सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1107, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1107

महाकरुणा च । असाधारणं हि आवेणिकमित्युच्यते । तत्र
द्वितीयं तथागतबलम् । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतो
ध्यानविमोक्षसमाधिसमापत्तीनां संक्लेश-व्यवदान-व्यवस्थान-विशुद्धिं यथाभूतं
प्रजानाति । यदायुष्मन्तस्तथागतः पूर्ववत् । इदं तृतीयं० । पुनरपरमायुष्मन्तस्त-
थागतः परसत्त्वानां परपुद्गलानामिन्द्रियपरापरतां यथाभूतं प्रजानाति । यदा-
युष्मन्तस्तथागतः पूर्ववत् —इदं चतुर्थं तथागतबलम् । येन बलेनेति पूर्ववत् ।
पुनरपरमायुष्मन्तस्तथागतो नानाविमुक्तिकं लोकमनेकविमुक्तिकमिति यथाभूतं
प्रजानाति । यदायुष्मन्तस्तथागतः पूर्ववत् । इदं पञ्चमं तथागतवलम् । येन
बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतो नानाधातुकं लोकमनेक-
धातुकमिति यथाभूतं प्रजानाति । यदायुष्मन्तस्तथागतः पूर्ववत् —इदं षष्ठं
तथागतबलम् । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतः सर्वत्र-
गामिनीं प्रतिपदं यथाभूतं प्रजानाति । यदायुष्मन्तस्तथागतः पूर्ववत् —इदं
सप्तमं तथागतबलम् । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतो-
ऽनेकविधं पूर्वनिवासमनुस्मरति, तद्यथा एकामपि जातिम्, द्वे, तिस्रः, चतस्रः,
पञ्च, षट्, सप्त, अष्ट, नव, दश, विंशति यावत् अनेकामपि संवर्तविवर्त-
कल्पामनुस्मरति—अमी नाम ते भवन्तः सत्त्वाः यत्राहमासम् एवंनामा, एवं-
जातीयः, एवंगोत्रः, एवमाहारः, एवंसुखदुःखप्रतिसंवेदी, एवं दीर्घायुः, एवं-
चिरस्थितिकः, एवमायुपर्यन्तः; सोऽहं तस्मात् स्थानाच्च्युतोऽमुत्रोपपन्नः,
तस्मादपि च्युत इहोपपन्नः—इति साकारं सनिदानं सोद्देशमनेकविधं पूर्व-
निवासमनुस्मरति । यदायुष्मन्तस्तथागतः पूर्ववत्--इदमष्टमं तथागतवलम् ।
येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागतो दिव्येन चक्षुषा विशुद्धे-
नातिक्रान्तमानुष्यकेन सत्त्वान् पश्यति च्यवमानानप्युत्पद्यमानानपि, सुवर्णान्,
हीनान् दुर्वरणान्, प्रणीतान् सुगतिमपि गच्छतो दुर्गतिमपि गच्छतो यथाकर्मोपगान्
यथाभूतं प्रजानाति – अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः,
वाङ्मनोदुश्चरितेन समन्वागताः, आर्याणामपवादकाः मिथ्यादृष्टयो मिथ्या-
दृष्टिकर्म-धर्म-समादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परंमरणाद् अपाय-
दुर्गतिविनिपाते नरकेषूपपद्यन्ते । अमी पुनर्भवन्तः सत्त्वाः कायसुचरितेन
समन्वगताः वाङ्मनःसुचरितेन समन्वागताः आर्याणामनपवादकाः संयोग-
दृष्टयः संयोगदृष्टिकर्म-धर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्
सुगतौ स्वर्गलोके देवेषूपपद्यन्ते । यदायुष्मन्तस्तथागताः, पूर्ववत् —इदं नवमं
तथागतबलम् । येन बलेनेति पूर्ववत् । पुनरपरमायुष्मन्तस्तथागत आंस्रवाणां
क्षयादनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयमभिज्ञाय
साक्षात्कृत्वोपसम्पद्य प्रतिवेदयते—क्षीणा मे जातिः, उषितं ब्रह्मचर्यम्, कृतं