सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 251, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 251

सा पुनरभिन्ना भिन्ना च। अभिन्ना सर्वसत्त्वानां सत्त्वसभागता; प्रतिसत्त्वं
सर्वेषु भावात्। भिन्ना पुनस्तेषामेव सत्त्वानां धातु-भूमि-गति-योनि-जाति-स्त्री-
पुरुषोपासक-भिक्षु-शैक्षाशैक्षादिभेदेन प्रतिनियता धर्मसभागता।
पुनः स्कन्धायतनधातुतः। यदि सत्त्वसभागता द्रव्यमविशिष्टं न स्यात्,
अन्योन्यविशेषभिन्नेषु सत्त्वेषु 'सत्त्वः सत्त्वः' इत्यभेदेन बुद्धिर्न स्यात्, प्रज्ञप्तिश्च।
एवं स्कन्धादिबुद्धिप्रज्ञप्तयोऽपि योज्याः।
स्याच्च्यवेत, उपपद्येत, न च सत्त्वसभागतां विजह्यात्, न च प्रतिलभेत—
इति चतुष्कोटिकः। प्रथमा कोटिः—यतश्च्यवते तत्रैवोपपद्यमानः। द्वितीया—
इत्यनया संज्ञायं चित्तविप्रयुक्तो निर्दिश्यते। इह तु श्लोकबन्धानुगुण्यात् सभा-
गतेत्यनया संज्ञयेत्यभिप्रायः।
सा पुनरभिन्ना भिन्ना चेति। या सर्वसत्त्ववर्त्तिनी। प्रतिसत्त्वमन्यान्याप्य-
भिन्नेत्युच्यते; सादृश्यात्। न हि सा यथा वैशेषिकाणामेका नित्या चेति।
भिन्ना—या क्वचिद् वर्तते, क्वचिन्न वर्तते। तत आह—भिन्ना पुनरिति विस्तरः।
धातवस्त्रयः कामादयः। गतयः पञ्च नरकादयः। योनयश्चतस्रोऽण्डजादयः।
जातयो ब्राह्मणादयः। आदिशब्देन उपासिका-भिक्षुणी-नैवशैक्षनाशैक्षादयः
संगृह्यन्ते। स्कन्धायतनधातुत इति। रूपस्कन्धसभागता यावद्धर्मधातुसभागता।
अविशिष्टमिति। सामान्यरूपम्। प्रज्ञप्तिश्चेति। अभिधानं चेत्यर्थः। एवं
स्कन्धादिबुद्धिप्रज्ञप्तयोऽपि योज्या इति। यदि स्कन्धसभागताद्रव्यमविशिष्टं न
स्याद्, अन्योन्यविशेषभिन्नेषु स्कन्धेषु 'स्कन्धः स्कन्धः' इत्यभेदेन बुद्धिर्न स्यात्,
प्रज्ञप्तिश्चेति।
एवं धात्वादिबुद्धिप्रज्ञप्तयोऽपि योज्या इत्येके पठन्ति। तेषामेवं वक्तव्यम्—
यदि सभागतेति विस्तरेण यावदन्योन्यविशेषभिन्नेषु धातुषु 'कामावचरः
'कामावचरः' इत्यभेदेन बुद्धिर्न स्यात्, प्रज्ञप्तिश्चेति।
चतुष्कोटिक इति। स्याच्च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान्न च
प्रतिलभेतेति। सत्त्वसभागतामिति। सत्त्वानां सभागता सत्त्वसभागता मनुष्य-
त्वादिलक्षणा। सत्त्वग्रहणं हि धर्मविशेषणार्थम्। सत्त्वसभागता ह्यत्र चतुः-
कोटिके विवक्षिता, न धर्मसभागतेति। न तु 'सत्त्वस्सत्त्वः' इत्याकारसभागते-
हाभिप्रेता। यदि हि साभिप्रेता स्यात्, तृतीया कोटिर्न सिध्येत्; गतिसञ्चारेऽपि
तस्याः सत्त्वसभागतायास्तादवस्थ्यात्। तत्रैवोपपद्यमान इति। तद्यथा मनुष्य-