सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1103, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1103

भावनां गच्छन्ति, अशुभानापानस्मृतिस्मृत्युपस्थानाप्रमाणविमोक्षादयः
रज्जूच्छेदादुच्छ्वसन्तीव पेडासाधर्म्येण, स्वचित्ताधिराज्यप्राप्तस्य प्राप्तिभिः
सर्वकुशलधर्मप्रत्युद्गमनादाधिराज्ये¹ प्राप्तौ¹ प्राभृतेन विषयप्रत्युद्गमनवत् ।
यत् किञ्चिल्लभ्यते तत् सर्वं भाव्यते । यदपूर्वं लभ्यते तद् भाव्यते ।
लब्धपूर्वं न भाव्यते ॥ २६ ॥
यद्धिहीनं पुनर्लभ्यते न तद् भाव्यते, भावितोत्सृष्टत्वात् ॥ २६ ॥
अप्रमाणविमोक्षादय इति । आदिशब्देन अभिभ्वायतन-कृत्स्नायतना-
दयो गृह्यन्ते । उच्छ्वसन्तीव पेडासाधर्म्येणेति । या पेडा रज्ज्वा निपीड्य
बद्धा सा रज्जूच्छेदादुच्छ्वसन्तीव पेडोच्यते । उच्छ्वसतीव प्रतिरूपक-
शब्दाभिधानात् । तस्य रज्जूच्छेदाद् उच्छ्वसन्तीव पेडायाः साधर्म्येण । यथा-
ऽसौ रज्ज्वा निपीड्य बद्धा पेडा रज्जूच्छेदादुच्छ्वसन्तीव, एवं यथोक्ता
अशुभादयो गुणाः वज्रोपमेन समाधिना क्लेशप्राप्तिरज्जूच्छेदादशैक्षसन्ताने
वर्त्स्यन्त उच्छ्वसन्तीव । उच्छ्वासस्य प्राणिधर्मत्वादौपमिकम् । कस्माद् ?
इत्याह—स्वचित्ताधिराज्यप्राप्तस्येति सर्वम् । सर्वेषां राज्ञामधिको राजा
अधिराजः, तद्भावः आधिराज्यम् । स्वचित्ते आधिराज्यं क्लेशपराधीनता-
विगमात् । स्वचित्तैश्वर्यमित्यर्थः । तत्प्राप्तस्यार्हतः प्राप्तिभिः प्राभृतस्था-
नीयाभिः सर्वेषां कुशलानां धर्माणां प्रत्युद्गमनान्ते गुणाः भावनां गच्छन्ति ।
आधिराज्ये प्राप्तौ कस्यचिद् राजाधिराजस्य प्राभृतेन वस्त्रादिना विषयाणां
जनपदानाम् यथा प्रत्युद्गमनम् तद्वत् । तदेव क्लेशप्राप्तिरज्जूच्छेदे सति
स्वप्राप्तिलाभादुच्छ्वसन्तीव गुणाः, उत्तप्ततराणां तेषां प्राप्तिरुत्पद्यत
इत्यर्थः । कामधातावर्हत्त्वप्राप्तावेवाशुभादयो यथासम्भवं श्रुत-चिन्ता-
भावनामयास्त्रैधातुका भावनां गच्छन्ति । रूपारूप्यधात्वोस्त्वर्हत्त्वप्राप्तौ
यथाक्रमं द्विधातुकाकधातुकाः । एवं धातुतोऽपि बोद्धव्यम् । नैवसंज्ञाना-
संज्ञायतनोपपन्नस्यार्हत्त्वप्राप्तौ तद्भूमिका एवेत्यवगन्तव्यम् । यत् किञ्चत्
लभ्यते इति विस्तरः ।
यद्धिहीनं पुनर्लभ्यते सम्मुखीक्रियते संसारोचितम् । न तदनागतं
भाव्यते भावितोत्सृष्टत्वात् संसारे । यदेवात्र ध्यानाप्रमाणाद्यनुचितं संसारे
विशिष्टमनास्रवानुगुणम्, तत्सम्मुखीभावे तज्जातीयमेवानागतं विशिष्टं
भाव्यत इत्याचार्यो दर्शयति ।
आचार्यसङ्घभद्रोऽप्येतमेवार्थं व्याचष्टे—लब्धपूर्वं न भाव्यते । यत्
१-१. ०राज्य प्राप्तौ—का० ।