अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] सप्तमं कोशस्थानम् १०७६
यद्वैराग्याय यल्लाभस्तत्र चाधश्च भाव्यते ।
यद्भूमिर्वैराग्यायापि हि द्विविधोऽपि मार्गो भवति प्रयोगमार्गादिः
यां च भूमिं लभते वैराग्यतस्तद्भूमिकान्यधोभूमिकानि वानास्रवाणि^१
ज्ञानानि भावनां गच्छन्ति ।
सास्रवाश्च क्षयज्ञाने,
क्षयज्ञाने तु सर्वभूमिकाः सास्रवा अपि गुणाः क्षयज्ञानलाभिका
नवमे तु विमुक्तिमार्गे मौलद्वितीयसंगृहीतमपि संवृतिज्ञानमनागतं भाव्यते ।
एवमनास्रवध्यानान्तरभूमिसन्निश्श्रयेण यावत् अनास्रवाकिञ्चन्यायतनभूमि-
सन्निश्श्रयेण संवृतिज्ञानभावना योज्या ।
“यद्वैराग्याय” इति । यस्य भूमेर्वैराग्याय । यल्लाभः यस्य भूमेर्लाभो
यल्लाभः । तत्र उभयत्र । अधः च ततो भाव्यते अनास्रवज्ञानम् । कथम
भावनां गच्छन्ति, अशुभानापानस्मृतिस्मृत्युपस्थानाप्रमाणविमोक्षादयः
रज्जूच्छेदादुच्छ्वसन्तीव पेडासाधर्म्येण, स्वचित्ताधिराज्यप्राप्तस्य प्राप्तिभिः
सर्वकुशलधर्मप्रत्युद्गमनादाधिराज्ये¹ प्राप्तौ¹ प्राभृतेन विषयप्रत्युद्गमनवत् ।
यत् किञ्चिल्लभ्यते तत् सर्वं भाव्यते । यदपूर्वं लभ्यते तद् भाव्यते ।
लब्धपूर्वं न भाव्यते ॥ २६ ॥
यद्धिहीनं पुनर्लभ्यते न तद् भाव्यते, भावितोत्सृष्टत्वात् ॥ २६ ॥
अप्रमाणविमोक्षादय इति । आदिशब्देन अभिभ्वायतन-कृत्स्नायतना-
दयो गृह्यन्ते । उच्छ्वसन्तीव पेडासाधर्म्येणेति । या पेडा रज्ज्वा निपीड्य
बद्धा सा रज्जूच्छेदादुच्छ्वसन्तीव पेडोच्यते । उच्छ्वसतीव प्रतिरूपक-
शब्दाभिधानात् । तस्य रज्जूच्छेदाद् उच्छ्वसन्तीव पेडायाः साधर्म्येण । यथा-
ऽसौ रज्ज्वा निपीड्य बद्धा पेडा रज्जूच्छेदादुच्छ्वसन्तीव, एवं यथोक्ता
अशुभादयो गुणाः वज्रोपमेन समाधिना क्लेशप्राप्तिरज्जूच्छेदादशैक्षसन्ताने
वर्त्स्यन्त उच्छ्वसन्तीव । उच्छ्वासस्य प्राणिधर्मत्वादौपमिकम् । कस्माद् ?
इत्याह—स्वचित्ताधिराज्यप्राप्तस्येति सर्वम् । सर्वेषां राज्ञामधिको राजा
अधिराजः, तद्भावः आधिराज्यम् । स्वचित्ते आधिराज्यं क्लेशपराधीनता-
विगमात् । स्वचित्तैश्वर्यमित्यर्थः । तत्प्राप्तस्यार्हतः प्राप्तिभिः प्राभृतस्था-
नीयाभिः सर्वेषां कुशलानां धर्माणां प्रत्युद्गमनान्ते गुणाः भावनां गच्छन्ति ।
आधिराज्ये प्राप्तौ कस्यचिद् राजाधिराजस्य प्राभृतेन वस्त्रादिना विषयाणां
जनपदानाम् यथा प्रत्युद्गमनम् तद्वत् । तदेव क्लेशप्राप्तिरज्जूच्छेदे सति
स्वप्राप्तिलाभादुच्छ्वसन्तीव गुणाः, उत्तप्ततराणां तेषां प्राप्तिरुत्पद्यत
इत्यर्थः । कामधातावर्हत्त्वप्राप्तावेवाशुभादयो यथासम्भवं श्रुत-चिन्ता-
भावनामयास्त्रैधातुका भावनां गच्छन्ति । रूपारूप्यधात्वोस्त्वर्हत्त्वप्राप्तौ
यथाक्रमं द्विधातुकाकधातुकाः । एवं धातुतोऽपि बोद्धव्यम् । नैवसंज्ञाना-
संज्ञायतनोपपन्नस्यार्हत्त्वप्राप्तौ तद्भूमिका एवेत्यवगन्तव्यम् । यत् किञ्चत्
लभ्यते इति विस्तरः ।
यद्धिहीनं पुनर्लभ्यते सम्मुखीक्रियते संसारोचितम् । न तदनागतं
भाव्यते भावितोत्सृष्टत्वात् संसारे । यदेवात्र ध्यानाप्रमाणाद्यनुचितं संसारे
विशिष्टमनास्रवानुगुणम्, तत्सम्मुखीभावे तज्जातीयमेवानागतं विशिष्टं
भाव्यत इत्याचार्यो दर्शयति ।
आचार्यसङ्घभद्रोऽप्येतमेवार्थं व्याचष्टे—लब्धपूर्वं न भाव्यते । यत्
१-१. ०राज्य प्राप्तौ—का० ।
..."?
Let's look closely at the image:
It is: "निर्धरित्युच्यते" or "निर्झरिन्युच्यते" - wait, many people transcribe this line as:
"निर्धारित्युच्यते" or "निर्झरित्युच्यते".
Look at the characters:
नि - र्ध - रि - त्यु - च्य - ते
Wait, is the second letter 'र्ध' or 'र्झ'?
Look at 'ध' in 'प्रतिपक्षविनिर्धावभावने' (line 6): 'ध' has a loop at top left, then curved belly, vertical line.
In line 29, the second letter has a loop at top left, then curved belly, vertical line, with a repha on top: that is 'र्ध'!
And the third letter has a 'र' with 'ि' (रि).
And the fourth letter is 'त्' + 'यु' (त्यु).
Then 'च्य' + 'ते'.
So it is "निर्धरित्युच्यते" or "निर्धारित्युच्यते" (if the 'ा' is fused with 'ध').
Wait, could it be "निर्धारित्युच्यते"?
Wait, look at the next word:
"—भाविनचित्तः" or "—भावितचित्तः"?
Look at the 'त' in 'भावितचित्तः':
Wait, the letter has: horizontal
प्रतिलम्भनिषेवणाभावने कुशलसंस्कृतानां धर्माणामनागतानामेका,
प्रत्युत्पन्नानामुभे । प्रतिपक्षविनिर्धावनभावने सास्रवाणां धर्माणाम् ।
तदेवं कुशलसास्रवाणां चतस्रो भावना भवन्ति । अनास्रवाणां
द्वे, क्लिष्टाव्याकृतानां च ।
बाह्याभिधार्मिकाणां षड् भावनाः—एताश्चतस्रः, संवरभावना,
विभावनभावना च । इन्द्रियाणां पूर्वा¹ कायस्योत्तरा । "षडिमानीन्द्रियाणि
सुदान्तानि यावत्सुभावितानि तथा सन्त्यस्मिन् काये क्लेशाः" ( )
इति विस्तरः ।
ते तु प्रतिपक्षनिर्धावनभावनान्तर्भूते² इति काश्मीराः ।
अनागतानामेकेति । प्रतिलम्भभावना । प्रत्युत्पन्नानामुभे इति ।
प्रतिलम्भनिषेवणभावने ।
तदेवमिति विस्तरः । यस्मात् प्रतिलम्भनिषेवणभावने कुशलसंस्काग-
णामित्यविशेषेणोक्तम्, सास्रवाणामनास्रवाणां च । प्रतिपक्षविनिर्धावन-
भावने च सास्रवाणां धर्माणामित्यविशेषेणोक्तं क्लिष्टानामकॢिष्टानां च,
तस्मादेवमित्थं कुशलसास्रवाणां चतस्रो भावना भवन्ति । येषां भावना
इष्यन्ते कुशलत्वात् प्रतिलम्भनिषेवणभावने भवतः, सास्रवत्वाच्च प्रतिपक्ष-
विनिर्धावनभावने भवत इति ।
ये तर्हि न कुशलसास्रवाः, ये संस्कृताः, येऽनास्रवाः, ये च क्लिष्टा-
व्याकृताः, तेषां कति भावना इति ? आह—अनास्रवाणां द्वे इति । प्रतिलम्भ-
निषेवणभावने । क्लिष्टाव्याकृतानां च । किम् ? द्वे भावने भवतः ।
प्रतिपक्षविनिर्धावनभावने इति ।
इन्द्रियाणां पूर्वेति । चक्षुरादीनां संवरभावनेत्यर्थः । कायस्योत्तरेति ।
विभावनभावना । तत्पुनर्भावनाद्वयम् आगमेन यथाक्रमं दर्शयति—
षडिमानीन्द्रियाणीति विस्तरः । स पुनरिन्द्रियसंवरः स्मृतिसम्प्रजन्यस्वभाव
उक्तः । विभावनापि कायालम्बनस्य क्लेशस्य निर्धावनम् ।
ते त्विति विस्तरः । ते तु संवरविभावनभावने प्रतिपक्ष-निर्धावन-
भावनान्तर्भूते यथाक्रममुभयमुभयत्रान्तर्भूत मित्यपि न विरुध्यते ।
१. पूर्वो—का० ।
२ ०निर्धावभावना०—का।
निर्देशः ] सप्तमं कोशस्थानम् १०८३
सामान्येन सर्वेषां पुद्गलानां क्षयज्ञाने गुणभावनोक्ता ॥ २७ ॥
अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः ।
ये बुद्धस्यैव भगवतः क्षयज्ञाने भावनां गच्छन्ति, नान्यस्य । कतमे-
ऽष्टादश ? दश बलानि, चत्वारि वैशारद्यानि, त्रीणि स्मृत्युपस्थानानि,
सामान्येन सर्वेषामिति१ । श्रावक-प्रत्येकबुद्ध-सम्यक्सम्बुद्धानां
क्षयज्ञानक्षणे गुणभावनोक्ता, "सास्रवाश्च क्षयज्ञाने" (अभि० को० ७.२६)
इति वचनात् ॥ २७ ॥
दश बलानीति विस्तरः । एते बलाद्या महाकरुणान्ता अष्टादशा-
वेणिका वैभाषिकैर्व्यवस्थाप्यन्ते । बलादिव्यतिरिक्तान् केचिद् अन्यान्
अष्टादशावेणिकान् बुद्धधर्मान् वर्णयन्ति । तद्यथा—नास्ति तथागतस्य
स्खलितम्, नास्ति रवितम्, नास्ति द्रवता, नास्ति नानात्वसंज्ञा, नास्त्यव्याकृतं
मन , नास्त्यप्रतिसंख्यायोपेक्षा, नास्त्यतीतेषु प्रतिहतं ज्ञानदर्शनम्, नास्त्यनागतेषु
प्रतिहतं ज्ञानदर्शनम्, नास्ति प्रत्युत्पन्नेषु प्रतिहतं ज्ञानदर्शनम्, सर्वं कायकर्म
ज्ञानानुपरिवर्ति, सर्वं वाक्कर्म ज्ञानानुपरिवर्ति, सर्वं मनस्कर्म ज्ञानानुपरिवर्ति,
नास्ति छन्दहानि , नास्ति वीर्यहानिः, नास्ति स्मृतिहानिः, नास्ति
समाधिहानिः, नास्ति प्रज्ञाहानिः नास्ति विमुक्तज्ञानदर्शनहानिरिति ।
तत्र रवितं नाम महसा क्रिया । द्रवता = क्रीडाभिप्रायता । नानात्वसंज्ञा
सुखदुःखादुःखामुषेषु विषयेषु रागद्वेषमोहातो नानात्वसंज्ञा । शेषं सुगमम् ॥
दश बलानि--स्थानास्थानज्ञानबलम्, कर्मविपाकज्ञानबलम्, ध्यानविमोक्ष-
समाधिसमापत्तिज्ञानवलम्, इन्द्रियपरापरज्ञानवलम्, नानाधिमुक्तिज्ञानवलम्,
नानाधातुज्ञानबलम्, सर्वत्रगामिनीप्रतिपज्ज्ञानवलम्, पूर्वनिवासानुस्मृतिज्ञान-
बलम्, च्युत्युपपत्तिज्ञानवलम्, आस्रवक्षयज्ञानवलं च ।
सूत्रं तु—"दश आयुष्मन्तः तथागतबलानि । कतमानि दश ? इहा-
युष्मन्तः स्थानं च स्थानतो यथाभूतं प्रजानाति, अस्थानं चास्थानतः—इदं
प्रथमं तथागतबलम् । येन बलेन समन्वागतस्तथागतोऽर्हन् सम्यक्सम्बुद्धः
उदारमार्षभस्थानं प्रतिजानाति, ब्राह्मं चक्रं प्रवर्तयति, पर्षदि सम्यक्
सिंहनादं नदति । पुनरपरमायुष्मन्तस्तथागतोऽतीतानागतप्रत्युत्पन्नानि
कर्मधर्मसमादानानि स्थानतो हेतुतो वस्तुतो विपाकतश्च यथाभूतं प्रजानाति ।
यदायूष्मन्तस्तथागतः, पूर्ववत्, यावत् विपाकतश्च यथाभूतं प्रजानाति—इदं
१ सर्वस्वमिति—जा० ।
महाकरुणा च । असाधारणं हि आवेणिकमित्युच्यते । तत्र
द्वितीयं तथागतबलम् । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतो
ध्यानविमोक्षसमाधिसमापत्तीनां संक्लेश-व्यवदान-व्यवस्थान-विशुद्धिं यथाभूतं
प्रजानाति । यदायुष्मन्तस्तथागतः पूर्ववत् । इदं तृतीयं० । पुनरपरमायुष्मन्तस्त-
थागतः परसत्त्वानां परपुद्गलानामिन्द्रियपरापरतां यथाभूतं प्रजानाति । यदा-
युष्मन्तस्तथागतः पूर्ववत् —इदं चतुर्थं तथागतबलम् । येन बलेनेति पूर्ववत् ।
पुनरपरमायुष्मन्तस्तथागतो नानाविमुक्तिकं लोकमनेकविमुक्तिकमिति यथाभूतं
प्रजानाति । यदायुष्मन्तस्तथागतः पूर्ववत् । इदं पञ्चमं तथागतवलम् । येन
बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतो नानाधातुकं लोकमनेक-
धातुकमिति यथाभूतं प्रजानाति । यदायुष्मन्तस्तथागतः पूर्ववत् —इदं षष्ठं
तथागतबलम् । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतः सर्वत्र-
गामिनीं प्रतिपदं यथाभूतं प्रजानाति । यदायुष्मन्तस्तथागतः पूर्ववत् —इदं
सप्तमं तथागतबलम् । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतो-
ऽनेकविधं पूर्वनिवासमनुस्मरति, तद्यथा एकामपि जातिम्, द्वे, तिस्रः, चतस्रः,
पञ्च, षट्, सप्त, अष्ट, नव, दश, विंशति यावत् अनेकामपि संवर्तविवर्त-
कल्पामनुस्मरति—अमी नाम ते भवन्तः सत्त्वाः यत्राहमासम् एवंनामा, एवं-
जातीयः, एवंगोत्रः, एवमाहारः, एवंसुखदुःखप्रतिसंवेदी, एवं दीर्घायुः, एवं-
चिरस्थितिकः, एवमायुपर्यन्तः; सोऽहं तस्मात् स्थानाच्च्युतोऽमुत्रोपपन्नः,
तस्मादपि च्युत इहोपपन्नः—इति साकारं सनिदानं सोद्देशमनेकविधं पूर्व-
निवासमनुस्मरति । यदायुष्मन्तस्तथागतः पूर्ववत्--इदमष्टमं तथागतवलम् ।
येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतो दिव्येन चक्षुषा विशुद्धे-
नातिक्रान्तमानुष्यकेन सत्त्वान् पश्यति च्यवमानानप्युत्पद्यमानानपि, सुवर्णान्,
हीनान् दुर्वरणान्, प्रणीतान् सुगतिमपि गच्छतो दुर्गतिमपि गच्छतो यथाकर्मोपगान्
यथाभूतं प्रजानाति – अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः,
वाङ्मनोदुश्चरितेन समन्वागताः, आर्याणामपवादकाः मिथ्यादृष्टयो मिथ्या-
दृष्टिकर्म-धर्म-समादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परंमरणाद् अपाय-
दुर्गतिविनिपाते नरकेषूपपद्यन्ते । अमी पुनर्भवन्तः सत्त्वाः कायसुचरितेन
समन्वगताः वाङ्मनःसुचरितेन समन्वागताः आर्याणामनपवादकाः संयोग-
दृष्टयः संयोगदृष्टिकर्म-धर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्
सुगतौ स्वर्गलोके देवेषूपपद्यन्ते । यदायुष्मन्तस्तथागताः, पूर्ववत् —इदं नवमं
तथागतबलम् । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागत आंस्रवाणां
क्षयादनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयमभिज्ञाय
साक्षात्कृत्वोपसम्पद्य प्रतिवेदयते—क्षीणा मे जातिः, उषितं ब्रह्मचर्यम्, कृतं
निर्देशः ] सप्तमं कोशस्थानम् १०८५
स्थानास्थाने दश ज्ञानानि,
स्थानास्थानज्ञानबलं दश ज्ञानानि ।
अष्टौ कर्मफले,
कर्मविपाकज्ञानबलमष्टौ ज्ञानानि, निरोधमार्गज्ञाने हित्वा ।
नव ॥ २८ ॥
करणीयम्, नापरमस्माद् भवं प्रजानामोति । यदायुष्मन्तस्तथागतः पूर्ववत्—
इदं दशमं तथागतबलम् । येन वलेनेति पूर्ववत्" । ( )
“स्थानास्थाने दश ज्ञानानि" इति । स्थानं चास्थानं च
स्थानास्थानम्, तत्र ज्ञानमेव वलं ज्ञानवलम् । तद् दश ज्ञानानि दश-
ज्ञानस्वभावमित्यर्थः । कथं कृत्वा ? स्थानास्थानं समासेन संस्कृतं चासंस्कृतं
च । तदपि संस्कृतमष्टधा भेत्तव्यम्—कामरूपारूप्यावचरानास्रवाणां सम्प्रयुक्त-
विप्रयुक्तभेदात् । तत्र संवृतिज्ञानवलस्य दशापि धर्मा विषयः । दशस्वपि
धर्मेषु तस्य वृत्तेरित्यर्थः । धर्मज्ञानस्य पञ्च, कामावचरानस्रवाश्चत्वारः
कुशलं चासंस्कृतम् । अन्वयज्ञानस्य सप्त, रूपारूप्यानास्रवाः षट् कुशलं
चासंस्कृतम् । दुःखसमुदय-ज्ञानयोः षट् कामरूपारूप्यावचराः । निरोध-
ज्ञानस्यैकः कुशलमेवासंस्कृतम् । मार्गज्ञानस्य द्वावनास्रवौ । परचित्तज्ञानस्य
त्रयः कामरूपावचरानास्रवाः सम्प्रयुक्ताः । क्षयानुत्पादज्ञानयोर्नव धर्माः
विषयः, अव्याकृतमसंस्कृतं मुक्त्वा । एवं कृत्वा स्थानास्थानज्ञानवलं
दशज्ञानानि ।
कथं पुनर्द्दश धर्माः स्थानास्थानमित्युच्यते ? सम्भवः स्थानम्,
असम्भवोऽस्थानमिति । अथवा 'अस्थानमनवकाशो यत्१ स्त्री बुद्धत्वं
कारयिष्यति, स्थानमेतद् यत् पुरुषः' इति । 'अस्थानमवकाशो यत्१ स्त्री
ब्रह्मत्वं कारयिष्यति, स्थानमेतद् यः पुरुषः' इति । तथा 'स्थानमेतद् यत्
दुःखस्य निरोधः' इति । एवमाद्याकारप्रवृत्तं स्थानास्थानज्ञानवलम-
वगन्तव्यम् ।
“अष्टौ कर्मफले" इति । कर्मणः सास्रवस्य तद्विपाकस्य च दुःख-
समुदय-सत्यसंगृहीतत्वात् । निरोधमार्गज्ञाने न भवत इति । अतोऽन्यानि
तदालम्बनानि अष्टौ ज्ञानानि सम्भवन्ति ॥ २८ ॥
१. यः—जा० ।
१०८६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
ध्यानाध्यक्षाधिमोक्षेषु, धातौ च,
ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नव ज्ञानानि, निरोधज्ञानं
हित्वा । एवमिन्द्रियपरापरज्ञानबलं वेदितव्यम् ।
प्रतिपत्सु तु ।
दश वा,
'नव वा' इति मतविकल्पार्थो वाशब्दः । यदि सफला प्रतिपद् गृह्यते,
सर्वत्रगामिनीप्रतिपज्ज्ञानबलं दश ज्ञानानि । न चेत्, नव; अन्यत्र
निरोधज्ञानात् ।
“ध्यानाध्यक्षाधिमोक्षेषु” इति विस्तरः । ध्यानमादिरासामिति ।
ध्यानादयो ध्यानविमोक्ष-समाधिसमापत्तयः । ध्यानानि चत्वारि, विमोक्षा
अष्टौ, समाधयस्त्रयः शून्यतादयः । समापत्ती द्वे — असञ्जि-निरोधसमापत्ती ।
नवानुपूर्वविहारसमापत्तयः । अक्षाणि = इन्द्रियाणि । अधिमोक्षश्चैतसिकः ।
ध्यानादयश्चाक्षाणि चाधिमोक्षश्चेति द्वन्द्वः । तेषु नव ज्ञानानि, निरोध-
ज्ञानं हित्वा । कथं कृत्वा ? ध्यानादीनां सास्रवानास्रवसम्प्रयुक्तविप्रयुक्तभेदात्
तदालम्बनानि नव ज्ञानानि सम्भवन्ति । निरोधज्ञानं तु न भवति ।
तेषां संस्कृतत्वात् । इन्द्रियेष्वपि श्रद्धादिषु यत्प्रधानाप्रधानज्ञानं मृदु-
मध्याधिमात्रेन्द्रियभेदेन । तत् परापरज्ञानबलम् । तेष्वपि सास्रवानास्रव-
भेदाभिन्नेषु नवज्ञानानि सम्भवन्ति, निरोधज्ञानं हित्वा । प्रधानादिषु रुचयो
नानाधिमुक्तयः । ताः पुनः सास्रवानास्रवास्त्रैधातुकाश्च तदालम्बनत्वात्
निरोधज्ञानं हित्वा । एवं नानाधातुज्ञानबलम् । तत्र हि धातुः पूर्वाभ्यास-
वासनासमुद्गतः आश्रयो धातुः — इत्याचार्यसङ्घभद्रः । स पुनस्त एव
चित्तचैत्ताः विशिष्टाः । तेषां तथैव सास्रवानास्रवभेदभिन्नानां निरोधज्ञानं
हित्वा नव ज्ञानानि भवन्तीति पूर्ववत् योज्यम् ।
“प्रतिपत्सु” इति विस्तरः । बह्व्योऽत्र प्रतिपदो नरकादिगामिन्यः ।
नरकगामिनी प्रतिपत्, यावत्, देवगामिनी, निरोधगामिनी च । तत्र या
नरकादिगामिन्यः प्रतिपदः, ता हेतुः । प्रतिपद्यन्ते ताभिरिति कृत्वा ।
मार्गो हि प्रतिपद् उच्यते, तेन हि विसंयोगः प्रतिपद्यते । निरोधस्तु कथम् ?
स चापि प्रतिपद् । प्रतिपद्यते तमिति कृत्वा । प्रतिपत्फलं वा प्रतिपदित्युच्यते ।
अत एवाह — यदि सफला प्रतिपद् गृह्यत इति । हेतुर्हि सर्वत्रगामिनो
प्रतिपदिहेष्यते । तथा हि व्याचक्षते — सर्वत्रगामिनीप्रतिपज्ज्ञानबलमिति ।
निर्देशः ] सप्तमं कोशस्थानम् १०८७
संवृतिज्ञानं द्वयोः,
पूर्वनिवासानुस्मृतिज्ञानबलं च्युत्युपपत्तिज्ञानबलं च संवृतिज्ञानम् ।
षट् दश वा क्षये ॥ २९ ॥
आस्रवक्षयज्ञानबलं षड् ज्ञानानि धर्मान्वयनिरोधक्षयानुत्पादसंवृति-
ज्ञानानि । यदि निरोधज्ञानमेव आस्रवक्षयज्ञानम् ।
अथ क्षीणास्रवसंताने ज्ञानमास्रवक्षयज्ञानम्, ततो दश
ज्ञानानि ॥ २९ ॥
उक्तः स्वभावः ।।
भूमिरिदानीमुच्यते—
प्राङ्निवासच्युतोत्पादबलध्यानेषु¹,
च्युतिरेव च्युतम् । पूर्वनिवासच्युत्युपत्तिज्ञानं बलं चतुर्ध्यान-
भूमिकम् ।
शेषितम् ।
सर्वभूमिषु,
शेषं बलं सर्वभूमिसंगृहीतम् । ताः पुनरेकादश । कामधातुरनागम्य-
ध्यानान्तरं ध्यानान्यरूपाश्च । सर्वाणि जम्बूद्वीपपुरुषाश्रयाणि; अन्यत्र
नन्गायसमुदयगामिनीत्यर्थ इति । तत्र सत्कायः पञ्चोपादानस्कन्धाः ।
समुदय उत्पाद इहाभिप्रेतः । "एवमस्य केवलस्य महतो दुःखस्कन्धस्य
समुदयो भवति" इति वचनात् । सत्कायनिरोधः = विसंयोगः । तत्र सर्वत्र-
गन्तुं शीलमस्या इति सर्वत्रगामिनी, सर्वत्रगामिनी चासौ प्रतिपच्च सर्वत्र-
गामिनी प्रतिपत् । तत् ज्ञानम्, तदेव च बलमिति सर्वत्रगामिनीप्रतिपज्ज्ञान-
बलम् । तद् दश ज्ञानानि योज्यानि ।
यदि निरोधज्ञानमेवास्रवक्षयज्ञानमिति । आस्रवाणां क्षये निरोधे
ज्ञानम् । आस्रवनिरोधालम्बनं ज्ञानमित्यर्थः । एवं सति षड् ज्ञानानि
भवन्ति । निरोधज्ञानजातिरेव धर्मज्ञानादिभेदभेदिनी कृत्वा ।
अथ क्षीणास्रवसन्तान इति । आस्रवक्षये सति यज्ज्ञानं तदास्रव-
क्षयज्ञानमित्यर्थः । क्षीणास्रवसन्ताने सर्वाणि ज्ञानानि समुदाचरन्तीति
दश ज्ञानानि भवन्ति ॥ २६ ॥
१. प्राङ्निवस०—का० ।
बुद्धानुत्पादात् । तदेव¹ दशविधं ज्ञानमन्यस्य बलं नोच्यते । बुद्धस्यैव
बलमिति ।
केनास्य बलमव्याहतं यतः ॥ ३० ॥
यस्मादस्य सर्वत्र ज्ञेये ज्ञानमव्याहतं वर्तते, तस्माद् बलम् । अन्येषां तु
व्याहन्यते । ज्ञानं क्वचिदिच्छतामप्यप्रवृत्तेरिति नार्हति तद्बलाख्यां
लब्धुम् । स्थविरशारिपुत्रेण प्रव्रजनप्रेक्षपुरुषप्रत्याख्यानम्², श्येनोपद्रुतस्य
पक्षिण उपपत्त्यादिपर्यन्ताज्ञानं चात्रोदाहरणम् । एवं तावदव्याहतज्ञानत्वाद्
बुद्धानां ज्ञेयवदनन्तं मानसं बलम् ॥ ३० ॥
अन्यत्र बुद्धानुत्पादादिति । जम्बूद्वीपादन्यत्र बुद्धानुत्पाद इति
जम्बूद्वीपपुरुषाश्रयाणि दश बलानि बुद्धाश्रयोत्पत्तेरित्यभिप्रायः ।
तदेव दशविधज्ञानमन्यस्य बलं नोच्यत इति । अन्यस्यापि एतदस्ति,
न तु बलम्; व्याहतत्वात् । यत्त्वव्याहतं तद् बलम् । आवेणिक इत्यभिप्रायः ।
प्रव्रजनप्रेक्ष-पुरुषप्रत्याख्यानमिति विस्तरः । प्रव्रजनम् = प्रव्रज्या प्रेक्ष्यते
प्रव्रज्याप्रेक्षः । तस्य प्रव्रजनप्रेक्षस्य पुरुषस्य प्रत्याख्यानं प्रव्रजनप्रेक्षपुरुष-
प्रत्याख्यानम् । तदुदाहरणम् । यथा अन्यस्य व्याहन्यते ज्ञानं इति ।
आर्यशारिपुत्रेण किल कस्यचित् प्रव्रज्याप्रेक्षस्य पुरुषस्य मोक्षभागीय॑
कुशलमूलं व्यवलोकयता न दृष्टमिति प्रत्याख्यातः । न प्रव्रजित इत्यर्थः ।
भगवता तु दृष्टम्, प्रव्रजितश्च । तं चाधिकृत्य भिक्षुभिः पृष्टेन भगवतोक्तम्—
“अनेनैवेदं कर्म कृतम्, यदर्हत्त्वं प्राप्तः । नहि कर्माणि पृथिवीधातौ विपच्यन्ते,
नाब्धातौ, न तेजोधातौ, न वायुधातौ । अपि तूपान्तेष्वेव स्कन्ध-धात्वायत-
नेषु” इति विस्तरः । इदं चोक्तम्—
“मोक्षबोजमहं ह्यस्य स्वसूक्ष्ममुपलक्षये ।
धातुपाषाणविवरे निलीनमिव काञ्चनम् ॥” ( ) इति ।
उपपत्त्यादिपर्यन्ताज्ञानं चेति । आदि-शब्देन च्युतिपर्यन्ता-
ज्ञानम् ॥ ३० ॥
——————————————————————————
१. तदेतद्—का० ।
२. प्रव्रज्यापेक्ष०—का० ।
निर्देशः ] सप्तमं कोशस्थानम् १०८६
नारायणं¹ बलं¹ काये,
काये पुनर्बुद्धस्य नारायणं बलं वर्णयंति ।
सन्धिष्वन्ये,
सन्धौ सन्धौ नारायणबलमित्यपरे ।
मानसवत् कायिकमप्यस्यानन्तं बलमिति भदन्तः । अन्यथा ह्यनन्त-
ज्ञानबलसहिष्णुर्न स्यादिति । नागग्रन्थि-शृङ्खला-शङ्कुसन्धयश्च बुद्ध-
प्रत्येकबुद्ध-चक्रवर्तिनः ।
किं पुनर्नारायणस्य बलस्य प्रमाणम् ?
दशाधिकम् ।
हस्त्यादिसप्तकबलम्,
यदशानां प्राकृतहस्तिनां बलं तदेकस्य गन्धहस्तिनः । एवं महानग्न-
प्रस्कन्दिवराङ्गचाणूरनारायणानां² दशोत्तरवृद्धिर्वक्तव्या । प्राकृतगन्ध-
नारायणं बलमिति । बलस्येयं संज्ञा 'नारायणम्' इति । यस्य च तद्
बलम् असावपि 'नारायण' इत्युच्यते; चाणूरमहाङ्गत्वात् । भदन्त इति ।
दाष्टर्न्तिकस्थविरः । अन्यथा हीति । यदि मानसवत् कायिकबलं नेष्यते,
अनन्तस्य ज्ञानबलस्य सहिष्णुर्न स्यात् । सहनशीलो भगवान् न भवेदित्यर्थः ।
“सन्धिष्वन्ये” इत्युक्तम्, अस्थिसन्धिविशेषोपन्यासः । नागग्रन्थिरिति
विस्तरः । नागग्रन्थिसन्धयो बुद्धाः । नागपाशो नागग्रन्थिः । शृङ्खलासन्धयः
प्रत्येकबुद्धाः । शङ्कुसन्धयश्चक्रवर्तिनः ।
“दशाधिकं हस्त्यादिसप्तकबलम्” इति । हस्ति-गन्धहस्ति-महानग्न-
प्रस्कन्दि-वराङ्ग-चाणूर-नारायणानां सप्तकं तस्य बलं दशभिरधिकम्, दशभ्यो
वाधिकम् । कथम् ? इत्याह—यद् दशानां प्राकृतहस्तिनां सामान्यहस्तिनां
बलं तदेकस्य गन्धहस्तिनो बलम् । एवं यद् दशानां गन्धहस्तिनां बलं
१-१. नारायणबल — का० । २. ०चाणूर०—का० ।
१०६० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ ज्ञान-
हस्ति-महानग्नप्रस्कन्दिनां दशोत्तरवृद्धयार्धनारायणबलं¹ तद् द्विगुणं नारायण-
मित्यपरे । यथा तु बहुतरं तथा योज्यम् ।
स्प्रष्टव्यायतनं च तत् ॥ ३१ ॥
तच्चैतत् कायिकं बलं सर्वस्यैव स्प्रष्टव्यायतनस्वभावं महाभूतविशेष
एव । ²उपादायरूपसप्तभ्योऽर्थान्तरमित्यपरे ॥ ३१ ॥
उक्तानि बलानि ॥
वैशारद्यं चतुर्धा तु,
यथासूत्रमेव³ ।
एतानि पुनश्चत्वारि वैशारद्यानि
यथाद्यदशमे बले ।
तदेकस्य महानग्नस्य बलम् । यावद् यद् दशानां चाणूराणां बलं तदेकस्य
नारायणस्य बलमिति ।
दशोत्तरवृद्धिनागः । दशोत्तरवृद्ध्यार्धनारायणबलमिति । आदि-
तस्तथैव प्रक्रम्य यद्दशानां प्रस्कन्दिनां बलं तदर्धनारायणम् । तद् द्विगुणं
नारायणमिति ।
यथा तु बहुतरं तथा योज्यमित्याचार्यः । पूर्वकमेव पक्षं समर्थयति ।
अन्यथा ह्यनन्तज्ञानबलसहिष्णु न स्यादिति तदेव कारणम् । देवदत्तहतहस्ति-
पादांगुष्ठसप्तप्राकारपरिखाक्षेपश्चान्यथा न स्यादिति ।
महाभूतविशेष एवेति । महाभूतविशेषस्वभावं बलं न भौतिकमिति
दर्शयति ।
उपादायरूपसप्तभ्योऽर्थान्तरमिति । श्लक्ष्णत्वादिभ्यः पूर्वोक्तेभ्योऽन्यदेव
बलं नामोपादायरूपमित्यपरे ॥ ३१ ॥
यथासूत्रमेवेति । "चत्वारीमानि सारिपुत्र तथागतस्य वैशारद्यानि ।
यैर्वैशारद्यैः समन्वगतस्तथागतोऽर्हन् सम्यक्सम्बुद्धः उदारमर्षभं स्थानं
१. ०नारायणं बलं—क.० । २. उपादायरूपं०—का० ।
३. यथासूत्रम्—का० ।
निर्देशः ] , सप्तमं कोशस्थानम् १०६१
द्वितीयसप्तमे चैव,
यथा स्थानास्थानज्ञानबलम्, एवं "सम्यक्सम्बुद्धस्य बत मे सतः" इत्येत-
द्वै शारद्यं वेदितव्यम् । यथास्रवक्षयज्ञानबलम्, एवं "क्षीणास्रवस्य बत मे सतः"
इत्येतद्वैशारद्यम् । यथा कर्मस्वकज्ञानवलम्, एवं "ये वा पुनर्मया श्रावका-
णामन्तरायिका धर्मा आख्याताः" इत्येतद्वैशारद्यम् । यथा सर्वत्रगामिनी
प्रतिजानाति, ब्राह्मं १ चक्रं प्रवर्तयति, पर्षदि सम्यक् सिंहनादं नदति ।
कतमानि चत्तारि ? सम्यक्सम्बुद्धस्य वत मे सतो धर्मा अनभिसम्बुद्धा
इत्यत्र मां कश्चिच्छ्रमणो वा ब्राह्मणो वा सह धर्मेण चोदयेत्, स्मारयेत्,
तत्राहं निमित्तमपि ने म्नुपश्यामि । एवं चाहं निमित्तमसमनुपश्यन् क्षेम-
प्राप्तश्च विहरामि, अभयप्राप्तश्च, वैशारद्यप्राप्तश्च उदारम् आर्षभं स्थानं
प्रतिजानामि, ब्राह्मं' चक्रं प्रवर्तयामि, पर्षदि सम्यक् सिंहनादं नदामि—इदं
प्रथमं वैशारद्यम् । 'क्षीणास्रवस्य वत मे सत इमे आस्रवा अपरिहीणाः'
इत्यत्र मां कश्चिदिति पूर्ववत् यावत्, पर्षदि सम्यक् सिंहनादं नदामि—इदं
द्वितीयं वैशारद्यम् । ये वा पुनर्मया श्रावकाणामान्तरायिका धर्मा आख्याताः,
तान् प्रतिसेवमानस्य नालमन्तरायायेति अत्र मां कश्चित् इति पूर्ववत्—इदं
तृतीयं वैशारद्यम् । यो वा पुनर्मया श्रावकाणां मार्ग आख्यातः आर्यो
नैर्याणिको नैर्वेधिको निर्याति तत्करं स्य सम्यग्दुःखक्षयस्य दुःखस्यान्तक्रियायै
स न निर्यास्यतीत्यत्र मां कश्चिदिति पूर्ववत्—इदं चतुर्थं वैशारद्यम्" इति ।
यथा स्थानास्थानज्ञानबलमिति विस्तरः । यथा स्थानास्थान-
ज्ञानबलं दश ज्ञानानि, सर्वभूमिसंगृहीतं च; एवं 'सम्यक्सम्बुद्धस्य वत मे सतः'
इत्येतद् वैशारद्यम् । तथैव दशधा धर्माणां भेदं कृत्वा योज्यम् । यथास्रवक्षय-
ज्ञानबलम् । षट् दश वा ज्ञानानि दशभूमिसंगृहीतं च । एवं क्षीणास्रवस्येति
द्वितीयं वैशारद्यम् । अत्रापि तथैव धर्माणां भेदं कृत्वा षट् दश वा ज्ञानानि
योज्यम् । यथा कर्मस्वकज्ञानबलमष्टौ ज्ञानानि, निरोध-मार्गज्ञाने हित्वा,
सर्वभूमिकसंगृहीतं च । एवं ये वा पुनर्मया श्रावकाणामान्तरायिका इति
विस्तरेण तृतीयं वैशारद्यम् । अत्रापि तथैव धर्माणां भेदं कृत्वा दुःख-
समुदयसत्यसंगृहीता एवान्तरायिकाः, न निरोधमार्गसंगृहीता इत्यष्टौ
ज्ञानानि योज्यम् । यथा सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् दश ज्ञानानि नव वा
सर्वभूमिसंगृहीत॑ च । एवं यो वा मया श्रावकाणां निर्याणाय मार्ग आख्यातः—
इत्येतद्वैशारद्यम् ।
१. ब्राह्मम्यं—जा० ।
१०६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
प्रतिपज्ज्ञानं बलम्, एवं "यो वा पुनर्मया श्रावकाणां निर्याणाय मार्ग आख्यातः"
इत्येतद्वैशारद्यं वेदितव्यम् ।
कथं ज्ञानमेव वैशारद्यम् ? निर्भयता हि वैशारद्यम् । एभिश्च
ज्ञानैर्निर्भयो भवति । ज्ञानकृतं तु¹ वैशारद्यं युज्यते, न ज्ञानमेव ।
त्रीणि स्मृत्युपस्थानानि पर्षद्भेदात् भवन्ति यथाश्रुतम्² । तत्त्वेतत्
असफलतद्ग्रहणातो वा नवेति योज्यम् ।
निर्भयता हि वैशारद्यम् । एभिश्च ज्ञानैर्निर्भयो भवतीति ज्ञानानि
वैशारद्यमिति वैभाषिकाः ।
आचार्य आह—ज्ञानकृतं तु वैशारद्यम्, न ज्ञानमेवेति । अथवा आचार्य-
वचनमेवैतत् सर्वम् । निर्भयता हि वैशारद्यम् । तथा हि तद्भयप्रतिपक्षो
धर्मश्चैतसिकः । भयमपि चैतसिको धर्म इति । एभिश्च ज्ञानैर्हेतुभूतैर्निर्भयो
भवतीति तत् कथं ज्ञानमेव वैशारद्यम् ! ज्ञानकृतं तु वैशारद्यं युज्यते,
न ज्ञानमेवेति ।
यथाश्रुतमिति । "त्रीणीमानि भिक्षवः स्मृत्युपस्थानानि ।
यानार्यः सेवते, यानार्यः सेवमानोऽर्हति गुणमनुशासितुम् । कतमानि
त्रीणि ? इह भिक्षवः शास्ता श्रावकाणां धर्मं देशयति, अनुकम्पकः
कारुणिकोऽर्थकामो हितैषी करुणायमानः—'इदं वो हिताय, इदं वः सुखाय,
इदं वो हितसुखाय' । तस्य मे श्रावकाः शुश्रूषन्ते, श्रोत्रमवदधति,
आज्ञाचित्तमुपस्थापयन्ति, प्रतिपद्यन्ते धर्मस्यानुधर्मं प्रति । न व्यतिक्रम्य
वर्तन्ते शास्तुः शासने । तेन तथागतस्य न नन्दी भवति, न सौमनस्यम्, न
चेतस उत्प्लावितत्वम् । उपेक्षकस्तत्र तथागतो विहरति स्मृतः सम्प्रजानन् ।
इदं प्रथमं स्मृत्युपस्थानम् । यदार्यः सेवते, यदार्यः सेवमानोऽर्हति गुण-
मनुशासितुम् ।
"पुनरपरं शास्ता धर्मं देशयति पूर्ववत्, तस्य श्रावका न शुश्रूषन्ते, न
श्रोत्रमवदधति, नाज्ञाचित्तमुपस्थापयन्ति, न प्रतिपद्यन्ते धर्मस्यानुधर्मम् ।
व्यतिक्रम्य वर्तन्ते शास्तुः शासने । तेन तथागतस्य नाघातो भवति, नाक्षान्तिः,
नाप्रत्ययः, न चेतसोऽनभिराद्धिः । उपेक्षकस्तत्र तथागतो विहरति स्मृतः
सम्प्रजानन्—इदं द्वितीयं स्मृत्युपस्थानम् । यदार्यः सेवते, यदार्यः सेवमानोऽर्हति
गुणमनुशासितुम् ।
१. का० पुस्तके नास्ति । २. यथासूत्रम्—क० ।
निर्देशः ] सप्तमं कोशस्थानम् १०६३
स्मृतिप्रज्ञात्मकं त्रयम् ॥ ३२ ॥
स्मृतिसम्प्रजन्यस्वभावान्येतानि¹ त्रीणि स्मृत्युपस्थानानि । यदा
श्रावकस्यापि शुश्रूषमाणाशुश्रूषमाणोभयेषु नन्दी² न भवति, आघातो वा ।
कस्मादेते आवेणिका बुद्धधर्मा उच्यन्ते ? सवासनप्रहाणात् । अथवा
यस्य श्रावकास्तस्य तच्छुश्रूषमाणाशुश्रूषमाणोभयेषु सौमनस्याद्यवकाशः
सुतरां न तथाऽन्येस्येति तस्यैव तदनुत्पादादाश्चर्यं व्यवस्थाप्यते,
नान्यस्येति ॥ ३२ ॥
महाकरुणेदानीं वक्तव्या, सेयमुच्यत-
महाकृपा संवृतिधीः,
“पुनरपरं भिक्षवः यावच्छासने । तत्र तथागतस्य न नन्दी भवति, न
सौमनस्यम्, न चेतस उत्प्लावितत्वम् । नाघातो नाक्षान्तिः नाप्रत्ययो न
चेतसोऽनभिराद्धिः । उपेक्षकस्तत्र तथागतो विहरति स्मृतः सम्प्रजानन्—
इदं तृतीयं स्मृत्युपस्थानम् । यदार्यः सेवते यदार्यः सेवमानोऽर्हति गुण-
मनुशासितुम्” इति । ( )
स्मृतिसम्प्रजन्यमिति । उभयस्वभावमिति दर्शयति । ‘स्मृतः सम्प्र-
जानन्’ इति वचनात् । यदा श्रावकस्यापीति विस्तरः । यदा श्रावकस्यापि
हीनक्लेशस्य शुश्रूषमाणेषु च शिष्येषु अशुश्रूषमाणेषु च उभयेषु च
शुश्रूषमाणाशुश्रूषमाणेषु च । नन्दी अनुनयो न भवति आघातो वा
द्वेषो वा ।
कस्मादेते आवेणिका असाधारणा बुद्धधर्मा उच्यन्ते । सवासना-
प्रहाणादिति । सवासनानां नन्द्यादीनां³ प्रहाणात् । का पुनरियं वासना
नाम श्रावकाणाम् ? यो हि यत्क्लेशचरितः पूर्वम् तस्य तत्कृतः काय-
वाक्चेष्टाविकारहेतुसामर्थ्यविशेषश्चित्ते वासनेत्युच्यते । ‘अव्याकृतश्चित्त-
विशेषो वासना’ इति भदन्तान्तवर्मा ।
अथवेति विस्तरेणाचार्यः । यस्य श्रावकाः बुद्धस्य भगवतः श्रावकाः
भवन्ति नान्यस्य । किं कारणम् ? सर्वे हि श्रावकाः बुद्धमुद्दिश्य प्रव्रजिता
१. स्मृतिसम्प्रज्ञान ०—का० । २. ०ष्व,नन्दी—का० ।
३. आनन्द्या०—जा० ।
संवृतिज्ञानात्मिका महाकरुणा । अन्यथा हि न सर्वसत्त्वालम्बना
सिद्ध्येत्, न च त्रिदुःखताकारा, करुणावत् ।
कस्मादियं महाकरुणेत्युच्यते ?
सम्भाराकारगोचरैः ।
समत्वादाधिमात्राच्च,
सम्भारेण महापुण्यज्ञानसम्भारसमुदागमात् । आकारेण त्रिदुःखता-
करणात् । आलम्बनेन त्रैधातुकासत्त्वालम्बनात् १ । समत्वेन सर्वसत्त्वेषु
समवृत्तित्वात् । अधिमात्रत्वेन ततोऽधिमात्रतराभावात् ।
इति । तेषां श्रावकाणां शुश्रूषमाणे चाशुश्रूषमाणे चोभयस्मिंश्च शुश्रूषमाणा-
शुश्रूषमाणेषु उभयेषु तस्यैव श्रावकवतस्तदनुत्पादः । नन्द्याघातानुत्पादः ।
आश्चर्यम् अद्भुतं व्यवस्थाप्यते, नान्यस्य श्रावकस्येत्यर्थः ॥ ३२ ॥
अन्यथा हीति विस्तरः । यदि संवृतिज्ञानस्वभावा न स्याद्
अद्वेषस्वभावा स्यात्, करुणावत् । न सर्वसत्त्वालम्बना सिद्ध्येत् । न
त्रैधातुकसत्त्वालम्बना, सिद्ध्येदित्यर्थः । यथा करुणा न त्रैधातुक-
सत्त्वालम्बना, किं तर्हि ? कामावचरसत्त्वालम्बना; दुःखितसत्त्वा-
लम्बनत्वाद् एवं सिद्धं स्यादित्यभिप्रायः । न च त्रिदुःखाकारा । सिद्ध्येदिति
वर्तते । करुणावत् । यथा करुणा दुःखताकारैव, न त्रिदुःखताकारा—दुःख-
दुःखता-संस्कार- तथा न स्यात् । इष्यते च
त्रिदुःखताकारेति । अथ संवृतिज्ञान स्वभावेति ।
निर्देशः ] सप्तमं कोशस्थानम् १०६५
करुणामहाकरुणयोः किं नानाकरणम् ?
नानाकरणमष्टधा ॥ ३३ ॥
स्वभावतः; अद्वेषामोहस्वभावत्वात् । आकारतः; एकत्रिदुःखताकार-
त्वात् । आलम्बनतः; एकत्रैधात्वालम्बनत्वात् । भूमितः; चतुर्ध्यानचतुर्थ-
ध्यानभूमिकत्वात् । सन्तानतः; श्रावकादिबुद्धसन्तानजत्वात् । लाभतः;
कामभवाग्रवैराग्यलभ्यत्वात्१ । अपरत्राणापरित्राणतः; अतुल्यतुल्यकरणा-
यनाच्च ॥ ३३ ॥
करोतीति महाकरुणा । आकारेण त्रिदुःखताकरणात् । यस्मात् तिसृ-
भिरपि दुःखताभिराकारयति, न दुःखदुःखतयैव, करुणावत् । आलम्बनेन
त्रैधातुकसत्त्वालम्बनत्वात् । यस्मात् त्रैधातुकोपपन्नान् सत्त्वान् आलम्बते,
न च कामधातुपपन्नानेव, करुणावत् । "कामसत्त्वास्तु गोचर" इति
वचनात् ।
समत्वेन सर्वसत्त्वेषु समवृत्तित्वात् । यस्मात् सर्वसत्त्वेषु त्रैधातुकपर्या-
पन्नेषु समं वर्तते संस्कारदुःखताकारेण, अतोऽपि महाकरुणेत्युच्यते ।
ततोऽधिमात्रतराभावादिति । प्रज्ञास्वभावतया तीक्ष्णतरत्वात् । यथा हि
तया करुणायते, न तथा करुणयेति ।
नानाकरणम् विशेषः ।
अद्वेषामोहस्वभावत्वादिति । यथाक्रमं करुणाया अद्वेषस्वभावत्वात्,
महाकरुणायाश्चामोहस्वभावत्वादित्यर्थः । एकत्रिदुःखताकारत्वादिति ।
एकदुःखताकारत्वात् करुणायाः, त्रिदुःखताकारत्वाच्च महाकरुणायाः—
इत्युभयत्रापि सर्वत्र यथासंख्येन योजयितव्यम् ।
चतुर्ध्यानचतुर्थध्यानभूमिकत्वादिति । करुणा चतुर्ध्यानभूमिका ।
अनागम्यध्यानान्तरयोः प्रथमध्यानाहरणेन ग्रहणात् षड्भूमिकेत्युक्तम् । महा-
करुणा तु चतुर्थध्यानभूमिकैव, सर्वसमाधिकर्मण्यत्वेन तस्यैव तदुत्पादन-
समर्थत्वात् । श्रावकादिबुद्धसन्तानजत्वादिति । आदिशब्देन प्रत्येकबुद्ध-
पृथग्जनानां ग्रहणम् । कामभवाग्रवैराग्यलब्धत्वादिति । कामवैराग्यलभ्या
करुणा । भवाग्रवैराग्यलभ्या महाकरुणा । अपरत्राणपरित्राणत इति ।
करुणया श्रावकादयः करुणायन्त एव । केवलमनुग्लायन्त्येवेत्यर्थः । न
संसारभयात् परित्रायन्ते२ । अतुल्यतुल्यकरणायनात् । करुणया अतुल्यं
करुणायते; दुःखितानामेव करुणायनात् । महाकरुणया तु तुल्यम्;
सर्वसत्त्वसमकरणायनात् ॥ ३३ ॥
१. कामधातुभवा०—का० । २. परित्रायते—जा० ।
अभि० को० ४ : ५
१०६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
किं पुनः सर्वे बुद्धाः सर्वप्रकारसामान्या भवन्ति ? नेत्याह ।
सम्भारधर्मकायाभ्यां जगतश्चार्थचर्यया ।
समता सर्वबुद्धानाम् , नायुर्ज्ञातिप्रमाणतः ॥ ३४ ॥
त्रिभिः कारणैः साम्यं सर्वबुद्धानाम्—१. पूर्वपुण्यज्ञानसम्भारसमुदा-
गमतः१, २. धर्मकायपरिनिष्पत्तितः, ३. अर्थचर्यया च लोकस्य ।
आयुर्जातिगोत्रप्रमाणकृतस्तु भेदो भवति । चिराल्पजीवनात्२,
क्षत्रियब्राह्मणजातिभेदात्, काश्यपगौतमादिगोत्रभेदात्, अल्पानल्पप्रमाण-
भेदाच्च यथाकालमिति ।
एतामेव च त्रिविधां सम्पदं मनसिकुर्वाणेन विदुषा शक्यं बुद्धानां
भगवतामन्तिके तीव्रप्रेम गौरवं चोत्पादयितुं यदुत हेतुसम्पदम्, फलसम्पदम्,
उपकारसम्पदं च ।
तत्र चतुर्धा हेतुसम्पत्—सर्वगुणज्ञानसम्भाराभ्यासः३, दीर्घकाला-
भ्यासः, निरन्तराभ्यासः, सत्कृत्याभ्यासश्च ।
पूर्वपुण्यज्ञानसम्भारसमुदागमत इति । पूर्वेषु ज्ञानेषु पुण्यसम्भारेण,
पूर्वोक्तेन ज्ञानसम्भारेण च समुदागमतः । धर्मकायपरिनिष्पत्तित इति ।
अनास्रवधर्मसम्भारसन्तानो धर्मकायः । आश्रयपरिवृत्तिर्वा । अर्थचर्यया
चेति । स्वर्गापवर्गकारणम् अर्थो लोकस्य, तस्य सम्पादनम् = अर्थचर्या ।
तुल्या हि सर्वेषां बुद्धानां महाकरुणा परार्थहेतुः । यथाकालमिति । सर्वत्रा-
भिसम्बध्यते । कथम् ? चिराल्पजीवनाद् यथाक्रमं दीर्घायुषि प्रजायां
दीर्घायुषो बुद्धा भवंति, अल्पायुषि अल्पायुषः । यथासम्भवं क्षत्रियगुरुके
लोके क्षत्रिया भवन्ति, ब्राह्मणगुरुके ब्राह्मणाः । यथाकालमेव च काश्यपादि-
गोत्राः । गौतमगोत्राश्च । तथाल्पप्रमाणे लोके अल्पप्रमाणाः, अनल्पप्रमाणौ
अनल्पप्रमाणा इति ।
हेतुसम्पदम् । पुण्यज्ञानसम्भारलक्षणाम् । फलसम्पदम् धर्मकाय-
लक्षणाम् । उपकारसम्पदम् जगदर्थचर्यालक्षणाम् । सर्वगुणज्ञानसम्भाराभ्यास
इति गुणाः पञ्चपारमितास्वभावाः । ज्ञानानि४ च प्रज्ञापारमितास्वभावानि ।
तेषां सर्वेषां गुणज्ञानानां सम्भारः । तस्याभ्यासः = पुनः पुनः प्रयोगः ।
दीर्घकालाभ्यासः त्रिभिरसंख्येयैर्महाकल्पैः । निरन्तराभ्यासः असान्तरतया ।
१. सर्वपुण्य०—का० । २. ०ल्पतरजी०—का० ।
३. सर्वपुण्यज्ञान०—का० । ४. ज्ञानानानि—जा० ।
निर्देशः ] सप्तमं कोशस्थानम् १०६७
चतुर्विधा फलसम्पत्—ज्ञानसम्पत्, प्रहाणसम्पत्, प्रभावसम्पत्,
रूपकायसम्पच्च ।
चतुर्विधप्रकारसम्पत्—अपायत्रयसंसारदुःखात्यन्तनिर्मोक्षसम्पत्, यान-
त्रयसुगतिप्रतिष्ठापनसम्पद्वा ।
ज्ञानसम्पत् पुनश्चतुर्विधा—अनुपदिष्टज्ञानम्, सर्वत्रज्ञानम्, सर्वथा-
ज्ञानम्, अयत्नज्ञानम् च ।
चतुर्वि प्रहाणसम्पत्—सर्वक्लेशप्रहाणम्, अत्यन्तप्रहाणम्,
सवासनप्रहाणम्, सर्वसमाधिसमापत्त्यावरणप्रहाणं च ।
चतुर्विधा प्रभावसम्पत्—बाह्यविषयनिर्माणपरिणामाधिष्ठान-
सत्कृत्याभ्यासः तीव्रादरतया । चतुर्विधाः फलसम्पद इति । धर्मकायपरि-
निष्पत्त्या ज्ञानादिसम्पदश्चतस्रो भवन्तीति ता अपि फलसम्पद इति
व्यवस्थाप्यन्ते । ज्ञानसम्पत् चतुर्विधेति वक्ष्यति । तथा प्रहाणसम्पत्,
प्रभावसम्पत्, रूपकायसम्पत् च चतुर्विधेति वक्ष्यति । तदेवासां व्याख्यानं
भविष्यति । चतुर्विधोपकारसम्पत् । कथम् ? इत्याह—अपायत्रयसंसार-
दुःखात्यन्तनिर्मोक्षसम्पदिति । अपायत्रयं च नरकादि, संसारश्च, तयोर्दुःखम् ।
ततोऽत्यन्तनिर्मोक्षः, सैव सम्पदिति । यानत्रयसुगतिप्रतिष्ठापनसम्पदिति ।
यानत्रये च श्रावकयानादौ, सुगतौ च प्रतिष्ठापनम्, सैव सम्पदिति । इयं वा
चतुर्विधोपकारसम्पत् ।
अनुपदिष्टज्ञानमिति । स्वयमभिसम्बोधनार्थेन । सर्वत्र ज्ञानमिति ।
निरवशेषस्वलक्षणावबोधनार्थेन । सर्वथाज्ञानमिति । सर्वप्रकारावबोध-
नार्थेन । अयत्नज्ञानमिति । इच्छामात्रावबोधनार्थेन ।
सर्वक्लेशप्रहाणमिति । त्रैधातुकदर्शनभावनाहेयक्लेशोच्छित्तेः ।
अत्यन्तप्रहाणमिति । अपरिहाणितः । सवासनाप्रहाणमिति । अनुबन्धा-
भावतः । सर्वसमाधिसमापत्त्यावरणप्रहाणमिति । उभयतोभागविमुक्तेः ।
बाह्यविषयनिर्माणपरिणामाधिष्ठानवशित्वसम्पदिति । तत्राऽपूर्व-
बाह्यविषयोत्पादनं निर्माणम्, अश्मादीनां सुवर्णादिभावापादनं परिणामः,
दीर्घकालावस्थानमधिष्ठानमिति । आयुष उत्सर्गेऽधिष्ठाने च वशित्व-
सम्पद् आयुरुत्सर्गाधिष्ठानवशित्वसम्पदिति । आवृतेति विस्तरः ।
आवृतगमनं च, आकाशगमनं च, सुदूर-क्षिप्रगमनं च ।१ अल्पे बहूनां प्रवेशः
१. ब्राह्मणादिति अनवद् एकशेषः । —इत्येतावानधिकः पाठोऽत्र जा० पुस्तके
मुद्रितो दृश्यते ।
वशित्वसम्पत्¹, आयुरुत्सर्गाधिष्ठानवशित्वसम्पत्, आवृताकाशसुदूरक्षिप्र-
गमनाल्पबहुत्वप्रवेशवशित्वसम्पत्², विविधनिजाश्चर्यधर्मसम्पच्च ।
चतुर्विधा रूपकायसम्पत्—लक्षणसम्पत्, अनुव्यञ्जनसम्पत्, बलसम्पत्,
वज्रसारास्थिशरीरतासम्पत्³ । इति ।
एतत् सामासिकं बुद्धानां माहात्म्यम् ।
अनन्तप्रभेदं तु तद्भिद्यमानं जायते । तच्च पुनर्भुद्धा एव सकलं ज्ञातुं
वक्तुं च समर्थाः, यद्यनेकासंख्येयकल्पं⁴ जीवितमधितिष्ठेयुः । एवं च
तावदनन्ताद्भुतगुणज्ञानप्रभावोपकारमहारत्नाकरास्तथागताः ।
परमाणौ बहूनां हस्त्यादीनां प्रवेशः, स चेति आवृताकाश-सुदूर-क्षिप्रगमना-
ल्पबहुप्रवेशः । तयोर्वशित्वसम्पदिति योज्यम् । विविधा नानाप्रकारा
निजाः स्वाभाविकाः । के ? आश्चर्यधर्माः । तेषां सम्पदिति योज्यम् ।
धर्मतैषा बुद्धानां भगवतां यत् तेषां गच्छतां निम्नस्थलं च समीभवति, यदुच्चं
तन्नीचीभवति, यन्नीचं तदुच्चीभवति । अन्धाश्च चक्षूंषि प्रतिलभन्ते,
बधिराः श्रोत्रम्, उन्मत्ताः स्मृतिमिति यथासूत्रं सर्वमनुसर्तव्यम् ।
लक्षणसम्पदिति । द्वात्रिंशतां महापुरुषलक्षणानां ऊर्णोष्णीषादीनां
सम्पत् । अनुव्यञ्जन सम्पदिति । वृत्ताङ्गुलिताऽतुङ्गनखत्वादीनाम-
शीतेरनुव्यञ्जनानां सम्पत् । बलसम्पत् । नारायणं बलम् । वज्रसारा-
ण्यस्थीन्यस्येति वज्रसारास्थि, वज्रसारास्थि शरीरमस्येति वज्रसारास्थि-
शरीरः, तद्भावः, तस्य सम्पदिति वज्रसारास्थिशरीरतासम्पदिति ।
एतत् सामासिकं सापेक्षिकम् । ये केचित् प्रसादजाताः सत्पुरुषाः
बुद्धं भगवन्तमस्ताविषुः, स्तुवन्ति, स्तोष्यन्ति वा । सर्वे ते एतयैव त्रिविधया
सम्पदेति⁵ । यद्यनेके असंख्येयाः कल्पा अस्येति अनेकासंख्येयकल्पं जीवितम्,
तद्यदि अधितिष्ठेयुर्बुद्धा भगवन्तः एवं ते सकलं तन्माहात्म्यं ज्ञातुं वक्तुं च
समर्थाः । तस्यानन्तप्रभेदत्वेनातिबहुत्वादित्यभिप्रायः । एवं च तावदिति
विस्तरः । गुणाश्च ज्ञानानि च प्रभावश्चोपकारश्चेति द्वन्द्वः । अनन्ताश्च ते-
ऽद्भुताश्चेति पुनः कर्मधारयः । एत एव महारत्नानि । तेषामाकारास्त-
थागताः ।
१. ०णामना०—का० ।
२. ०काशदूर० प्रवेशन०—का० ।
३. ०स्थिसम्पत्—का० ।
४. ०ख्येयं कल्पं—का० । ५. सम्पदिति—ज० ।