सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 254, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 254

निर्देशः ] द्वितीयं कोशस्थानम् २३३
अथ किमिदमासंज्ञिकं नाम ?
आसंज्ञिकमसंज्ञिषु ।
निरोधश्चित्तचैत्तानां
असंज्ञिसत्त्वेषु देवेषूपपन्नानां यश्चित्तचैत्तानां निरोधस्तदासज्ञिकं नाम
द्रव्यम्। येन चित्तचैत्ता अनागतेऽध्वनि कालान्तरं सन्निरुध्यन्ते, नोत्पत्तुं लभन्ते;
नदीतोयसन्निरोधवत् ।
तत् पुनरेकान्तेन
विपाकः
कस्य विपाकः ? असंज्ञिसमापत्तेः ॥
कतमे ते सत्त्वा येष्वसंज्ञिसत्त्वाः ?
ते बृहत्फलाः ॥ ४१ ॥
बृहत्फला नाम देवा येषां केचिदसंज्ञिसत्त्वाः प्रदेशे भवन्ति ध्यानान्तरिकावत् ।
किं पुनस्तेनैव कदाचित् संज्ञिनो भवन्ति ? भवन्त्युपपत्तिकाल च्युतिकाले च ।
"प्रकृष्टमपि कालं स्थित्वा सह संज्ञोत्पादात् तेषां सत्त्वानां तत्स्थानात् च्युति-
र्भवति" इति सूत्रे पाठः । ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युता कामधातावु-
"शरीरेन्द्रियसंस्थानचेष्टाहारादिसौभाग्यकारणम् अन्योन्याभिरभिसम्बन्ध-
निमित्तं च सभागता" इत्याचार्यसङ्घभद्रः । तदेतदेतेनैव प्रत्युक्तम् । वयमपि
ह्येवमिच्छामः । न तु सा सभागता द्रव्यान्तरम् । त एव हि संस्कारास्तथा-
कारणभावं प्रतिपद्यन्त इति ॥
“आसंज्ञिकमसंज्ञिषु निरोधश्चित्तचैत्तानाम्" इति । विस्तरः—असंज्ञिनामिद-
मासज्ञिकम्, असंज्ञिषु वा भवमासंज्ञिकम् । निरुध्यन्तेऽनेन चित्तचेत्ताः,
चित्तचैत्तान् वा निरुणद्धीति निरोधः । येनानागतेऽध्वन्यवस्थिताश्चित्तचैत्ताः
कालान्तरं तावत्कालं सन्निरुध्यन्ते, नोत्पत्तुं लभन्त इत्यर्थः । तदासज्ञिकं
नाम द्रव्यम् । नदीतोयसन्निरोधवत् । सेतुवदित्यर्थः ।
ध्यानान्तरिकावदिति । यथा ब्रह्मपुरोहिता नाम ते देवा येषां केचिन्महा-
ब्रह्माणः प्रदेशे भवन्ति ध्यानान्तरिकायाम्, तथा बृहत्फला नाम ते देवा येषा-
मसंज्ञिसत्त्वाः प्रदेशे भवन्ति, न भूम्यन्तरे । भवन्ति उपपत्तिकाल च्युतिकाले च ।
संज्ञिन इति सम्बन्धनीयम्; क्लिष्टेन मनसा प्रतिसन्धिबन्धात् । "उपेक्षायां