिहापीति । अथ वा—अप एव यो भक्षयति सोऽब्भक्षः, यो वायुमेव
भक्षयति स वायुभक्ष इति । यथात्र लुप्तनिर्दिष्टस्यैवकारस्यावधारणार्थो गम्यते,
तद्वदिहाप्यलाभ एवेति ।


१. प्रत्येकबुद्धगोत्रकै०—का० ।
अभि० को० १५

२२६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
दुःखे धर्मज्ञानक्षान्तितत्सहभुवामलाभ इत्यपरे । न च तत्त्यागादनार्यत्व-
प्रसङ्गः¹ ? तदलाभस्यात्यन्तं हतत्वात् । ते तर्हि त्रिगोत्रा इति कतमेषामलाभः ?
सर्वेषाम् । एवं तर्हि स एव परिहारः । यत्नस्तर्हि व्यर्थः ? एवं तु साधु यथा
सौत्रान्तिकानाम् । कथं च सौत्रान्तिकानाम् ? "अनुत्पन्नार्यधर्मा सन्ततिः²
पृथग्जनत्वम्" इति ।
अथेयमप्राप्तिः कथं विहीयते ? यस्य या धर्मस्य प्राप्तिरसौ
तत्प्राप्तिभूमिसञ्चाराद् विहीयते ॥ ४० ॥
यथा तावदार्यमार्गस्यालाभः पृथग्जनत्वम्, तस्य लाभात् तद्विहीयते, भूमि-
सञ्चाराच्च ।
दुःखे धर्मज्ञानक्षान्तितत्सहभुवामित्यपर इति । विस्तरः—दुःखे धर्मज्ञानक्षान्ते-
स्तत्सहभुवां च वेदनादीनां धर्माणांमलाभः पृथग्जनत्वम् । अस्मिन् पक्ष उत्पन्ना-
यामपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानामार्यधर्माणामलाभोऽस्तीत्यनार्यः
स्यादिति यो दोषः उक्तः स न सम्भवति । यदा तर्हि फलप्राप्तिस्तदा दुःखे
धर्मज्ञानक्षान्तितत्सहभुवां विहानिरिति फलप्राप्तावनार्यः स्यादिति दोषपरि-
हारार्थमाह—न च तत्त्यागात् । न च तेषां क्षान्तिसहभुवां त्यागात् । अनार्यत्व-
प्रसङ्गः । तदलाभस्यात्यन्तं हतत्वात्, तस्यालाभस्यात्यन्तविहीनत्वात् । कथम् ?
असावत्यन्तं हतः, तत्सन्ताने पुनरनुत्पत्तेः । ते तर्हि त्रिगोत्रा इति । श्रावक-
प्रत्येकबुद्धबुद्धगोत्रा इति । कतमेषामलाभः ? सर्वेषामिति । श्रावकादिगोत्राणाम् ।
एवं तर्हि स एव दोष इति । बुद्धोऽपि त्रिगोत्रालाभादनार्यः स्यादित्यर्थः । पुनः स
एव परिहार इति । 'स तु यो विना लाभेन' इति पूर्ववत् प्रपञ्चो यावत् 'तद्यथा
अब्भक्षो वायुभक्षः' इति । यत्नस्तर्हि व्यर्थ इति । क्षान्तिपरिशिष्टार्यधर्मालाभ-
सद्भावादनार्यः स्यादित्यस्य दोषस्य परिहाराय 'क्षान्तितत्सहभुवामलाभः
पृथग्जनत्वम्' इति यो यत्नः, स व्यर्थः स्यात् । पूर्वपक्षदोषपरिहार एवाय-
मास्थीयते—अनुत्पन्नार्यधर्मा सन्ततिरिति । अनुत्पन्ना आर्यधर्मा अस्यामित्य-
नुत्पन्नार्यधर्मा सन्ततिः पृथग्जनत्वम् । अनुत्पन्नार्यमार्गा स्कन्धसन्ततिरित्यर्थः ।
अर्थाद् उत्पन्नार्यधर्मा सन्ततिरार्यत्वमित्युक्तं भवति; आश्रयपरावृत्तेः ।
अथेयमप्राप्तिरिति । सर्वधर्माप्राप्तिश्चोद्यते, नार्यधर्माप्राप्तिरेव । यथा
तावदिति । उदाहरणमेतत् । तस्य लाभात् तद्विहीयत इति । तस्यार्यमार्गस्य
लाभात् तत्पृथग्जनत्वमलाभलक्षणं विहीयते । किंधातुकं तत् पृथग्जनत्वम् ?
१. तद्योगाद्०—का० । २ ०र्यधर्मसन्ततिः—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २२७
एवमन्येषामपि योज्यम् ।
'विहीयते' इति तस्या अप्राप्तेरप्राप्तिरुच्यते, प्राप्तिश्छिद्यते । किं पुनरप्राप्ति-
त्रिधातुकमित्येके । ननु चोपपत्त्याश्रयवशेनलाभो व्यवस्थाप्यते, पृथग्जनत्वं
चालाभस्वभावम्, तस्मादस्य कामावचरस्य सत्त्वस्य कामावचरमेव पृथग्जन-
त्वमस्ति, न रूपारूप्यावचरम् । अतस्त्रैधातुकं विहीयत इत्ययुज्यमानमेतत्
पश्यामः ? अथ पुनरनुत्पत्तिधर्मतां तदापन्नमिति कृत्वा त्रैधातुकं तद्विहीयत
इत्युपचारकल्पना ? भवत्वेषा, नैषा वार्यते । कामावचरस्यैव त्वेकस्य पृथग्ज-
नत्वस्य प्राप्तिरस्ति । तल्लौकिकाग्रधर्मावस्थायां विहीयत इति वेद्यम् । तच्च
कामवैराग्ये नवमे विमुक्तिमार्गे प्रहीयते । रूपारूप्यधातवोत्पद्यमानस्य त्वार्यस्य
प्रतिभूम्यवस्थितानां पृथग्जनत्वानामार्यमार्गप्राप्तिसामर्थ्यान्नैव प्राप्तिरुत्पद्यते ।
प्रतिभूमि तु नवमे विमुक्तिमार्गे तेषां प्रहाणं भवतीत्यवगन्तव्यम् ।
भूमिसञ्चाराच्चेति । यदा च कामधातोर्वैराग्यं कृत्वा प्रथमं ध्यानं सञ्चरति,
तदा च तत्कामावचरं पृथग्जनत्वं विहीयते । न चार्यो भवति; प्रथमध्यान-
भूमिकपृथग्जनत्वप्रादुर्भावात् । एवमारूप्यधातुसञ्चाराद् रूपावचरं पृथग्जनत्वं
विहीयते । ऊर्ध्वभूमेरचाधरां भूमिं सञ्चरते । ऊर्ध्वभूमिकं पृथग्जनत्वं विहीयत
इति वक्तव्यम् । एवमन्येषामपि योज्यमिति । यथा आर्यमार्गस्य प्राप्त्या पृथग्जन-
त्वमप्राप्तिर्विहीयत इति योजितम्, एवमन्येषामपि श्रुतचिन्तामयादिकानां
धर्माणामप्राप्तिर्विहीयत इति योज्यम् । कथम् ? कामावचराणां तावच्छ्रुतचिन्ता-
मयादिकानां धर्माणां प्राप्तिलाभादप्राप्तिर्विहीयते । उपपत्तिलाभिकानां च
कुशलानां प्राप्त्या समुच्छिन्नकुशलस्याप्राप्तिर्विहीयते, भूमिसञ्चाराच्च । यदा
चायं कामधातोश्च्युत्वा प्रथमं ध्यानमुपपत्त्या सञ्चरति, तदा च तद्भूमिकानां
गतिसंगृहीतानां स्कन्धानामप्राप्तिर्विहीयते । अक्लिष्टाव्याकृता एव हि गतयो
वक्ष्यन्ते । "अव्याकृतास्तिः सहजा" (अभि० को० २.३८) इति चोक्तम् ।
एवं प्रथमध्यानभूमिकानां प्रायोगिकाणां गुणानां प्राप्तेरप्राप्तिर्विहीयते,
भूमिसञ्चाराच्च । ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानां तद्भूमिसञ्चाराद्
विहीयत इति । इदमेकेषां भूमिसञ्चारव्याख्यानोदाहरणम् । तत्राविविक्तं पश्यामः
ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानामप्राप्तिर्न केवलं भूमिसञ्चाराद्विही-
यते, किं तर्हि ? तत्प्राप्तितोऽपीति । इदं त्वसंकीर्णमुदाहरणं पश्यामः । तद्यथा -
द्वितीयादिध्यानभूमिकानां प्रायोगिकाणां गुणानां तदलाभिनः कामावचरस्य
सत्त्वस्याप्राप्तिरस्ति । स यदि कामवैराग्यं कृत्वा प्रथमध्यानमुपपद्यते, सा
तेषामप्राप्तिर्भूमिसञ्चाराद्विहीयते । प्रथमध्यानभूमिका तु तेषामप्राप्तिरु

२२८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [इन्द्रिय-
प्राप्योरपि प्राप्यप्राप्ती भवतः ? उभयोरप्युभयं भवतीत्याहुः । ननु चैवमन-
वस्थाप्रसङ्गः प्राप्तीनाम् ? नानवस्थाप्रसङ्गः; परस्परसमन्वागमात् । आत्मना
तृतीयो हि धर्म उत्पद्यते । स च धर्मः, तस्य प्राप्तिः, प्राप्तिप्राप्तिश्च । तत्र
प्राप्त्युत्पादात् तेन धर्मेण समन्वागतो भवति, प्राप्तिप्राप्त्या च । प्राप्तिप्राप्त्युत्पत्तेः १
पुनः प्राप्त्यैव समन्वागतो भवति, अतो नानवस्था ।
एवं च कृत्वा आत्मना तृतीयस्य धर्मस्य कुशलस्य क्लिष्टस्य च २ द्वितीये
क्षणे तिस्रः प्राप्तयो जायन्ते, तासां च पुनस्तिस्रोऽनुप्राप्तय ३ उद्भवन्ति इति
षड् भवन्ति । तृतीये क्षणे प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणां नव प्राप्तयः
सार्धमनुप्राप्तिभिरष्टादश ४ भवन्ति ।
एवमुत्तरोत्तरवृद्धिप्रसङ्गेनैताः प्राप्तयो विसर्पन्त्यः सर्वेषामतीतानागतानां
ननु चैवमनवस्थाप्रसङ्गः प्राप्तीनामिति । प्राप्तेरपि प्राप्तिः, अस्या अप्यन्या,
तस्या अप्यन्या-इत्यनवस्था । परस्परसमन्वागमादिति । प्राप्तिप्राप्तियोगात्
प्राप्त्याः समन्वागतः । प्राप्तियोगात् प्राप्तिप्राप्त्या समन्वागत इत्यर्थः । प्राप्त्यु-
त्पादादिति विस्तरः । प्राप्त्युत्पादात् तेन धर्मेण चित्तेन वा समन्वागतो भवति ।
प्राप्तिप्राप्त्या च । समन्वागत इति वर्तते । प्राप्तिप्राप्त्युत्पत्तेः प्राप्त्यैव समन्वागतो
भवतीति । एवं प्राप्तिरुभयत्र व्याप्रीयते, प्राप्तिप्राप्तिस्त्वेकत्रेति, अतो
नानवस्था । कुशलस्य क्लिष्टस्य चेति । अनयोरग्रजपश्चात्कालजप्राप्तित्वाद्
ग्रहणम् । अव्याकृतस्य हि सहजैव प्राप्तिरिति । द्वितीये क्षण इति । विस्तरः-
द्वितीये क्षणे तस्य धर्मस्य, तत्प्राप्तेः, प्राप्तिप्राप्तेश्च प्राप्तय इति तिस्रः प्राप्तयः ।
प्राप्तियोगाद्धि तैः समन्वागतो भवति । ताभिस्तिसृभिः प्राप्तिभिः समन्वागमार्थं
पुनस्तिस्रोऽनुप्राप्तय उद्भवन्तीति षड् भवन्ति प्राप्तयः । प्रथमद्वितीयक्षणोत्पन्नानां
द्रव्याणामिति । धर्मेण सार्धं नवानां द्रव्याणां नव प्राप्तयः सार्धमनुप्राप्तिभि-
रष्टादश भवन्ति ।
एवमुत्तरोत्तरवृद्धिप्रसङ्गेनेति । विस्तरः-उत्तरोत्तरस्य क्षणस्य वृद्धिः प्राप्तिभिः,
उत्तरोत्तरे वा क्षणे वृद्धिः प्राप्तीनाम्, तस्याः प्रसङ्ग उत्तरोत्तरवृद्धिप्रसङ्गः, तेन
उत्तरोत्तरवृद्धिप्रसङ्गेन । एताः प्राप्तयो विसर्पन्त्य इति । दिङ्मात्रं दर्शयिष्यामः ।
चतुर्थे क्षणे प्रथमक्षणोत्पन्नैस्त्रिभिर्धर्मैः प्राप्त्यनुप्राप्तिमद्भिर्भवितव्यम् । द्वितीय-
क्षणोत्पन्नाभिरपि षड्भिः प्राप्त्यनुप्राप्तिभिः पुनः प्राप्त्यनुप्राप्तिमतीभिर्भावि-

  • १. प्राप्तिप्राप्त्युत्पादात्-का० । २ वा-का० ।
    ३. का० पुस्तके नास्ति । ४. ०रित्यष्टादश-का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २२९
क्लेशोपक्लेशक्षणानामुपपत्तिलाभिकानां च कुशलक्षणानां ¹ससम्प्रयोगसहभुवामना-
द्यन्तसंसारपर्यपन्नानामनन्ता एकस्य प्राणिनः क्षणे क्षणे उपजायन्ते इत्यनन्तद्रव्याः
प्रतिसन्तानमात्मभावक्षणाः सत्त्वानां भवन्ति । अत्युत्सवो बतायं प्राप्तीनां वर्त्तते !
केवलं न प्रतिघातिन्यः,² यतोऽवकाशं³ लभन्ते । इतरथा ह्याकाशेऽप्यवकाशो
न स्याद् द्वितीयस्य प्राणिनः ॥ ४० ॥
अथ केयं सभागता ?
सभागता सत्त्वसाम्यं
सभागता नाम द्रव्यम्, सत्त्वानां सादृश्यम् । 'निकायसभागः' इत्यस्याः
शास्त्रे संज्ञा ।
तव्यम् । एवं तृतीयक्षणोत्पन्नाभिरष्टादशभिः प्राप्त्यनुप्राप्तिभिः पुनरपि प्राप्त्य-
नुप्राप्तिमतोभिर्भवितव्यमिति प्रथमद्वितीयतृतीयक्षणोत्पन्नानां सप्तविंशतिः प्राप्तयः
सार्धमनुप्राप्तिभिस्तावतीभिरिति चतुःपञ्चाशत् प्राप्तयश्चतुर्थे क्षणे भवन्ति । पञ्चमे
तु क्षणे प्रथमद्वितीयतृतीयक्षणोत्पन्नाः प्राप्त्यनुप्राप्तयः पुनश्चतुःपञ्चाशच्चतुर्थ-
क्षणोत्पन्नप्राप्त्यनुप्राप्तयश्च द्विश्चतुःपञ्चाशद् भवन्ति । त्रीणि चतुःपञ्चाशत्कानि
द्वाषष्ट्युत्तरशतं प्राप्तीनां जायते । एवमुत्तरोत्तरवृद्धिप्रसङ्गो वक्तव्यः ।
अतीतानागतानामिति । अत्र प्रत्युत्पन्नाग्रहणम्; अनावश्यकत्वात् । उत्पत्तिलाभि-
कानां चेति । अत्र प्रायोगिकाग्रहणमनावश्यकत्वादेव । ससम्प्रयोगसहभुवामिति ।
सवेदनादिसजात्यादीनाम् । अनाद्यन्तसंसारपर्यपन्नानाम् । अनादावनन्ते च
संसारे संगृहीतानाम् । अनन्ता अप्रमेया एकस्य प्राणिनः, किमङ्ग बहूनाम् !
क्षणे क्षणे उपजायन्ते प्राप्तय इति । अनन्तद्रव्या एव । अनन्तप्राप्तिद्रव्या इत्यर्थः ।
अत्युत्सवो बतायं प्राप्तीनामिति । परिहासवचनमेतत् । केवलं न प्रतिघातिन्यः,
अरूपिणीत्वात् । यतोऽवकाशं लभन्ते प्राप्तयः ॥ ४० ॥
“सभागता सत्त्वसाम्यम्” इति । विस्तरः—समानो भागो भजनमेषामिति
सभागाः, तद्भावः सभागता । समानो वा भागो भजनं सभागः, सभाग एव
सभागता । यद्योगात् सभागो भवति तद् द्रव्यम् । सत्त्वानां साम्यं सामान्यम्,
सादृश्यमित्यर्थः । सत्त्वग्रहणमसत्त्वनिरासार्थम् । सत्त्वानां सत्त्वसंख्यातानां
च धर्माणां सादृश्यं सभागता । असत्त्वसंख्यातानां शालियवादीनां नेष्यते ।
निकायसभाग इत्यस्याः शास्त्रे संज्ञेति । ज्ञानप्रस्थानादिके शास्त्रे 'निकायसभागः'
१. सप्रयोग०—का० । २. तु अप्रतिघातिन्यो—का० ।
३. ०शमाकाशे—का० ।

सा पुनरभिन्ना भिन्ना च। अभिन्ना सर्वसत्त्वानां सत्त्वसभागता; प्रतिसत्त्वं
सर्वेषु भावात्। भिन्ना पुनस्तेषामेव सत्त्वानां धातु-भूमि-गति-योनि-जाति-स्त्री-
पुरुषोपासक-भिक्षु-शैक्षाशैक्षादिभेदेन प्रतिनियता धर्मसभागता।
पुनः स्कन्धायतनधातुतः। यदि सत्त्वसभागता द्रव्यमविशिष्टं न स्यात्,
अन्योन्यविशेषभिन्नेषु सत्त्वेषु 'सत्त्वः सत्त्वः' इत्यभेदेन बुद्धिर्न स्यात्, प्रज्ञप्तिश्च।
एवं स्कन्धादिबुद्धिप्रज्ञप्तयोऽपि योज्याः।
स्याच्च्यवेत, उपपद्येत, न च सत्त्वसभागतां विजह्यात्, न च प्रतिलभेत—
इति चतुष्कोटिकः। प्रथमा कोटिः—यतश्च्यवते तत्रैवोपपद्यमानः। द्वितीया—
इत्यनया संज्ञायं चित्तविप्रयुक्तो निर्दिश्यते। इह तु श्लोकबन्धानुगुण्यात् सभा-
गतेत्यनया संज्ञयेत्यभिप्रायः।
सा पुनरभिन्ना भिन्ना चेति। या सर्वसत्त्ववर्त्तिनी। प्रतिसत्त्वमन्यान्याप्य-
भिन्नेत्युच्यते; सादृश्यात्। न हि सा यथा वैशेषिकाणामेका नित्या चेति।
भिन्ना—या क्वचिद् वर्तते, क्वचिन्न वर्तते। तत आह—भिन्ना पुनरिति विस्तरः।
धातवस्त्रयः कामादयः। गतयः पञ्च नरकादयः। योनयश्चतस्रोऽण्डजादयः।
जातयो ब्राह्मणादयः। आदिशब्देन उपासिका-भिक्षुणी-नैवशैक्षनाशैक्षादयः
संगृह्यन्ते। स्कन्धायतनधातुत इति। रूपस्कन्धसभागता यावद्धर्मधातुसभागता।
अविशिष्टमिति। सामान्यरूपम्। प्रज्ञप्तिश्चेति। अभिधानं चेत्यर्थः। एवं
स्कन्धादिबुद्धिप्रज्ञप्तयोऽपि योज्या इति। यदि स्कन्धसभागताद्रव्यमविशिष्टं न
स्याद्, अन्योन्यविशेषभिन्नेषु स्कन्धेषु 'स्कन्धः स्कन्धः' इत्यभेदेन बुद्धिर्न स्यात्,
प्रज्ञप्तिश्चेति।
एवं धात्वादिबुद्धिप्रज्ञप्तयोऽपि योज्या इत्येके पठन्ति। तेषामेवं वक्तव्यम्—
यदि सभागतेति विस्तरेण यावदन्योन्यविशेषभिन्नेषु धातुषु 'कामावचरः
'कामावचरः' इत्यभेदेन बुद्धिर्न स्यात्, प्रज्ञप्तिश्चेति।
चतुष्कोटिक इति। स्याच्च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान्न च
प्रतिलभेतेति। सत्त्वसभागतामिति। सत्त्वानां सभागता सत्त्वसभागता मनुष्य-
त्वादिलक्षणा। सत्त्वग्रहणं हि धर्मविशेषणार्थम्। सत्त्वसभागता ह्यत्र चतुः-
कोटिके विवक्षिता, न धर्मसभागतेति। न तु 'सत्त्वस्सत्त्वः' इत्याकारसभागते-
हाभिप्रेता। यदि हि साभिप्रेता स्यात्, तृतीया कोटिर्न सिध्येत्; गतिसञ्चारेऽपि
तस्याः सत्त्वसभागतायास्तादवस्थ्यात्। तत्रैवोपपद्यमान इति। तद्यथा मनुष्य-

निर्देशः ] द्वितीयं कोशस्थानम् २३१
नियाममवक्रामन् स हि पृथग्जनसभागतां विजहाति¹, आर्यसभागतां प्रति-
लभते। तृतीया—गतिसञ्चारात्। चतुर्थी—एतानाकारान् स्थापयित्वा।
यदि पृथग्जनसभागता नाम द्रव्यमस्ति, किं पुनः पृथग्जनत्वेन। नहि
मनुष्यसभागताया अन्यन् मनुष्यत्वं कल्प्यते। नैव च लोकः सभागतां पश्यति;
अरूपिणीत्वात्। नचैनां प्रज्ञया परिच्छिनत्ति, प्रतिपद्यते च सत्त्वानां जात्य-
भेदमिति सत्या अपि तस्याः कथं तत्र व्यापारः।
गतेश्च्युत्वा मनुष्यगतावेवोपद्यमानो मनुष्यगतेश्च्यवते मरणादुपपद्यते च;
तस्यामेव प्रतिसन्धिबन्धात्। न चासौ मनुष्यसभागतां विजहाति, न च
प्रतिलभते; तस्या मनुष्यसभागतायास्तादवस्थ्यात्। द्वितीया नियाम-
मवक्रामन्निति। स सत्त्वसभागतां पृथग्जनत्वस्वभावां सभागतां विजहाति,
आर्यत्वस्वभावां सभागतामपरां प्रतिलभते। तृतीया गतिसञ्चारादिति। तद्यथा
मनुष्यगतेश्च्युत्वा देवगतावुपपद्यमानः च्यवते, तथैव मरणादुपपद्यते च;
प्रतिसन्धिवन्धात्। सत्त्वसभागतां मनुष्यसभागतालक्षणां विजहाति, प्रतिलभते
च देवसभागतालक्षणामपरामिति। चतुर्थ्येतानाकारान् स्थापयित्वेति। पूर्वोक्त-
कोटिस्वभावप्रकारान् वर्जयित्वेत्यर्थः। तद्यथा जीवन् पृथग्जन आर्यो वा
किञ्चिदलभमानः।
यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुनः पृथग्जनत्वेन। आर्यधर्मालाभ-
स्वभावेन कल्पितेन। प्रयोजनमिति वाक्यशेषः। पृथग्जनसभागतयैव पृथग्जन
इति परिच्छिद्येत, यथा मनुष्यसभागतयैव मनुष्य इति। न हि मनुष्यसभागताया
अन्यन्मनुष्यत्वं कल्प्यते। वैभाषिकाैरालाभवदन्यस्वभावम्। तत्र च साधनम्—
'न स्वसभागताया अन्यत् पृथग्जनत्वम्; स्वसभागताप्रत्ययाभिधेयत्वात्, मनुष्य-
त्ववत्'। नैव च लोकः सभागतां पश्यत्यरूपिणीत्वादिति। न लोकश्चक्षुषा सभा-
गतां पश्यति; अरूपिणीत्वादरूपवतीत्वाद्, अरूपस्वभावत्वाद्वा। यथा न पश्यति
एवं न शृणोति, यावन्न स्पृशतीति। अनेन प्रत्यक्षासिद्धतां दर्शयति। न चैनां
प्रज्ञया परिच्छिनत्तीति। अनेनानुमानेनापि न सिद्धयतीति दर्शयति। प्रतिपद्यते च
सत्त्वानां जात्यभेदमिति। सत्या अपि तस्याः कथं तत्र व्यापार इति। जात्यभेद-
प्रतिपत्तौ जात्यभेदप्रतिपत्तिरस्ति। सा तु न सभागतया द्रव्यान्र्तरकल्पितया
कृता; प्रमाणेनानुपलभ्यमानत्वेन तस्या व्यापारासम्भवात्।
ब्रूयास्त्वम्—न निर्निमित्ता सामान्यबुद्धिर्भवितुमर्हति, तेन यन्निमित्तं
तस्याः मामान्यबुद्धेः तत् सभागता नाम द्रव्यमिति ? वयमपि तां सामान्य-
१. विजह्याद्—का०।

२३२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
अपि च—असत्त्वसभागतापि किं नेष्यते। शालियवमुद्गमाषाम्रपनस-
लोहकाञ्चनादीनां स्वजातिसादृश्यात्, तासां च सभागतानामन्योन्यभिन्नानां कथम-
भेदेन सभागता प्रज्ञप्तिः क्रियते। वैशेषिकाश्चैवं द्योतिता भवन्ति। तेषामपि
ह्येष सिद्धान्तः–'सामान्यपदार्थो नामास्ति, यतः समानप्रत्ययोत्पत्तिरतुल्यप्रकारेष्व-
पि' इति। अयं तु तेषां विशेषः–स एकोऽप्यनेकस्मिन् वर्तते यदि द्योतिताः,
यदि न द्योतिताः।
अस्त्येषा तु सभागता; सूत्रे वचनाद्—इति वैभाषिकाः। उक्तं हि
भगवता—"स चेदित्थन्त्वमागच्छति मनुष्याणां सभागताम्" इति।
उक्तमेतत्, न तूक्तं द्रव्यान्तरमिति ?
का तर्हि सा ? त एव हि तथाभूताः संस्कारा येषु मनुष्यादिप्रज्ञप्तिः
शल्यादिषु सभागतावत्। तत्त्वेतन्न वर्णयन्ति ॥
बुद्धिं सनिमित्तां ब्रूमः। सादृश्यकृता हि सा बुद्धिः। तच्च सादृश्यं न द्रव्यान्तर-
मिति ब्रूमः। तेनोच्यते—अपि चासत्त्वसभागतापि किं नेष्यत इति। विस्तरः—
न द्रव्यान्तरसभागतानिमित्ता 'सत्त्वः सत्त्वः' इति सामान्यबुद्धिः; सामान्या-
कारप्रवृत्तत्वात्। शालियवमुद्गमाषादिसामान्यबुद्धिवत्। शालियवस्वजाति-
सादृश्यकृता ह्येषा सामान्यबुद्धिः। न च तेषां स्वजातिसादृश्यं स्वतोऽर्थान्तरं
भवति। तासाञ्च सभागतानामिति। विस्तरः—अन्या सत्त्वसभागता, अन्या
धातुसभागता, अन्या गतिसभागतेत्यन्योन्यभिन्नाः सभागता इष्यन्ते। तासां
सभागतेति प्रज्ञप्तिः 'इयं सभागतेयं सभागता' इत्यभेदेन कथं भवद्भिः क्रियते,
व्यवहारः प्रत्ययश्च कथं जायते ? यद्यत्रापि सभागतान्तरं प्रतिज्ञायेत येन
सभागता सामान्यबुद्धिर्भवेत्, भवेत् सोऽयमपक्षः; प्राक्पक्षविरोधात्। वैशे-
षिकाश्चैवं द्योतिता इति। ज्वलिताः, समर्थिता इत्यभिप्रायः। तेऽपि हि सामा-
न्यपदार्थवादिनः, भवन्तोऽपीति। अयं तु तेषां वैशेषिकाणां विशेषः—एकोऽप्यने-
कस्मिन् वर्तते स्रक्सूत्रवत्, भूतकण्ठे गुणवच्चेति। यदि द्योतिताः सामान्यपदार्थ-
वादित्वात्। यदि न द्योतिता एकानेकनित्यानित्यत्वादिविशेषवादित्वात्। न हि
परलोकास्तित्वादीनि वैशेषिकैः कल्पितानीति न व्यवस्थाप्यन्ते।
स चेदित्थन्त्वमागच्छतीति। प्राणातिपातेनासेवितेन भावितेन बहुलीकृतेन
नरकेषूपपद्यते, स चेदित्यन्त्वमागच्छति मनुष्याणां सभागतां प्राप्नोति प्राणाति-
पातेनाल्पायुर्भवतीति विस्तरः। इदं प्रकार इत्थम्, तद्भावः इत्थन्त्वमिति।

निर्देशः ] द्वितीयं कोशस्थानम् २३३
अथ किमिदमासंज्ञिकं नाम ?
आसंज्ञिकमसंज्ञिषु ।
निरोधश्चित्तचैत्तानां
असंज्ञिसत्त्वेषु देवेषूपपन्नानां यश्चित्तचैत्तानां निरोधस्तदासज्ञिकं नाम
द्रव्यम्। येन चित्तचैत्ता अनागतेऽध्वनि कालान्तरं सन्निरुध्यन्ते, नोत्पत्तुं लभन्ते;
नदीतोयसन्निरोधवत् ।
तत् पुनरेकान्तेन
विपाकः
कस्य विपाकः ? असंज्ञिसमापत्तेः ॥
कतमे ते सत्त्वा येष्वसंज्ञिसत्त्वाः ?
ते बृहत्फलाः ॥ ४१ ॥
बृहत्फला नाम देवा येषां केचिदसंज्ञिसत्त्वाः प्रदेशे भवन्ति ध्यानान्तरिकावत् ।
किं पुनस्तेनैव कदाचित् संज्ञिनो भवन्ति ? भवन्त्युपपत्तिकाल च्युतिकाले च ।
"प्रकृष्टमपि कालं स्थित्वा सह संज्ञोत्पादात् तेषां सत्त्वानां तत्स्थानात् च्युति-
र्भवति" इति सूत्रे पाठः । ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युता कामधातावु-
"शरीरेन्द्रियसंस्थानचेष्टाहारादिसौभाग्यकारणम् अन्योन्याभिरभिसम्बन्ध-
निमित्तं च सभागता" इत्याचार्यसङ्घभद्रः । तदेतदेतेनैव प्रत्युक्तम् । वयमपि
ह्येवमिच्छामः । न तु सा सभागता द्रव्यान्तरम् । त एव हि संस्कारास्तथा-
कारणभावं प्रतिपद्यन्त इति ॥
“आसंज्ञिकमसंज्ञिषु निरोधश्चित्तचैत्तानाम्" इति । विस्तरः—असंज्ञिनामिद-
मासज्ञिकम्, असंज्ञिषु वा भवमासंज्ञिकम् । निरुध्यन्तेऽनेन चित्तचेत्ताः,
चित्तचैत्तान् वा निरुणद्धीति निरोधः । येनानागतेऽध्वन्यवस्थिताश्चित्तचैत्ताः
कालान्तरं तावत्कालं सन्निरुध्यन्ते, नोत्पत्तुं लभन्त इत्यर्थः । तदासज्ञिकं
नाम द्रव्यम् । नदीतोयसन्निरोधवत् । सेतुवदित्यर्थः ।
ध्यानान्तरिकावदिति । यथा ब्रह्मपुरोहिता नाम ते देवा येषां केचिन्महा-
ब्रह्माणः प्रदेशे भवन्ति ध्यानान्तरिकायाम्, तथा बृहत्फला नाम ते देवा येषा-
मसंज्ञिसत्त्वाः प्रदेशे भवन्ति, न भूम्यन्तरे । भवन्ति उपपत्तिकाल च्युतिकाले च ।
संज्ञिन इति सम्बन्धनीयम्; क्लिष्टेन मनसा प्रतिसन्धिबन्धात् । "उपेक्षायां

पपद्यन्ते, नान्यत्र । पूर्वसमापत्तिसंस्कारपरिक्षयात् अपूर्वानुपचयाच्च क्षिप्ता इव
क्षीणवेगा इषवः पृथिवीं पतन्ति । येन च तत्रोपपत्तव्यम्, तस्यावश्यं कामावचरं
कर्मापरपर्यायवेदनीयं भवति । यथा उत्तरकौरवाणां देवोपपत्तिवेदनीयम् ॥ ४१ ॥
अथ 'समापत्ती' इति यदुक्तम्, कतमे ते समापत्ती ? असंज्ञिसमापत्तिः,
निरोधसमापत्तिश्च ।
केयमसंज्ञिसमापत्तिः ? यथैवासंज्ञिकमुक्तम्- "निरोधश्चित्तचैत्तानाम्" इति ।
तथाऽसंज्ञिसमापत्तिः
असंज्ञिनां सत्त्वानां समापत्तिः, असंज्ञा वा¹ समापत्तिरित्यसंज्ञिसमा-
पत्तिः¹ । सापि चित्तचैत्तानां निरोधः । एतावत् तथाशब्देनान्वाकृष्यते ।
सा तु समापत्तिः
ध्यानेऽन्त्ये
अन्त्यध्यानं चतुर्थम्, तत्पर्यपन्नाऽसौ, नान्यभूमिका ।

निर्देशः ] द्वितीयं कोशस्थानम् २३५
कुशलैवासंज्ञिसमापत्तिः । तस्या असंज्ञिसत्त्वेषु पञ्चस्कन्धको विपाकः ।
कुशला सती
उपपद्यवेद्यैव
उपपद्यवेदनीयैव । न दृष्टधर्मपर्यायवेदनीया, नापि अनियता ।
योऽप्येनामुत्पाद्य परिहीयते, सोऽपि किलावश्यं पुनरुत्पाद्यासंज्ञिसत्त्वेषूपपद्यत
इति । तत¹ एव तल्लाभी नियामं नावक्रामति ।
सेयं पृथग्जनस्यैवेष्यते,
नार्यस्य
न ह्यार्या असंज्ञिसमापत्तिं समापद्यन्ते, विनिपातस्थानमिवैनां² पश्यन्ति² ।
निःसरणसंज्ञिनो हि तां समापद्यन्ते ।
अथ किमेनामार्याश्चतुर्थध्यानलाभादतीतानागतां प्रतिलभन्ते ध्यानवत् ?
अन्येऽपि तावन्न प्रतिलभन्ते । किं कारणम् ? एषा ह्युचितापि सती महा-
भिसंस्कारसाध्यत्वाद्, अचित्तकत्वाच्च ।
पञ्चस्कन्धको विपाक इति । च्युत्युत्पत्तिकाले चित्तचैत्तानां विपाकत्वसद्भा-
वात् । तत एव तल्लाभीति । यत एव परिहीणोऽपि पुनरुत्पाद्यासंज्ञिसत्त्वेषूप-
पद्यते तत एव तल्लाभी नियामं नावक्रामति । नियामावक्रान्त्येव ह्यार्योऽपाय-
गत्यासंज्ञिकमहाब्रह्माकौरवोपपत्त्यष्टमभवादीनामप्रतिसंख्यानिरोधं प्रतिलभते ।
विनिपातस्थानमिवैनां पश्यन्तीति । अपायस्थानमिवैनां पश्यन्तीत्यर्थः । गिरि-
तटादिविनिपातस्थानमिवेत्यपरे । निःसरणसंज्ञिनो हि तां समापद्यन्ते । पृथग्जना
मोक्षसंज्ञिन इत्यर्थः । न चैवमार्या विपरीतसंज्ञिनः प्रतिलभन्ते ।
ध्यानवदिति । चतुर्थध्यानलाभादतीतानागतमनादिमति संसारे लब्धपूर्वं
चतुर्थध्यानं प्रतिलभन्ते योगिनः । तस्मात् किं तद्वदेवातीतानागता तां प्रति-
लभन्त इति पृच्छति । अन्येऽपि तावन्न प्रतिलभन्त इति । पृथग्जना अपि
तावन्नातीतानागतां प्रतिलभन्ते येषां तावदियमात्मीया समापत्तिः, किं
पुनरार्या येषामियमनात्मीयेति । उचितापि सती. इति । अनादिमति संसारे
लब्धपूर्वापि महाभिसंस्कारसाध्यत्वान्महायत्नाभिनिष्पाद्यत्वादित्यर्थः । अचित्त-
कत्वाच्च ।
१. अतः-का० ।
२-२. मिवैतां पश्यन्तः-का० ।

२६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
एकाध्विकाप्यते ॥ ४२ ॥
एककालिकेत्यर्थः । वर्त्तमानकालिकैव लभ्यते । यथा प्रातिमोक्षसंवरः ।
लब्धया तु द्वितीयादिषु क्षणेष्वतीतयाऽपि समन्वागतो भवति यावन्न त्यजति ।
अचैत्तकत्वान्नानागता भाव्यते ॥ ४२ ॥
निरोधसमापत्तिरिदानीं कतमा ?
निरोधाख्या तथैवेयं
यथैवासंज्ञिसमापत्तिः । तथाशब्देन कः प्रकारो गृह्यते ? “निरोधश्चित्तचैत्ता-
नाम्” इति । अयं त्वस्या विशेषः—इयं
विहारार्थं
शान्तविहारसंज्ञापूर्वकेण मनसिकारेण एनां समापद्यन्ते । तां तु निःसरण-
संज्ञापूर्वकेण । सा खल्वपि चतुर्थध्यानभूमिका । इयं तु
भवाग्रजा ।
नैवसंज्ञानासंज्ञायतनभूमिकैव । सा चेयम्—
“एकाध्विकाप्यते” । समानाध्विका लभ्यत इत्यर्थः । यथा प्रातिमोक्षसंवर
इति । प्रातिमोक्षसंवरोऽष्टविधोऽपि यदा समादीयते तदा स प्राप्यते । प्राप्तिश्च
तस्य तस्मिन्नेव क्षण उत्पद्यते । लब्धया तु तया समापत्त्या द्वितीयादिषु क्षणेषु
प्रातिमोक्षसंवरवदेव समन्वागतो भवति यावन्न त्यजति तां समापत्तिम् । तत्त्याग-
॰स्तु परिहाण्याः, भूमिसञ्चाराद्वा । अचेत्तिकत्वान्नानागता भाव्यते । कुशलं हि
चित्तमानगतं भाव्यते । न त्वियमचित्तकेति न तद्वदनागता भाव्यते ॥ ४२ ॥
“निरोधाख्या तथैव” इति । समापत्तिरिति वर्त्तते । एवशब्दोऽवधारणे ।
यथाऽसंज्ञिसमापत्तिनिर्देशे तथाशब्देन ‘निरोधश्चित्तचैत्तानाम्’ इत्यतिदिश्यते,
तथैवेहापि निरोधसमापत्तिनिर्देशे स एवम्प्रकारोऽतिदिश्यत इति ।
शान्तविहारसंज्ञापूर्वकैण मनसिकारेणेति । बिहारः = क्रीडा, विहार इव
बिहारः, समाधिविशेषः । शान्तो विहारः शान्तविहारः, शान्तविहारे संज्ञा
शान्तविहारसंज्ञा, सा पूर्वा अस्येति शान्तविहारसंज्ञापूर्वकः । मनसिकारो
मनस्कार इति योऽर्थः, अलुक्समासात् स मनसिकार इति भवति । संज्ञावेदित-
समुचारपरिश्रान्ता हि तत्र शान्तविहारसंज्ञिनस्तथाविधेन मनसिकारेणैनां
निरोधसमापत्तिं समापद्यन्ते । तां त्वसंज्ञिसमापत्तिं निःसरणसंज्ञापूर्वकेण । मोक्ष-
संज्ञापूर्वकेणेत्यर्थः ।

निर्देशः ] द्वितीयं कोशस्थानम् २३७
शुभा
कुशलैव, न क्लिष्टा नाव्‍याकृता । कुशला सती
द्विवेद्याऽनियता च
द्वयोः कालयोर्वेद्या उपपद्यवेदनीया च, अपरपर्यायवेदनीया च । अनियता
च विपाकं प्रति कदाचिन्न विपच्यते । यदीह परिनिर्वायात् , तस्या हि भवाग्रे
चतुःस्कन्धको विपाकः ।
सा चेयमेकान्तेन
आर्यस्य
न हि पृथग्जना निरोधसमापत्तिमुत्पादयितुं शक्नुवन्ति; उच्छेदभीरुत्वाद् ,
आर्यमार्गबलेन चोत्पादनाद्, दृष्टधर्मनिर्वाणस्य तदधिमुक्तितः ।
अपरपर्यायवेदनीया चेति । अपरः पर्यायस्तृतीयादिजन्म, तत्र वेदनीया ।
कथम् ? यः आर्यः कामधातौ निरोधसमापत्तिमुत्पाद्य भवाग्र उत्पद्येत, तस्य सा
परिपूरिका उपपद्यवेदनीया । यस्तु ततः परिहीयते तद्भावात्पुनश्च कालान्तरेण
च पुनरपि भवाग्रं लब्ध्वा निरोधसमापत्तिमुत्पाद्यानुत्पाद्य वा भवाग्र उपप-
द्यते, तस्य सापरपर्यायवेदनीया भवति । यस्त्विह परिनिर्वायात्, तस्यानियतेति ।
उच्छेदभीरुत्वादिति । सर्वात्मभावोच्छेदभीरुत्वात् ।
“व्यथन्ते ह्यपुनर्भवात् प्रपातादिव बालिशाः” ।
असंज्ञिसमापत्तौ कस्मादुच्छेदभयं न भवति ? तत्र रूपसद्भावात् । रूपे
ह्यात्मसंज्ञामभिनिवेश्य तां समापद्यन्ते । निरोधसमापत्तौ त्वारूप्यभूमिकत्वाद्
रूपमपि नास्तीति सर्वात्मभावाभावं पश्यन्तो न तां गन्तुमुत्सहन्ते । ननु
चारूप्येषु निकायभागजीवितेन्द्रियादयश्चित्तविप्रयुक्ताः सन्ति, कस्मात् तत्रा-
त्मसंज्ञामभिनिवेश्य तां न समापद्यन्ते ? विप्रयुक्तानामदृश्यत्वात्, आर्यमार्गबलेन
चोत्पादनात् । कथं पुनर्गम्यत आर्यमार्गबलेन तदुत्पादनम् ? इत्यत आह—
दृष्टधर्मनिर्वाणस्य तदधिमुक्तित इति । दृष्टे जन्मनि निर्वाणं दृष्टधर्मनिर्वाणम्,
तस्य । तदधिमुक्तितः–तदित्यधिमुक्तिस्तदधिमुक्तिः, तेन वाधिमुक्तिस्तदधिमुक्तिः,
तदधिमुक्तेस्तदधिमुक्तिः । दृष्टे जन्मन्येतन्निर्वाणमित्यधिमुच्यते ।
केचित् पुनरेवं पठन्ति—दृष्टनिर्वाणस्य तदधिमुक्तितः। एवं तु व्याचक्षते—
दृष्टं निर्वाणमनेनेति दृष्टनिर्वाणस्तस्यार्यस्य तस्यामधिमुक्तिस्तदधिमुक्तिः, तदधि-
मुक्तेस्तदधिमुक्तिः । एतदुक्तं भवति—दृष्टनिर्वाणस्य आर्यस्तामधिमुच्यते,
नान्य इति । ननु च पृथग्जनोऽपि लौकिकेन मार्गेण दृष्टनिर्वाणः ? न पृथग्जनो

२३८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
आर्यस्यापि चेयं न वैराग्यलभ्या । किं तर्हि ?
आप्या प्रयोगतः ॥ ४३ ॥
प्रयोगलभ्यैवेयम् । न चातीता लभ्यते, नाप्यनागता भाव्यते; चित्तबलेन
तद्भावनात् ॥ ४३ ॥
किं भगवतोऽपि प्रायोगिकी ? नेत्याह ।
बोधिलभ्या मुनेः
क्षयज्ञानसमकालं¹ बुद्धा भगवन्त एतां² प्रतिलभन्ते² । नास्ति किञ्चिद्
बुद्धानां प्रायोगिकं नाम । इच्छामात्रप्रतिबद्धो हि तेषां सर्वगुणसम्पत्सम्मुखी-
भावः । तस्मादेषां सर्ववैराग्यलाभिकम् ।
कथं खल्विदानीमनुत्पादितायां निरोधसमापत्तौ क्षयज्ञानकाले भगवानुभयतो-
भागविमुक्तः सिध्यति ? सिध्यति; उत्पादितायामिव तस्यां वशित्वलाभात्³ प्रागेव तां
दृष्टनिर्वाणः, प्राप्तिनिर्वाणस्तु भवेत्, तदुत्तरां हि भूमिं पृथग्जनः शान्ततः पश्यन्
वैराग्यं लभते न निर्वाणमित्यचोद्यमेतत् ।
प्रयोगलभ्यैवेयमिति । इयमपि समापत्तिरसंज्ञिसमापत्तिवदेव महाभि-
संस्कारसाध्येति तथैव एकाधिकाऽऽप्यते । कथम् ? इत्याह—न चातीता लभ्यत
इति । यदा परिहीणः पुनस्तामुत्पादयति, तदा प्रयोगेणापूर्वैव लभ्यते, प्राति-
मोक्षसंवरवदिति विस्तरेण व्याख्येया । चित्तबलेन तद्भावनादिति । चित्तबलेना-
नागतभावनादित्यर्थः ॥ ४३ ॥
“बोधिलभ्या मुनेः” । 'प्रयोगलभ्यैवेयम्' इत्युत्सर्गस्यायमपवादः । श्रावक-
प्रत्येकबुद्धानां स विधिरिति कृत्वा, क्षयानुत्पादज्ञाने बोधिरिति वक्ष्यति
(अभि० को० ६.७०) । तेनाह—क्षयज्ञानसमकालमिति । विस्तरः—सास्रवाश्च
क्षयज्ञान इति । बुद्धा भगवन्त एतां प्रतिलभन्ते । नास्ति बुद्धानां किञ्चित् प्रायोगिकं
नामेति । यथोक्तं स्तोत्रकारेण—
'न ते प्रायोगिकं किञ्चित् कुशलं कुशलान्तग !
इच्छामात्रवबद्धा ते यत्र कामावसायिता ॥ इति ।
कथं पुनर्भगवानुभयतोभागविमुक्त इति । क्लेशावरणं समापत्त्यावरणं चोभ-
यतो भागः, ततो विमुक्तः । सिध्यत्युत्पादितायामिवेति । सिध्यत्युभयतो भाग-
१ ०समानकालं-का० । २-२. एनां लभन्ते-का० ।
३. वशित्वात्-का० ।

निर्देशः ]        द्वितीयं कोशस्थानम्        २३९
बोधिसत्त्वः शैक्षावस्थायामुत्पादयतीति पाश्चात्त्याः ।
अथ कस्मादेवं नेष्यते, एवं च स्थविरोपगुप्तस्यापीदं नेत्रीपदं प्रामाणिकं
भविष्यति— “निरोधसमापत्तिमुत्पाद्य क्षयज्ञानमुत्पादयतीति वक्तव्यं तथागत”
इति ?
न प्राक्
न हि पूर्वं तस्या उत्पादनं युज्यत इति काश्मीरकाः । किं कारणम् ?
चतुस्त्रिंशत्क्षणाश्रितः ।
चतुस्त्रिंशता किल चित्तक्षणैर्बोधिसत्त्वो बोधिमनुप्राप्तः । सत्याभिसमये षोड-
शभिः, भवाग्रवैराग्ये चाष्टादशभिर्नवप्रकाराणां क्लेशानां प्रहाणाय; नवानन्तर्यविमुक्ति-
मार्गोत्पादनात् । त एते चतुस्त्रिंशत् भवन्ति । आकिञ्चन्यायतनवीतरागस्यास्य
नियमावक्रमणादधोभूमिका न पुनः प्रहेया भवन्ति । अत एतस्मिन्नन्तरे विस-
भागचित्ता सम्भवान्निरोधसमापत्तेरयोग इति ।
विमुक्तो भगवान् सम्मुखीकृतपूर्वायामिव । तस्यां वशित्वलाभात् । तत्सम्मुखी-
कारणसामर्थ्ययोगतः । प्रागेव तामिति । विस्तरः-धर्मतैषा यद् बोधिसत्त्वश्चरम-
भविको भवाग्रलाभी भूत्वा चतुर्थध्यानसन्निश्रयेण दर्शनमार्गमुत्पाद्य ततश्च
व्युत्थाय भवाग्रं समापद्यते, ततो निरोधसमापत्तिं समापद्यते, ततो व्युत्थाय
पुनश्चतुर्थध्यानसन्निश्रयेण भावाग्रिकभावनाप्रहातव्यक्लेशप्रहाणं कृत्वा क्षय-
ज्ञानकालात् प्रभृत्यनुत्तरसम्यक्सम्बुद्धो भवतीत्येवं शैक्षावस्थायां स तामुत्पादय-
तीति पाश्चात्याः । काश्मीरमण्डलात् पश्चाद्भूवाः पाश्चात्याः ।
नेत्रीपदमिति शास्त्रनाम स्थविरोपगुप्तस्य । यत्रेदं वाक्यम्—निरोधसमा-
पत्तिमुत्पाद्य क्षयज्ञानमुत्पादयतीति वक्तव्यं तथागत इति ।
सत्याभिसमये षोडशभिरिति । दुःखे धर्मज्ञानक्षान्तिमारभ्य यावन्मार्गेऽन्वय-
ज्ञानमिति षोडशभिश्चित्तक्षणैः । भवाग्रवैराग्ये चाष्टादशभिरिति । नवप्रकाराणां
क्लेशानां भावाग्रिकाणां भावनाहेयानां प्रहाणाय नवानन्तर्यमार्गा नव च विमुक्ति-
मार्गा इत्यष्टादशभिः । त एते चतुस्त्रिंशद् भवन्ति । षोडश चाष्टादश चेति ।
अधोभूमिका न पुनः प्रहेया भवन्तीति । कामावचरादीनां क्लेशानां लौकिकेन
मार्गेण पृथग्जनत्वावस्थायामेव प्रहीणत्वात् । यद्येष नियमः—प्रहीणक्लेशप्रति-
पक्षोत्पादनं न कर्त्तव्यमिति, अथ किमर्थं प्रहीणेषु कामावचरेषु क्लेशेषु तत्प्रति-
पक्षं धर्मज्ञानपक्षं मार्गमभिसमयकाल उत्पादद्यति ? तन्नान्तरीयकत्वादन्वय-

२४० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [२-इन्द्रिय-
किं पुनः स्याद्—यदि विसभागचित्तमन्तरा सम्मुखीकुर्यात् ? व्युत्थानाशयः
स्याद्, अव्युत्थानाशयाश्च बोधिसत्त्वाः ? सत्यमव्युत्थानाशयाः; न तु आस्रवमार्गा-
व्युत्थानात् ।
कथं तर्हि—"न तावत् भेत्स्यामि पर्यङ्कमप्राप्ते आस्रवक्षये” ( )
इति ? आशयस्याव्युत्थानादेकायन एव सर्वार्थपरिसमाप्तेरिति बहिर्देशकाः ।
पूर्वमेव तु वर्णयन्ति काश्मीराः ।
यद्यप्यनयोर्बहुप्रकारो१ विशेषः ।
कामरूपाश्रये तूभे२
, उभे अपि त्वेते असंज्ञिनिरोधसमापत्ती कामधातौ रूपधातौ चोत्पत्स्येते ।
ये त्वसंज्ञिसमापत्तिं रूपधातौ नेच्छन्ति, तेषामयं ग्रन्थो विरुध्यते—
“स्याद्रूपभवो न चासौ भवः पञ्चव्यवचारः । स्याद्रूपावचराणां संज्ञिनां३ देवानां
ज्ञानपक्षस्य मार्गस्य । न ह्यसत्यां धर्मज्ञानपक्षोत्पत्तावन्वयज्ञानपक्षसम्मुखीभावः
सम्भवति । एतद्धयन्वयज्ञानस्यान्वयज्ञानत्वं यदतः पश्चाद् भवतीति ।
पाश्चात्त्या आहुः—किं पुनः स्यादिति । विस्तरः—को दोषः स्याद् यदि
विसभा गं सास्रवं चित्तमन्तरा सम्मुखीकुर्यात् । वैभाषिका आहुः—व्युत्थानाशयः
स्यादिति । विस्तरः—व्युत्थानाभिप्रायो बोधिसत्त्वः स्यात् । व्युत्थानकुशलः
स्यादित्यपरे । कुशलमूलार्थो ह्याशयार्थः । तदेतदुक्तं भवति—ईदृशानि
कुशलमूलानि बोधिसत्त्वानां यैः सम्मुखीभूतैस्तावन्न व्युत्तिष्ठन्ते यावदेकासन
एवानुत्तरा सम्यक्सम्बोधिः प्राप्तेति । बहिर्देशका आहुः—सत्यमव्युत्थानाशयाः,
न तु यथा भवन्तो वर्णयन्ति इति । पूर्वमेव तु वर्णयन्ति । क्षयज्ञान-
समकालमिति यः पक्षः ।
यद्यप्यनयोर्बहुप्रकारो विशेष इति। एका “ध्यानेऽन्त्ये” (अभि० को० २.४२) ।
अपरा “भवाग्रजा” ( अभि० को० २.४३ ), एकां निःसरणसंज्ञया समापद्यते,
अपरां विहारकामतया—इत्येवमादि बहुप्रकारो विशेषः ।
साम्यं त्वनयोः “कामरूपाश्रये तूभे” इति । स्याद्रूपभवः इति विस्तरः ।
यः क्वचिद् रूपभवः सर्वोऽसौ भवः पञ्चव्यवचार इति । चतुष्कोटिकः ।
स्याद् रूपभवो न चासौ भवः पञ्चव्यवचारः । रूपावचराणां संज्ञिनां देवानां
१. ०नयोः समापत्त्योर्बहु०—का० । २. भूते—का० ।
३. सत्त्वानां संज्ञिनां—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २४१
विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापत्तिं च समापन्नानामसंज्ञिनां
च देवानामासंज्ञिके प्रतिलब्धे यो भवः" इति । अत उभे अप्येते कामरूपाश्रये ।
तत्रापि त्वयं विशेषः—
निरोधाख्यादितो नृषु ॥ ४४ ॥
निरोधसमापत्तिः प्रथमतॊ मनुष्येषूत्पाद्यते, पश्चाद् रूपधातौ परिहीणपूर्वैः ।
किमप्यस्ति¹ परिहाणिः ? अस्तीत्याह । अन्यथा हि उदायिसूत्रं
विरुध्येत—"इहायुष्मन्तो भिक्षुः शीलसम्पन्नश्च भवति, समाधिसम्पन्नश्च प्रज्ञा-
विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापत्तिं च समापन्नानामसंज्ञिनां च
देवानामासंज्ञिके प्रतिलब्धे यो भवः । स्याद् भवः पञ्चव्यवचारो न चासौ रूपभवः ।
कामावचराणां सत्त्वानां सभागे चित्ते स्थितानां यो भवः । स्याद् रूपभवः स
च भवः पञ्चव्यवचारः । रूपावचराणां संज्ञिनां देवानां सभागे चित्ते स्थितानां
असंज्ञिनां च देवानामासंज्ञिके प्रतिलब्धे यो भवः । स्यान्नैव रूपभवो न
चासौ भवः पञ्चव्यवचारः । कामावचराणां सत्त्वानां विसभागे चित्ते स्थिता-
नामसंज्ञिसमापत्तिं निरोधसमापत्तिं च समापन्नानां यो भवः । आरूप्यभवश्च ।
तत्र प्रथमा कोटिरुदाहरणम् । रूपभवो रूपावचरं स्कन्धपञ्चकम् । पञ्च-
व्यवचारः पञ्चस्कन्ध इत्यर्थः । व्यवचार इति काश्यपस्य तथागतस्य स्कन्ध-
संज्ञा । विशेषेणावचारो व्यवचारः, अन्यथीभावेन विसंवादनमित्यर्थः । सोऽ-
स्यास्तीति व्यवचारः । "अर्श आदिभ्योऽच्" ( पा० सू० ५.२.१२७) इत्यकारो
मत्वर्थीयः । विसंवादनमित्यर्थः । "फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा"
( ) इत्यादिना विसंवादनात् । तत्र यदि रूपधातावसंज्ञिसमा-
पत्तिर्नेष्यते, 'असंज्ञिसमापत्तिं निरोधसमापत्तिं समापन्नानाम्' इति नोच्येत ।
नेन रूपावचर्यसंज्ञिसमापत्तिरिति गम्यते ।
तत्रापि त्वयं विशेष इति । तत्र साधर्म्येऽपि विशेषो भवति । पश्चाद्रूप-
धाताविति । य आर्या निरोधसमापत्तिमुत्पाद्य ततः परिहीणा ध्यानं च लब्ध्वा
रूपधातावुत्पद्यन्ते, तैः परिहीणपूर्वैः पूर्वाभ्यासवशाद् रूपधातौ निरोधसमापत्ति-
रुत्पाद्येत, असंज्ञिसमापत्तिस्तु कामरूपधातौ प्रथमतॊऽपि पृथग्जनैरुत्पाद्यत
इत्ययं विशेषः ।
किमप्यस्ति परिहाणिरिति । निर्वाणसदृशीयं समापत्तिः, कथमतः परिहाणि-
रित्यसम्भावयन् पृच्छति । उदायिसूत्रमिति । आर्यशारिपुत्रभाषितमेतत् सूत्रम् ।
१. किमतोऽप्यस्ति—का० ।
अभि० को० १६

२४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सम्पन्नश्च। सोऽभीक्ष्णं संज्ञावेदितनिरोधं¹ समापद्यते च व्युत्तिष्ठते च, अस्ति चैतत्
उदायी तु तत्र विबन्धक इति उदायीसूत्रम्' इत्युच्यते । कथमिति ? “श्रावस्त्यां
निदानम् । तत्रायुष्मान् शारिपुत्रो भिक्षूनामन्त्रयते स्म - 'इहायुष्मन्तो भिक्षुः
शीलसम्पन्नश्च भवति समाधिसम्पन्नश्च प्रज्ञासम्पन्नश्च । सोऽभीक्ष्णं संज्ञावेदित-
निरोधं समापद्यते च, व्युत्तिष्ठते च। अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति।
स न हैव दृष्ट एव धर्मे प्रतिपद्येवाज्ञामागराघयति। नापि मरणकालसमये ।
भेदाच्च कायस्यातिक्रम्य देवान् कवडीकारभक्षानन्यतमस्मिन् दिव्ये मनोमये
काय उपपद्यते, स तत्रोपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते
च । अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति' । तेन खलु पुनः समये-
नायुष्मानुदायी तस्यामेव पर्षदि सन्निषण्णोऽभूत् सन्निपतितः । अथायुष्मानु-
दाय्यायुष्मन्तं शारिपुत्रमिदवोचत् - 'अस्थानमेतदायुष्मञ्छारिपुत्रानवकाशो
यद्भिक्षुरन्यतमस्मिन् दिव्ये मनोमये काय उपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं
समापद्यते च व्युत्तिष्ठते च, अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति' ।
द्विरपि त्रिरप्यायुष्मानुदाय्यायुष्मन्तं शारिपुत्रमिदवोचत् - 'अस्थानमेतदायु-
ष्मन्' इति पूर्ववत् । अथायुष्मतः शारिपुत्रस्यैतदभवत् - 'यावत् त्रिरपि मेऽयं
भिक्षुर्भाषितं प्रतिवहति प्रतिक्रोशति, न च मे कश्चित् सब्रह्मचारी भाषितम-
भ्यनुमोदते, न्वहं येन भगवांस्तेनोपसंक्रामेयम्' । अथायुष्मान् शारिपुत्रो येन
भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते
निषण्णः । एकान्ते निषण्णश्चायुष्माञ्छारिपुत्रो भिक्षूनामन्त्रयते स्म - 'इहा-
युष्मन्तो भिक्षुः शीलसम्पन्नश्च भवति' पूर्ववत् । तेन खलु समयेनायुष्मानुदायी
पूर्ववत् । एवं द्विरपि त्रिरप्यायुष्मानुदाय्यायुष्मन्तं शारिपुत्रमिदमवोचत्,
पूर्ववत् । अथायुष्मतः शारिपुत्रस्यैतदभवत् - 'शास्तुरपि मे पुरस्तादयं भिक्षु-
र्यावत् त्रिरपि भाषितं प्रतिवहति प्रतिक्रोशति । न च मे कश्चित् सब्रह्मचारी
भाषितमभ्यनुमोदते, यन्नवहं तूष्णीं स्याम्' । अथायुष्मान् शारिपुत्रस्तूष्णीमभूत् ।
तत्र भगवानायुष्मन्तमुदायिनमामन्त्रयते स्म - 'कं पुनस्त्वमुदायिन्नन्यतमं दिव्यं
मनोमयं कायं सञ्जानीषे' ? 'ननु यावदेवारूपिणं संज्ञाम

निर्देशः ] द्वितीयं कोशस्थानम् २४३
स्थानमिति यथाभूतं प्रजानाति । स न हैव दृष्ट एव धर्मे प्रतिपद्येवाज्ञामाराग-
यति¹ । नापि मरणकालसमये भेदाच्च । कायस्यातिक्रम्य देवान् ²कवडीकारभक्षा-
नन्यतरस्मिन् दिव्ये मनोमये काय उपपद्यते । स तत्रोपपन्नोऽभीक्ष्णं संज्ञावेदित-
निरोधं समापद्यते च व्युत्तिष्ठते च, अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति"
( ) इति । अत्र हि दिव्यो मनोमयः कायो रूपावचर उक्तो
भगवता ।
इयं च समापत्तिर्भावाग्रिकी । तत् कथमपरिहीणस्य तल्लाभिनो रूपधातौ
स्यादुपपत्तिः ? चतुर्थध्यानभूमिकामपि निरोधसमापत्तिं निकायान्तरीया इच्छन्ति ।
तेषां विनापि परिहाण्या सिध्यत्येतत् । एतदेव तु न सिध्यति—चतुर्थध्यान-
भूमिकाप्यसावस्तीति । किं कारणम् ? "नवानुपूर्वसमापत्तयः" इति सूत्रे वचनात् ।
इति । तत्र भगवानायुष्मन्तमुदायिनमायुष्मन्तं चानन्दं सम्मुखमवसाद्य
भिक्षूनामन्त्रयते स्म—'इह भिक्षवो भिक्षुः शीलसम्पन्नश्च भवति समाधि-
संम्पन्नश्च, विस्तरेण यावदस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति' इति ।
उक्त्वा भगवानुत्थायासनाद् विहारं प्राविक्षत् प्रतिसंलयनाय" इति ।
अत्रायुष्मानुदायी 'आरूप्यावचरोऽयं मनोमयः काय उक्तः' इति मनसि
कृत्वा प्रतिबन्धमकार्षीत् । तत्र हि रूपं नास्ति, मन एव तु ससम्प्रयोगमस्ति,
तस्मान्मनोमयः कायः । तत्र चेयं समापत्तिर्न समापद्यत इति तस्याभिप्रायः ।
आर्यशारिपुत्रस्य तु रूपावचरो दिव्यो मनोमयः कायोऽभिप्रेतः; शुक्रशोणित-
मनुत्राप्य प्रादुर्भावात् । अत एव चासावायुष्मानुदायी भगवता पृष्टः—'किं
पुनस्त्वमुदायिन्नन्यतमं दिव्यं मनोमयं कायं संजानीषे, ननु यावदेवारूपिणं
संज्ञामयम्' इति। तेनापि 'एवं भदन्त' इति प्रतिपन्नम् । भगवानपि रूपावचरमेव
दिव्यं मनोमयं कायमनिप्रेत्यार्यशारिपुत्रस्य मतं समर्थयन् तमायुष्मन्तमुदायिन-
मवसादयति स्म—'त्वं तावन्मोहपुरुषान्ध एव सन्नचक्षुश्चक्षुष्मता शारिपुत्रेण
भिक्षुणा सार्धमभिधर्मेऽभिविनये संल्लपितव्यं मन्यसे' इति ।
अस्ति चैतत् स्थानमिति । यदेतन्निरोधसमापत्तेः समापदनं व्युत्थानं
चेति, एतत् स्थानम् यथाभूतं प्रजानाति । प्रतिपद्येवेति । पूर्वमेवेत्यर्थः । आज्ञामा-
रागयतीत्यर्हत्त्वं प्राप्नोतीत्यर्थः ।
इयञ्च समापत्तिर्भावाग्रिकीति । विस्तरः—निरोधसमापत्तिर्भावाग्रिकी ।
यश्च तल्लाभी तस्य भवाग्र एवोपपत्तिः स्यात्, न रूपधातौ । उक्तं च सूत्रे—
१. प्रतिपत्त्ये०—का० । २. कवड़ीकाराहार०-का० ।