सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1106, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1106

निर्देशः ] सप्तमं कोशस्थानम् १०८३
सामान्येन सर्वेषां पुद्गलानां क्षयज्ञाने गुणभावनोक्ता ॥ २७ ॥
अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः ।
ये बुद्धस्यैव भगवतः क्षयज्ञाने भावनां गच्छन्ति, नान्यस्य । कतमे-
ऽष्टादश ? दश बलानि, चत्वारि वैशारद्यानि, त्रीणि स्मृत्युपस्थानानि,
सामान्येन सर्वेषामिति१ । श्रावक-प्रत्येकबुद्ध-सम्यक्सम्बुद्धानां
क्षयज्ञानक्षणे गुणभावनोक्ता, "सास्रवाश्च क्षयज्ञाने" (अभि० को० ७.२६)
इति वचनात् ॥ २७ ॥
दश बलानीति विस्तरः । एते बलाद्या महाकरुणान्ता अष्टादशा-
वेणिका वैभाषिकैर्व्यवस्थाप्यन्ते । बलादिव्यतिरिक्तान् केचिद् अन्यान्
अष्टादशावेणिकान् बुद्धधर्मान् वर्णयन्ति । तद्यथा—नास्ति तथागतस्य
स्खलितम्, नास्ति रवितम्, नास्ति द्रवता, नास्ति नानात्वसंज्ञा, नास्त्यव्याकृतं
मन , नास्त्यप्रतिसंख्यायोपेक्षा, नास्त्यतीतेषु प्रतिहतं ज्ञानदर्शनम्, नास्त्यनागतेषु
प्रतिहतं ज्ञानदर्शनम्, नास्ति प्रत्युत्पन्नेषु प्रतिहतं ज्ञानदर्शनम्, सर्वं कायकर्म
ज्ञानानुपरिवर्ति, सर्वं वाक्कर्म ज्ञानानुपरिवर्ति, सर्वं मनस्कर्म ज्ञानानुपरिवर्ति,
नास्ति छन्दहानि , नास्ति वीर्यहानिः, नास्ति स्मृतिहानिः, नास्ति
समाधिहानिः, नास्ति प्रज्ञाहानिः नास्ति विमुक्तज्ञानदर्शनहानिरिति ।
तत्र रवितं नाम महसा क्रिया । द्रवता = क्रीडाभिप्रायता । नानात्वसंज्ञा
सुखदुःखादुःखामुषेषु विषयेषु रागद्वेषमोहातो नानात्वसंज्ञा । शेषं सुगमम् ॥
दश बलानि--स्थानास्थानज्ञानबलम्, कर्मविपाकज्ञानबलम्, ध्यानविमोक्ष-
समाधिसमापत्तिज्ञानवलम्, इन्द्रियपरापरज्ञानवलम्, नानाधिमुक्तिज्ञानवलम्,
नानाधातुज्ञानबलम्, सर्वत्रगामिनीप्रतिपज्ज्ञानवलम्, पूर्वनिवासानुस्मृतिज्ञान-
बलम्, च्युत्युपपत्तिज्ञानवलम्, आस्रवक्षयज्ञानवलं च ।
सूत्रं तु—"दश आयुष्मन्तः तथागतबलानि । कतमानि दश ? इहा-
युष्मन्तः स्थानं च स्थानतो यथाभूतं प्रजानाति, अस्थानं चास्थानतः—इदं
प्रथमं तथागतबलम् । येन बलेन समन्वागतस्तथागतोऽर्हन् सम्यक्सम्बुद्धः
उदारमार्षभस्थानं प्रतिजानाति, ब्राह्मं चक्रं प्रवर्तयति, पर्षदि सम्यक्
सिंहनादं नदति । पुनरपरमायुष्मन्तस्तथागतोऽतीतानागतप्रत्युत्पन्नानि
कर्मधर्मसमादानानि स्थानतो हेतुतो वस्तुतो विपाकतश्च यथाभूतं प्रजानाति ।
यदायूष्मन्तस्तथागतः, पूर्ववत्, यावत् विपाकतश्च यथाभूतं प्रजानाति—इदं
१ सर्वस्वमिति—जा० ।