सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 255, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 255

पपद्यन्ते, नान्यत्र । पूर्वसमापत्तिसंस्कारपरिक्षयात् अपूर्वानुपचयाच्च क्षिप्ता इव
क्षीणवेगा इषवः पृथिवीं पतन्ति । येन च तत्रोपपत्तव्यम्, तस्यावश्यं कामावचरं
कर्मापरपर्यायवेदनीयं भवति । यथा उत्तरकौरवाणां देवोपपत्तिवेदनीयम् ॥ ४१ ॥
अथ 'समापत्ती' इति यदुक्तम्, कतमे ते समापत्ती ? असंज्ञिसमापत्तिः,
निरोधसमापत्तिश्च ।
केयमसंज्ञिसमापत्तिः ? यथैवासंज्ञिकमुक्तम्- "निरोधश्चित्तचैत्तानाम्" इति ।
तथाऽसंज्ञिसमापत्तिः
असंज्ञिनां सत्त्वानां समापत्तिः, असंज्ञा वा¹ समापत्तिरित्यसंज्ञिसमा-
पत्तिः¹ । सापि चित्तचैत्तानां निरोधः । एतावत् तथाशब्देनान्वाकृष्यते ।
सा तु समापत्तिः
ध्यानेऽन्त्ये
अन्त्यध्यानं चतुर्थम्, तत्पर्यपन्नाऽसौ, नान्यभूमिका ।