सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1112, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1112

निर्देशः ] सप्तमं कोशस्थानम् १०८६
नारायणं¹ बलं¹ काये,
काये पुनर्बुद्धस्य नारायणं बलं वर्णयंति ।
सन्धिष्वन्ये,
सन्धौ सन्धौ नारायणबलमित्यपरे ।
मानसवत् कायिकमप्यस्यानन्तं बलमिति भदन्तः । अन्यथा ह्यनन्त-
ज्ञानबलसहिष्णुर्न स्यादिति । नागग्रन्थि-शृङ्खला-शङ्कुसन्धयश्च बुद्ध-
प्रत्येकबुद्ध-चक्रवर्तिनः ।
किं पुनर्नारायणस्य बलस्य प्रमाणम् ?
दशाधिकम् ।
हस्त्यादिसप्तकबलम्,
यदशानां प्राकृतहस्तिनां बलं तदेकस्य गन्धहस्तिनः । एवं महानग्न-
प्रस्कन्दिवराङ्गचाणूरनारायणानां² दशोत्तरवृद्धिर्वक्तव्या । प्राकृतगन्ध-
नारायणं बलमिति । बलस्येयं संज्ञा 'नारायणम्' इति । यस्य च तद्
बलम् असावपि 'नारायण' इत्युच्यते; चाणूरमहाङ्गत्वात् । भदन्त इति ।
दाष्टर्न्तिकस्थविरः । अन्यथा हीति । यदि मानसवत् कायिकबलं नेष्यते,
अनन्तस्य ज्ञानबलस्य सहिष्णुर्न स्यात् । सहनशीलो भगवान् न भवेदित्यर्थः ।
“सन्धिष्वन्ये” इत्युक्तम्, अस्थिसन्धिविशेषोपन्यासः । नागग्रन्थिरिति
विस्तरः । नागग्रन्थिसन्धयो बुद्धाः । नागपाशो नागग्रन्थिः । शृङ्खलासन्धयः
प्रत्येकबुद्धाः । शङ्कुसन्धयश्चक्रवर्तिनः ।
“दशाधिकं हस्त्यादिसप्तकबलम्” इति । हस्ति-गन्धहस्ति-महानग्न-
प्रस्कन्दि-वराङ्ग-चाणूर-नारायणानां सप्तकं तस्य बलं दशभिरधिकम्, दशभ्यो
वाधिकम् । कथम् ? इत्याह—यद् दशानां प्राकृतहस्तिनां सामान्यहस्तिनां
बलं तदेकस्य गन्धहस्तिनो बलम् । एवं यद् दशानां गन्धहस्तिनां बलं
१-१. नारायणबल — का० । २. ०चाणूर०—का० ।