अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1114, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] , सप्तमं कोशस्थानम् १०६१
द्वितीयसप्तमे चैव,
यथा स्थानास्थानज्ञानबलम्, एवं "सम्यक्सम्बुद्धस्य बत मे सतः" इत्येत-
द्वै शारद्यं वेदितव्यम् । यथास्रवक्षयज्ञानबलम्, एवं "क्षीणास्रवस्य बत मे सतः"
इत्येतद्वैशारद्यम् । यथा कर्मस्वकज्ञानवलम्, एवं "ये वा पुनर्मया श्रावका-
णामन्तरायिका धर्मा आख्याताः" इत्येतद्वैशारद्यम् । यथा सर्वत्रगामिनी
प्रतिजानाति, ब्राह्मं १ चक्रं प्रवर्तयति, पर्षदि सम्यक् सिंहनादं नदति ।
कतमानि चत्तारि ? सम्यक्सम्बुद्धस्य वत मे सतो धर्मा अनभिसम्बुद्धा
इत्यत्र मां कश्चिच्छ्रमणो वा ब्राह्मणो वा सह धर्मेण चोदयेत्, स्मारयेत्,
तत्राहं निमित्तमपि ने म्नुपश्यामि । एवं चाहं निमित्तमसमनुपश्यन् क्षेम-
प्राप्तश्च विहरामि, अभयप्राप्तश्च, वैशारद्यप्राप्तश्च उदारम् आर्षभं स्थानं
प्रतिजानामि, ब्राह्मं' चक्रं प्रवर्तयामि, पर्षदि सम्यक् सिंहनादं नदामि—इदं
प्रथमं वैशारद्यम् । 'क्षीणास्रवस्य वत मे सत इमे आस्रवा अपरिहीणाः'
इत्यत्र मां कश्चिदिति पूर्ववत् यावत्, पर्षदि सम्यक् सिंहनादं नदामि—इदं
द्वितीयं वैशारद्यम् । ये वा पुनर्मया श्रावकाणामान्तरायिका धर्मा आख्याताः,
तान् प्रतिसेवमानस्य नालमन्तरायायेति अत्र मां कश्चित् इति पूर्ववत्—इदं
तृतीयं वैशारद्यम् । यो वा पुनर्मया श्रावकाणां मार्ग आख्यातः आर्यो
नैर्याणिको नैर्वेधिको निर्याति तत्करं स्य सम्यग्दुःखक्षयस्य दुःखस्यान्तक्रियायै
स न निर्यास्यतीत्यत्र मां कश्चिदिति पूर्ववत्—इदं चतुर्थं वैशारद्यम्" इति ।
यथा स्थानास्थानज्ञानबलमिति विस्तरः । यथा स्थानास्थान-
ज्ञानबलं दश ज्ञानानि, सर्वभूमिसंगृहीतं च; एवं 'सम्यक्सम्बुद्धस्य वत मे सतः'
इत्येतद् वैशारद्यम् । तथैव दशधा धर्माणां भेदं कृत्वा योज्यम् । यथास्रवक्षय-
ज्ञानबलम् । षट् दश वा ज्ञानानि दशभूमिसंगृहीतं च । एवं क्षीणास्रवस्येति
द्वितीयं वैशारद्यम् । अत्रापि तथैव धर्माणां भेदं कृत्वा षट् दश वा ज्ञानानि
योज्यम् । यथा कर्मस्वकज्ञानबलमष्टौ ज्ञानानि, निरोध-मार्गज्ञाने हित्वा,
सर्वभूमिकसंगृहीतं च । एवं ये वा पुनर्मया श्रावकाणामान्तरायिका इति
विस्तरेण तृतीयं वैशारद्यम् । अत्रापि तथैव धर्माणां भेदं कृत्वा दुःख-
समुदयसत्यसंगृहीता एवान्तरायिकाः, न निरोधमार्गसंगृहीता इत्यष्टौ
ज्ञानानि योज्यम् । यथा सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् दश ज्ञानानि नव वा
सर्वभूमिसंगृहीत॑ च । एवं यो वा मया श्रावकाणां निर्याणाय मार्ग आख्यातः—
इत्येतद्वैशारद्यम् ।
१. ब्राह्मम्यं—जा० ।