अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1113, कुल 1258 में से
संदर्भ में पढ़ें१०६० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ ज्ञान-
हस्ति-महानग्नप्रस्कन्दिनां दशोत्तरवृद्धयार्धनारायणबलं¹ तद् द्विगुणं नारायण-
मित्यपरे । यथा तु बहुतरं तथा योज्यम् ।
स्प्रष्टव्यायतनं च तत् ॥ ३१ ॥
तच्चैतत् कायिकं बलं सर्वस्यैव स्प्रष्टव्यायतनस्वभावं महाभूतविशेष
एव । ²उपादायरूपसप्तभ्योऽर्थान्तरमित्यपरे ॥ ३१ ॥
उक्तानि बलानि ॥
वैशारद्यं चतुर्धा तु,
यथासूत्रमेव³ ।
एतानि पुनश्चत्वारि वैशारद्यानि
यथाद्यदशमे बले ।
तदेकस्य महानग्नस्य बलम् । यावद् यद् दशानां चाणूराणां बलं तदेकस्य
नारायणस्य बलमिति ।
दशोत्तरवृद्धिनागः । दशोत्तरवृद्ध्यार्धनारायणबलमिति । आदि-
तस्तथैव प्रक्रम्य यद्दशानां प्रस्कन्दिनां बलं तदर्धनारायणम् । तद् द्विगुणं
नारायणमिति ।
यथा तु बहुतरं तथा योज्यमित्याचार्यः । पूर्वकमेव पक्षं समर्थयति ।
अन्यथा ह्यनन्तज्ञानबलसहिष्णु न स्यादिति तदेव कारणम् । देवदत्तहतहस्ति-
पादांगुष्ठसप्तप्राकारपरिखाक्षेपश्चान्यथा न स्यादिति ।
महाभूतविशेष एवेति । महाभूतविशेषस्वभावं बलं न भौतिकमिति
दर्शयति ।
उपादायरूपसप्तभ्योऽर्थान्तरमिति । श्लक्ष्णत्वादिभ्यः पूर्वोक्तेभ्योऽन्यदेव
बलं नामोपादायरूपमित्यपरे ॥ ३१ ॥
यथासूत्रमेवेति । "चत्वारीमानि सारिपुत्र तथागतस्य वैशारद्यानि ।
यैर्वैशारद्यैः समन्वगतस्तथागतोऽर्हन् सम्यक्सम्बुद्धः उदारमर्षभं स्थानं
१. ०नारायणं बलं—क.० । २. उपादायरूपं०—का० ।
३. यथासूत्रम्—का० ।