अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1111, कुल 1258 में से
संदर्भ में पढ़ेंबुद्धानुत्पादात् । तदेव¹ दशविधं ज्ञानमन्यस्य बलं नोच्यते । बुद्धस्यैव
बलमिति ।
केनास्य बलमव्याहतं यतः ॥ ३० ॥
यस्मादस्य सर्वत्र ज्ञेये ज्ञानमव्याहतं वर्तते, तस्माद् बलम् । अन्येषां तु
व्याहन्यते । ज्ञानं क्वचिदिच्छतामप्यप्रवृत्तेरिति नार्हति तद्बलाख्यां
लब्धुम् । स्थविरशारिपुत्रेण प्रव्रजनप्रेक्षपुरुषप्रत्याख्यानम्², श्येनोपद्रुतस्य
पक्षिण उपपत्त्यादिपर्यन्ताज्ञानं चात्रोदाहरणम् । एवं तावदव्याहतज्ञानत्वाद्
बुद्धानां ज्ञेयवदनन्तं मानसं बलम् ॥ ३० ॥
अन्यत्र बुद्धानुत्पादादिति । जम्बूद्वीपादन्यत्र बुद्धानुत्पाद इति
जम्बूद्वीपपुरुषाश्रयाणि दश बलानि बुद्धाश्रयोत्पत्तेरित्यभिप्रायः ।
तदेव दशविधज्ञानमन्यस्य बलं नोच्यत इति । अन्यस्यापि एतदस्ति,
न तु बलम्; व्याहतत्वात् । यत्त्वव्याहतं तद् बलम् । आवेणिक इत्यभिप्रायः ।
प्रव्रजनप्रेक्ष-पुरुषप्रत्याख्यानमिति विस्तरः । प्रव्रजनम् = प्रव्रज्या प्रेक्ष्यते
प्रव्रज्याप्रेक्षः । तस्य प्रव्रजनप्रेक्षस्य पुरुषस्य प्रत्याख्यानं प्रव्रजनप्रेक्षपुरुष-
प्रत्याख्यानम् । तदुदाहरणम् । यथा अन्यस्य व्याहन्यते ज्ञानं इति ।
आर्यशारिपुत्रेण किल कस्यचित् प्रव्रज्याप्रेक्षस्य पुरुषस्य मोक्षभागीय॑
कुशलमूलं व्यवलोकयता न दृष्टमिति प्रत्याख्यातः । न प्रव्रजित इत्यर्थः ।
भगवता तु दृष्टम्, प्रव्रजितश्च । तं चाधिकृत्य भिक्षुभिः पृष्टेन भगवतोक्तम्—
“अनेनैवेदं कर्म कृतम्, यदर्हत्त्वं प्राप्तः । नहि कर्माणि पृथिवीधातौ विपच्यन्ते,
नाब्धातौ, न तेजोधातौ, न वायुधातौ । अपि तूपान्तेष्वेव स्कन्ध-धात्वायत-
नेषु” इति विस्तरः । इदं चोक्तम्—
“मोक्षबोजमहं ह्यस्य स्वसूक्ष्ममुपलक्षये ।
धातुपाषाणविवरे निलीनमिव काञ्चनम् ॥” ( ) इति ।
उपपत्त्यादिपर्यन्ताज्ञानं चेति । आदि-शब्देन च्युतिपर्यन्ता-
ज्ञानम् ॥ ३० ॥
——————————————————————————
१. तदेतद्—का० ।
२. प्रव्रज्यापेक्ष०—का० ।