सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1105, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1105

प्रतिलम्भनिषेवणाभावने कुशलसंस्कृतानां धर्माणामनागतानामेका,
प्रत्युत्पन्नानामुभे । प्रतिपक्षविनिर्धावनभावने सास्रवाणां धर्माणाम् ।
तदेवं कुशलसास्रवाणां चतस्रो भावना भवन्ति । अनास्रवाणां
द्वे, क्लिष्टाव्याकृतानां च ।
बाह्याभिधार्मिकाणां षड् भावनाः—एताश्चतस्रः, संवरभावना,
विभावनभावना च । इन्द्रियाणां पूर्वा¹ कायस्योत्तरा । "षडिमानीन्द्रियाणि
सुदान्तानि यावत्सुभावितानि तथा सन्त्यस्मिन् काये क्लेशाः" ( )
इति विस्तरः ।
ते तु प्रतिपक्षनिर्धावनभावनान्तर्भूते² इति काश्मीराः ।
अनागतानामेकेति । प्रतिलम्भभावना । प्रत्युत्पन्नानामुभे इति ।
प्रतिलम्भनिषेवणभावने ।
तदेवमिति विस्तरः । यस्मात् प्रतिलम्भनिषेवणभावने कुशलसंस्काग-
णामित्यविशेषेणोक्तम्, सास्रवाणामनास्रवाणां च । प्रतिपक्षविनिर्धावन-
भावने च सास्रवाणां धर्माणामित्यविशेषेणोक्तं क्लिष्टानामकॢिष्टानां च,
तस्मादेवमित्थं कुशलसास्रवाणां चतस्रो भावना भवन्ति । येषां भावना
इष्यन्ते कुशलत्वात् प्रतिलम्भनिषेवणभावने भवतः, सास्रवत्वाच्च प्रतिपक्ष-
विनिर्धावनभावने भवत इति ।
ये तर्हि न कुशलसास्रवाः, ये संस्कृताः, येऽनास्रवाः, ये च क्लिष्टा-
व्याकृताः, तेषां कति भावना इति ? आह—अनास्रवाणां द्वे इति । प्रतिलम्भ-
निषेवणभावने । क्लिष्टाव्याकृतानां च । किम् ? द्वे भावने भवतः ।
प्रतिपक्षविनिर्धावनभावने इति ।
इन्द्रियाणां पूर्वेति । चक्षुरादीनां संवरभावनेत्यर्थः । कायस्योत्तरेति ।
विभावनभावना । तत्पुनर्भावनाद्वयम् आगमेन यथाक्रमं दर्शयति—
षडिमानीन्द्रियाणीति विस्तरः । स पुनरिन्द्रियसंवरः स्मृतिसम्प्रजन्यस्वभाव
उक्तः । विभावनापि कायालम्बनस्य क्लेशस्य निर्धावनम् ।
ते त्विति विस्तरः । ते तु संवरविभावनभावने प्रतिपक्ष-निर्धावन-
भावनान्तर्भूते यथाक्रममुभयमुभयत्रान्तर्भूत मित्यपि न विरुध्यते ।
१. पूर्वो—का० ।
२ ०निर्धावभावना०—का।