सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

धनुरूपा महाभागा दिव्या नारी तिलोत्तमा । ब्रह्मणश्चाग्निकुण्डाच्च देवनारी प्रभावती ॥

[०६९श्लो०५९-८२] वायुपुराणम् । २५५
( कश्यपीयप्रजासर्गः )

धनुरूपा महाभागा दिव्या नारी तिलोत्तमा । ब्रह्मणश्चाग्निकुण्डाच्च देवनारी प्रभावती ॥
रूपयौवनसंपन्ना उत्पन्ना लोकाविश्रुता ॥ ५९
वेदीतलसमुत्पन्ना चतुर्वक्त्रस्य धीमतः । नाम्ना वेदवती नाम सुरनारी महाप्रभा ॥ ६०
तथा यमस्य दुहिता रूपयौवनश लिनी । वरहेमनिभा हेमा देवनारी सुलोचना ॥ ६१
इत्येते बहुसाहस्रं भास्वरा ह्यप्सरोगणाः । देवतानामृषीणां च पत्न्यस्ता मातरश्च ह ॥ ६२
सुगन्धाश्चम्पवर्णाश्च सर्वाश्चाप्सरसः समाः । संपयोगे तु कान्तेन माद्यन्ति मदिरां विना ॥
तासामाप्यायते स्पर्शादानन्दश्च विवर्धते ॥ ६३
(*पर्वते नारदे पूर्वं रेतः स्कन्नं प्रजापतेः । पर्वतस्तत्र संभूतो नारदश्चैव तावुभौ ॥ ६४
तयोर्यवीयसी चैव तृतीयाऽरुन्धती स्मृता । देवरुख्यो(?सूर्यजन्म तस्मिन्नारदपर्वतौ ) ॥ ६५
विनतायास्तु पुत्रौ द्वावरुणा गरुडश्च ह । षट्त्रिंशत्तु स्वसारश्च यवीयस्यस्तु ताः स्मृताः ॥ ६६
गायत्र्यादीनि च्छन्दांसि सौपर्णेयाश्च पक्षिणः । हव्यवाहानि सर्वाणि दिक्षु संनिहितानि च ॥ ६७
कण्डूर्नागसहस्रं वै चराचरमजीजनत् । अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥
बहुधा नामधेयानां प्रायशस्तु निबोधत ॥ ६८
तेषां प्रधाननागाश्च शेषवासुकितक्षकाः । सकर्णीरश्च जम्भश्च अञ्जनो वामनस्तथा ॥ ६९
ऐरावतमहापद्मौ कम्बलाश्वतरावुभौ । एलपत्रश्च शङ्खश्च कर्कोटकधनंजयौ ॥ ७०
महाकर्णो महानीलो धृतराष्ट्रबलाहकौ । कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ॥ ७१
शिलीमुखो दधिमुखः कालीयः शालिपिण्डकः । बिन्दुपादः पुण्डरीको नागश्चापूरणस्तथा ॥ ७२
कपिलश्चाम्बरीषश्च धृतपादश्च कच्छपः । प्रह्लादः पद्मचित्रश्च गन्धर्वोऽथ मनस्विकः ॥ ७३
नहुषः खररोमा च मणिरित्येवमादयः । काद्रवेया मया ख्याताः खशायास्तु निबोधत ॥ ७४
खशा विजज्ञे पुत्रौ द्वौ विश्रुतौ पुरुषादकौ । ज्येष्ठं पश्चिमसंख्यायां पूर्वस्यां मनुजास्तथा ॥ ७५
विलोहितं विकर्णं च पूर्वं साऽजनयत्सुतम् । चतुर्भुजं चतुष्पादं द्विमूर्धानं द्विधागतिम् ॥ ७६
सर्वाङ्गकेशं स्थूलाङ्गं तुङ्गनासं महोदरम् । स्थूलशीर्षं महाकर्णं मुञ्जकेशं मनोरथम् ॥ ७७
हस्त्योष्ठं दीर्घजङ्घं च अधर्दंष्ट्रं महाहनुम् । रक्तजिह्वं जटाक्षं च स्थूलास्यं दीर्घनासिकम् ॥ ७८
गुहकं शितिकर्णं च महानन्दं महामुखम् । एवंविधं खशा पुत्रं विजज्ञे साऽतिभीषणम् ॥ ७९
तस्यानुजं द्वितीयं तु खशा चैव व्यजायत । त्रिशीर्षं च त्रिपदं च त्रिहस्तं कृष्णलोचनम् ॥ ८०
ऊर्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् । ह्रस्वकायं सुबाहुं च महाकायं महाबलम् ॥ ८१
आकर्णदारितास्यं च लम्बभ्रूं स्थूलनासिकम् । स्थूलोष्ठमष्टदंष्ट्रं च द्विजिव्हं शङ्कुकर्णकम् ॥ ८२


* धनुश्चिह्नान्तर्गतग्रन्थः क पुस्तके नास्ति ।

२५६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०६९-श्लो०८३-१०२]
( कश्यपीयप्रजासर्गः)

पिङ्गलोद्धृतनयनं जटिलं पिङ्गलं तथा । महाकर्णं महोरस्कं कटिहीनं कृशोदरम् ॥
नखिनं लोहितग्रीवं सा कनिष्ठं प्रसूतये ॥ ८३
सद्यः प्रसूतमात्रौ तु विवृद्धौ च प्रमाणतः । उपभोगसमर्थाभ्यां शरीराभ्यामुपस्थितौ ॥
सद्योजातविवृद्धाङ्गौ मातरं पर्यभूषताम् । ८४
ज्यायांस्तयोस्तु यः क्रूरो मातरं सोऽभ्यकर्षत । अब्रवीन्मातरायाहि भक्षार्थे क्षुधयाऽर्दितः ॥ ८५
न्यषेधयत्सुतस्त्वेनं ज्यायांसं तु कनिष्ठकः । अब्रवीत्सोऽसकृत्तं वै रक्षेमां मातरं खशाम् ॥
बाहुभ्यां परिगृह्यैनं मातरं तां व्यमोचयत् ॥ ८६
एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता । तौ दृष्ट्वा विकृताचारौ वसतां हीत्याभाषत ॥ ८७
तौ तु तं पितरं दृष्ट्वा बलवन्तौ त्वरान्वितौ । मातुरेव पुनश्चाङ्के प्रलपेतां स्वमायया ॥ ८८
अथाब्रवीदृषिभार्यामावाभ्यामुक्तवत्यसि । पूर्वमाचक्ष्व तत्त्वेन तथैवाऽऽभ्यां व्यतिक्रमम् ॥ ८९
मातुलं भजते पुत्रः पितॄन्भजति कन्यका । यथाशीला भवेन्माता तथाशीलो भवेत्सुतः ॥ ९०
यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम् । मातृणां शीलदोषेण तथा शीलगुणैः पुनः ॥
विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च ॥ ९१
बलशीलादिभिस्तासामदितिर्धर्मतत्परा । * गन्धशीला दितिश्चैव प्रवाध्ययनशालिनी ॥
धर्मशीलादिभिश्चैव प्रबोधबलशालिनी ॥ ९२
गीतशीला तथाऽरिष्टा मायाशीला दनुः स्मृता । विनता तु पुनर्देवी वैहायसगतिप्रिया ॥ ९३
तपोमयेन शीलेन सुरभिः समलंकृता । क्रोधशीला तथा कद्रूः क्रोधेनासुखशीलका ॥ ९४
दनायुषायाः शीलं वै वैराद्यनुग्रहलक्षणम् । त्वं च देवि महाभागे क्रोधशीला मताऽसि मे ॥ ९५
इत्येतानि स्वशीलानि स्वभावालोकनान्नृणाम् । कर्मतो यत्नतो बुद्ध्या रूपतो बलतस्तथा ॥
क्षमातश्चैव भिन्नानि भावितातार्थबलेन च ॥ ९६
रजःसत्त्वतमोवृत्तेर्विश्वरूपाः स्वभावतः । मातुलं त्वनुयातास्ते पुत्रका गुणवृत्तिभिः ॥ ९७
इत्येवमुक्त्वा भगतान्खशामप्रतिमां तदा । पुत्रावाहूय साम्ना वै चक्रे सोममभीतयः (?) ॥ ९८
ताभ्यां च यत्कृतं तस्यास्तदाचष्ट तदा खशा । मात्रा यथा समाख्यातं कर्म ताभ्यां पृथक्पृथक्
तेन धात्वर्थयोगेन तत्वदर्शी चकार ह ॥ ९९
यक्ष इत्येष धातुर्वै खादने क्षपणे च सः । यक्षयत्युक्तवान्यस्मात्तस्माद्यक्षो भवत्ययम् ॥ १००
रक्ष इत्येष धातुर्यः पालने स विभाव्यते । उक्तवांश्चैव यस्मात्तु रक्ष मे मातरं खशाम् ॥
नाम्नाऽयं राक्षसस्तस्माद्भविष्यति तवाऽऽत्मजः ॥ १०१
स तदा तद्विधान्दृष्ट्वा विज्ञाय तु तयोः पिता । तथा भाविनमर्थं च बुद्ध्वा मातृकृतं तयोः ॥ १०२


* इदमर्धं नास्ति क. पुस्तके ।

[अ०६९श्लो०१०३-१२९] वायुपुराणम्। २५७
(कश्यपीयप्रजासर्गः)
तावभौ क्षुधितौ दृष्ट्वा विस्मितः परिमृग्य च। तयोः प्रादिशदाहारं प्रजापतिरसुग्वसे ॥ १०३
पिता तौ क्षुधितौ दृष्ट्वा वरं चेमं तयोर्ददौ। युवयोर्हस्तसंस्पर्शो नक्तमेव तु सर्वशः ॥ १०४
नक्ताहारविहारौ च दिवास्वमोपभोगिनौ। नक्तं चैव बलीयांसौ दिवास्वमावुभौ युवाम् ॥ १०५
मातरं रक्षतं चैव धर्मश्चैवानुशिष्यताम्। इत्युक्त्वा कश्यपः पुत्रौ तत्रैवान्तरधीयत ॥ १०६
गते पितरि तौ वीरौ निसर्गादेव दारुणौ। विपर्ययेण वर्तन्तौ किंभक्षौ पाणिहिंसकौ ॥ १०७
महाबलौ महासत्त्वौ महाकायौ दुरासदौ। मायाविनौ च दृप्तौ तावन्तर्धानगतावुभौ ॥ १०८
तौ कामरूपिणौ घोरौ विकृताङ्गौ स्वभावतः। रूपानुरूपैराहारैः प्रभवेतामुभावपि ॥ १०९
देवासुरानृषींश्चैव गन्धर्वान्किन्नरानपि। पिशाचांश्च मनुष्यांश्च पन्नगान्याक्षिणः पशून् ॥ ११०
भक्षार्थमपि लिप्सन्तौ सर्वतस्तौ निशाचरौ। इन्द्रण तु वरौ चैव धृतौ दत्त्वा त्ववध्यताम् ॥ १११
यक्षस्तु न कदाचिद्वै निशीथे ह्येककश्चिरम्। आहारं स परीप्सन्वैन शब्देनानुच्चार ह ॥ ११२
आससाद पिशाचौ द्वौ जनुचण्डौ च तावुभौ। पिङ्गाक्षावूर्ध्वरोमाणौ वृत्ताक्षौ तु सुदारुणौ ॥ ११३
अत्तृङ्मांसवसाहारौ पुरुषादौ महाबलौ। कन्याभ्यां सहितौ तौ तु ताभ्यां प्रियचिकीर्षया ॥ ११४
द्वे कन्ये कामरूपिण्यौ तदाचारे च ते शुभे। आहारार्थमटन्तौ तौ कन्याभ्यां सहितावुभौ ॥ ११५
तेऽपश्यन्राक्षसं तत्र कामरूपं महाबलम्। सहसा संनिपाते तु दृष्ट्वा चैव परस्परम् ॥ ११६
रक्षमाणौ ततोऽन्योन्यं परस्पराजिघृक्षवः। पितरावूचतुः कन्ये युवामानयतं द्रुतम् ॥ ११७
जीवग्राह्ये विगृह्यैनं विस्फुरन्तं पदे पदे। ततः समभिसृत्यैनं कन्ये जगृहतुस्तदा ॥
गृहीत्वा हस्तयोस्ताभ्यामानीते पितृसंसदि ॥ ११८
ताभ्यां करे गृहीतं तं पिशाचावथ राक्षसम्। पृच्छतां कोऽसि कस्य त्वं स च सर्वमभाषत ॥ ११९
तस्य कर्माभिविज्ञातं ज्ञात्वा तौ राक्षसर्पभौ। अजस्य खण्डं तस्यैते प्रत्यपादयतां सुते ॥ १२०
तौ तुष्टौ कर्मणा तस्य कन्ये द्वे ददतुस्तु ते ॥ १२१
पैशाचेन विवाहेन सुदत्या बुद्धवाहनः। अजः खण्डश्च ताभ्यां तौ तदाश्रावयतां धनम् ॥ १२२
इयं ब्रह्मधना नाम मम कन्या ह्यलोमिका। ब्रह्मसत्वधनाहारा इति खण्डोऽभ्यभाषत ॥ १२३
इयं जन्तुधना नाम कन्या सर्वाङ्गसुन्दरी। जन्तवोऽस्या धनाहारास्तावश्रावयतां धनम् ॥ १२४
सर्वाङ्गकेशी नाम्ना च कन्या जन्तुधना तथा। अकर्णान्ताऽप्यरोमा च कन्या ब्रह्मधना तु या ॥
ब्रह्मधनं प्रसूता सा तत्फलां चैव कन्यका। एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम् ॥
तयोः प्रजाविसर्गं च ब्रुवतो मे निबोधत ॥ १२६
हेतृप्रहेतुरुग्रश्च(?) पौरुषेयो वधस्तथा। विस्फूर्जिश्चैव वातश्च आपो व्याघ्रस्तथैव च ॥ १२७
सर्पेश्च राक्षसा ह्येते यातुधानात्मजा दश। सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति च ॥ १२८
हेतुपुत्रस्तथा लङ्कुर्लङ्कोद्गीवेव चात्मजौ। माल्यवांश्च सुमाली च प्रहेतुतनयाञ्शृणु ॥
प्रहेतुतनयः श्रीमान्पुलोमा नामविश्रुतः ॥ १२९
३३

२५८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६९श्लो०१३०-१५४]
( कश्यपीयप्रजासर्गः )

वधपुत्रौ दुराचारौ विघ्नश्च शमनश्च ह । विद्युत्पुत्रौ दुराचारो रुमनो नाम राक्षसः ॥
स्फूर्जपुत्रा निकुम्भश्च क्रूरो वै ब्रह्मराक्षसः । वातपुत्रौ विरागस्तु आपपुत्रस्तु जम्बुकः ॥ १३०
व्याघ्रपुत्रो निरानन्दो जन्तूनां विघ्नकारकः । इत्येते वै पराक्रान्ताः क्रूराः सर्वे तु राक्षसाः ॥ १३१
कीर्तिता यातुधानास्तु ब्रह्मधानान्निबोधत । यज्ञः पिता धुनिः क्षेमो ब्रह्म पापोऽथ यज्ञहा ॥ १३२
स्वाकोटकः कलिः सर्पो ब्रह्मधानात्मजा दश । स्वसारो ब्रह्मराक्षस्यस्तेषां चेमाः सुदारुणाः ॥ १३३
रक्तकर्णा महाजिह्वाऽक्षया चैवोपहारिणी । एतेषामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ॥ १३४
श्लेष्मातकतरुष्वेते प्रायशस्तु कृतालयाः । इत्येते राक्षसाः क्रान्ता यक्षस्यापि निबोधत ॥ १३५
चकमेऽप्सरसं यक्षः पञ्चस्थूलां ऋतुस्थलीम् । तां लिप्सुश्चिन्तयानश्च नन्दनं स चचार ह ॥ १३६
वैभ्राजं सुरभिं चैव तथा चैत्ररथं च यत् । दृष्टवान्नन्दने तस्मिन्नप्सरोभिः सहासतीम् ॥ १३७
नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन् । दूषितः स्वेन रूपेण कर्मणा तेन दूषितः ॥ १३८
ममोद्विजन्ते भूतानि भयावृत्तस्य सर्वशः । तत्कथं नाम चार्वङ्गी प्रामुयामहमङ्गनाम् ॥ १३९
दृष्टोपायं ततः सोऽथ शीघ्रकारी व्यवर्तत । कृत्वा रूपं वसुरुचेर्गन्धर्वस्य तु गुह्यकः ॥
ततः सोऽप्सरसां मध्ये तां जग्राह ऋतुस्थलीम् ॥ १४०
बुद्ध्वा वसुरुचिं तं सा भावेनैवाभ्यवर्तत । संवृतः स तया सार्धं दृश्यमानोऽप्सरोगणैः ॥ १४१
तत्र संसिद्धकरणः सद्यो जातः सुतोऽस्य वै । परिणाहोच्चैर्युक्तः सद्यो वृद्धो ज्वलञ्श्रिया ॥
राजाऽहमिति नाभिर्हि पितरं सोऽभ्यभाषत । तवात्र जाते न भीतिः पिता तं प्रत्युवाच ह ॥ १४३
मात्राऽनुरूपो रूपेण पितुर्वीर्येण जायते । जाते स तस्मिन्हर्षेण स्वरूपं प्रत्यपद्यत ॥ १४४
स्वभावं प्रतिपद्यन्ते बृहन्तो यक्षराक्षसाः । म्रियमाणाः प्रसूताश्च क्रुद्धा भीताः प्रहर्षिताः ॥ १४५
ततोऽब्रवीदप्सरसं स्मयमानः स गुह्यकः । गृहं मे गच्छ सुश्रोणि सपुत्रा वरवर्णिनी ॥ १४६
इत्युक्ता सहसा तं च दृष्ट्वा स्वं रूपमास्थितम् । विभ्रान्ताः प्राद्रवन्भीताः क्रोधमानाप्सरोगणाः ॥
गच्छन्तीरन्वगच्छद्या पुत्रस्तां सान्त्वयन्निरा । गन्धर्वाप्सरसां मध्ये तां नीत्वा स न्यवर्तत ॥ १४८
तां च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः । यक्षाणां त्वं जनित्रीति प्रोचुस्तां वै ऋतुस्थलीम् ॥
जगाम सह पुत्रेण ततो यक्षः स्वमालयम् । न्यग्रोधरोहिणं नाम गुह्यका यत्र शेरते ॥
तस्मान्निवासो यक्षाणां न्यग्रोधः सर्वतः प्रियः ॥ १५०
यक्षो रजतनाभस्तु गुह्यकानां पितामहः । अनुह्रादस्य दैत्यस्य भद्रामतिवरां सुताम् ॥
उपयेमे स भद्रायां यस्यां मणिवरो वशी ॥ १५१
जज्ञे सा मणिभद्रं च शक्रतुल्यपराक्रमम् । तयोः पत्न्यौ भगिन्यौ तु ऋतुस्थल्यात्मजे शुभे ॥ १५२
नाम्ना पुण्यजनी चैव तथा देवजनी च या । विजज्ञे मणिभद्रात्तु पुत्रान्पुण्यजनी शुभान् ॥ १५३
सिद्धार्थं सूर्यतेजं च सुमन्तं नन्दनं तथा । कन्यकं यविकं चैव मणिदत्तं वसुं तथा ॥ १५४

[अ० ६९ श्लो० १५५-१८०] वायुपुराणम्। ३५९
( कश्यपीयप्रजासर्गः )
सर्वानुभूतं शङ्खं च पिङ्गाक्षं भीरुमेव च। तथा मन्दरशोभि च पद्मं चन्द्रप्रभं तथा॥ १५५
मेघपूर्णं सुभद्रं च प्रद्योतं च महौजसम् । द्युतिमत्केतुमन्तौ च मित्रं मौलिसुदर्शनौ ॥ १५६
चत्वारो विंशतिश्चैव पुत्राः पुण्यजनाः शुभाः। जज्ञिरे मणिभद्रस्य ते सर्वे पुण्यलक्षणाः॥
तेषां पुत्राश्च पौत्राश्च यक्षाः पुण्यजनाः शुभाः॥ १५७
विजज्ञे देवजननी पुत्रान्मणिवरात्मजात्। पूर्णभद्रं हेमरथं मणिमन्नन्दिवर्धनी॥ १५८
कुस्तुम्बुरुं पिशाङ्गाभं स्थूलकर्णं महाजयम्। श्वेतं च विपुलं चैव पुष्पवन्तं भयावहम्॥ १५९
'पद्मवर्णं सुनेत्रं च पक्षं बालं बकं तथा। कुमुदं क्षेमकं चैव वर्धमानं तथा दमम्॥ १६०
पद्मनाभं वराङ्गं च सुवीरं विजयं कृतिम्। पूर्णमासं हिरण्याक्षं सुरूपं चैवमादयः॥ १६१
पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः। सुरूपाश्च विरूपाश्च स्रग्विणः पियदर्शनाः॥ १६२
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः॥ १६३
खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः। तेषां यथा प्रधानान्वै वर्ण्यमानान्निबोधत॥ १६४
लालाविः कुथनो भीमः सुमाली मधुरेव च। विस्फूर्जितो विद्युज्जिह्वो मातङ्गो धूम्रितस्तथा॥ १६५
चन्द्रार्कः सुकरो बुधः कपिलोमः महासकः। क्रीडः परशुनाभश्च चक्राक्षश्च निशाचरः॥ १६६
त्रिशिराः शतदंष्ट्रश्च तुण्डकेशश्च राक्षसः। यक्षश्चाकम्पनश्चैव दुर्मुखश्च शिलीमुखः॥ १६७
इत्येते राक्षसवर विक्रान्ता गणरूपिणः। सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः॥ १६८
सप्त चान्या दुहितरस्ताः शृणुध्वं यथाक्रमम्। तासां च यः प्रजासर्गो येन चोत्पादिता गणाः॥
आलम्बा उत्कचा कृष्णा निर्ऋता कपिला शिवा। केशिनी च महाभागा भगिन्यः सप्त याः स्मृताः
ताभ्यो लोकामिषादश्च हन्तारो युद्धदुर्मदाः। उदीर्णा राक्षसगणा इमे उत्पादिताः शुभाः॥ १७१
आलम्बेयो गणः क्रूर उत्कचेयो गणस्तथा। तथा कार्ष्णेयशैवेया राक्षसा ह्युत्तमा गणाः॥ १७२
तथैव नैर्ऋतो नाम त्र्यम्बकानुचरेण ह। उत्पादितः प्रजासर्गो गणेश्वरचरेण तु॥ १७३

  • उत्पादितां बलवता उदीर्णा यक्षराक्षसाः। विक्रान्ताः शौर्यसंपन्ना नैर्ऋता देवराक्षसाः॥
    येषामधिपतिर्युक्तो नाम्ना ख्यातो विरूपकः॥ १७४
    तेषां गणशतानेका उद्धतानां महात्मनाम्। प्रायेणानुचरन्त्येते शंकरं जगतः प्रभुम्॥ १७५
    दैत्यराजेन कुम्भेन महाकाया महात्मना। उत्पादिता महावीर्या महाबलपराक्रमाः॥ १७६
    कापिलया महावीर्या उदीर्णा दैत्यराक्षसाः। कम्पनेन च यक्षेण केशीन्यास्ते परे जनाः॥ १७७
    उत्पादिता बलवता उदीर्णा यक्षराक्षसाः। केशिनीदुहितुश्चैव नीलायाः क्षुदमानसाः॥ १७८
    आलम्बेयेन जनिता नैकाः सुरासिकेन हि। नैला इति समाख्याता दुर्जया घोरविक्रमाः॥ १७९
    चरन्ति पृथिवीं कृत्स्नां तत्र ते देवलोकिकाः। बहुत्वाच्चैव सर्गस्य तेषां वक्तुं न शक्यते॥ १८०

* इदमर्धं नास्ति ख, ग, घ, ङ, पुस्तकेषु।

२६० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६९।श्लो० १८१-२०७]
(कश्यपीयप्रजासर्गः)

तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी । दुहिता स्वभावविकचा मन्दसत्त्वपराक्रमा ॥ १८१
तस्या अपि विरूपेण नैर्ऋतेनेह च प्रजाः । उत्पादिताः सुरा(?) घोराः शृणु तांस्त्वनुपूर्वशः॥ १८२
दंष्ट्राकरालाविकृता महाकर्णा महोदराः । हारका भीषकांश्चैव तथैव कामकाः परे ॥ १८३
वैनकाश्र्व पिशाचाश्र्व वाहकाः पाशकाः परे । भूमिराक्षसका ह्येते मन्दाः पुरुषविक्रमाः ॥ १८४
चरन्त्यदृष्टपूर्वाश्र्व नानाकारा ह्यनेकंशः । उत्कृष्टबलसत्त्वा ये ते च वै खेचराः स्मृताः ॥ १८५
लक्षमात्रेण चाऽऽकाशं स्वल्पाः स्वल्पं चरन्ति वै । एतैर्व्याप्तमिमं लोकं शतशोऽथ सहस्रशः ॥ १८६
भूमिराक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः । नानाप्रकारैराक्रान्ता नानादेशाः समन्ततः ॥ १८७
समासाभिहताश्चैव सृष्टो राक्षसमातरः । अष्टौ विभागा ह्येषां हि विख्याता अनुपूर्वशः ॥ १८८
भद्रका निकराः केचिद्यज्ञनिष्पत्तिहेतुकाः (?) । सहस्रशतसंख्याता मर्त्यलोकविचारिणः ॥ १८९
पूतना मातृसामान्यास्तथा भूतभयंकराः । बालानां मानुषे लोके ग्रहा वैमानहेतुकाः ॥ १९०
स्कन्दग्रहादयश्चैव आपकाश्चासकादयः । कौमारास्ते तु विज्ञेया बालानां ग्रहवृत्तयः ॥ १९१
स्कन्दग्रहाविशेषाणां मायिकानां तथैव च । पूतनानामभूतानां ये च लोकविनायकाः ॥ १९२
सहस्रशतसंख्यानां मर्त्यलोकविचारिणाम् । एवं गणशतान्येव चरन्ति पृथिवीमिमाम् ॥ १९३
यक्षाः पुण्यजना नाम तथा ये केऽपि गुह्यकाः । यक्षा देवजनाश्चैव तथा पुण्यजनाश्च ये ॥ १९४
गुह्यकानां च सर्वेषामगस्त्या ये च राक्षसाः । पौलस्त्या राक्षसा ये च विश्वामित्राश्च ये स्मृताः ॥
यक्षाणां राक्षसानां च पौलस्त्यागस्तयश्च ये । तेषां राजा महाराजः कुबेरो ह्यलकाधिपः ॥ १९६
यक्षा दृष्ट्वा पिबन्तीह नृणां मांसमसृग्वसाम् । रक्षांस्यनुप्रवेशेन पिशाचाः परिपीडनैः ॥ १९७
सर्वलक्षणसंपन्नाः समक्षेत्राश्च देवतैः । भास्वरा बलवन्तश्च ईश्वराः कामरूपिणः ॥ १९८
अनाभिभाष्या विक्रान्ताः सर्वलोकनमस्कृताः । सूक्ष्मास्त्वौजस्विनो मेध्या वरदा यज्ञियाश्च ये ॥
देवानां तुल्यधर्माणो ह्यसुराः सर्वशः स्मृताः । त्रिभिः पादैस्तु गन्धर्वा देवैर्हीनाः प्रभावतः ॥ १००
गन्धर्वेभ्यस्त्रिभिः पादैर्हीना वै सर्वगुह्यकाः । प्रभावतुल्या यक्षाणां विज्ञेयाः सर्वराक्षसाः ॥
ऐश्वर्यहीना यक्षेभ्यः पिशाचास्त्रिगुणं पुनः ॥ २०१
एवं धनेन रूपेण आयुषा च बलेन च । धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः ॥ २०२
देवासुरेभ्यो हीयन्ते त्रीन्पादान्वै परस्परम् । गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ॥ २०३

सूत उवाच—

अतः शृणुत भद्रं वः प्रजाः क्रोधवशात्मकाः । क्रोधायां कन्यका जज्ञे द्वादश ह्यात्मसंभवाः ॥
या भार्याः पुलहस्याऽऽसन्नामतस्ता निबोधत ॥ २०४
मृगी च मृगमन्दा च हरिर्भद्रा इरावती । भूता च कपिशा दंष्ट्रा निशा तिर्या तथैव च ॥
श्वेता चैव स्वरा चैव सुरसा चेति विश्रुताः ॥ २०५
मृग्यास्तु हरिणाः पुत्रा मृगाश्चान्याः शशास्तथा । न्यङ्कवः शरभा ये च रुरवः पृषताश्च ये ॥
मृगराजा मृगमन्दाया गवयाश्चापरे तथा । महिषोष्ट्रवराहाश्च खड्गगौरमुखास्तथा ॥ २०७

[अ०६९श्लो०२०८-२३०] वायुपुराणम् । २६१

(कश्यपीयप्रजासर्गः)

हरेस्तु हरयः पुत्रा गोलाङ्गूलतरक्षवः । वानराः किंनराश्चैव व्याघ्राः किंपुरुषास्तथा ॥
इत्येवमादयोऽन्येऽपि इरावत्या निबोधत ॥ २०८
* सूर्यस्याण्डकपाले द्वे समानीय तु भौवनः । हस्ताभ्यां परिगृह्याथ रथंतरमगायत ॥ २०९
साम्ना प्रसूयमानेन सद्य एव गजोऽभवत् । स प्रागच्छदिरावत्यै पुत्रार्थे स तु भौवनः ॥ २१०
इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः । देवराजोपवाह्यत्वात्प्रथमः स मतङ्गराट् ॥
शुभ्राभ्राम्रभ्रतुर्दंष्ट्रः श्रीमानैरावतो गजः ॥ २११
अप्सुजस्यैकमूलस्य सुवर्णामस्य हस्तिजः । षड्दन्तस्य हि भद्रस्य औपवाह्यश्व वै बलः ॥ २१२
तस्य पुत्रोऽञ्जनश्चैव सुप्रतीकोऽथ वामनः । पद्मश्चैव चतुर्थोऽभूद्धास्तिनी चाभ्रमुस्तथा ॥ २१३
दिग्गजांस्तांश्च चत्वा(तु)रः श्वेताऽजनयताऽऽशुगान् । भद्रं मृगं च मन्दं च संकीर्णं चतुरः सुतान् ॥
संकीर्णोऽप्यञ्जनो यस्तु उपवाह्यो यमस्य तु । भद्रो यः सुप्रतीकस्तु हरितः स ह्यपांपतेः ॥ २१५
पद्मो मन्दस्तु यो गौरो द्विषो ह्यैलविलस्य सः । । मृगः श्यामस्तु यो हस्ती उपवाह्यः स पावकैः
पद्मोत्तरस्तु यः पद्मो गजां वै वरुणो गणः । उपलेपनमेषश्व तस्याष्टौ जज्ञिरे सुताः ॥ २१७
उदग्रभावेनोपेता जायन्ते तस्य चान्वये । श्वेतबालनखाः पिङ्गा वर्ष्मवन्तो मतङ्गजाः ॥
मतङ्गजान्प्रवक्ष्यामि नागानन्यानपि क्रमात् ॥ २१८
कपिलः पुण्डरीकश्च सुमनाभो रथान्तरः । जातौ नाम्ना सुतौ ताभ्यां सुप्रतिष्ठप्रमर्दनौ ॥ २१९
शूलाः स्थूलाः शिरोदान्ताः शुद्धबालनखास्तथा । बलिनः शक्तिनश्चैव मृतास्त्वाकुलिका गजाः
पुष्पदन्तो बृहतसामा षड्दन्तो दन्तपुष्पवान् । ताम्रवर्णी च तत्पुत्रः सहचारिविषाणितः ॥ २२१
अन्वये चास्य जायन्ते लम्बोष्ठाश्चारुदर्शिनः । श्यामाः सुदर्शनाश्चण्डा नानापीडायताननाः ॥ २२२
वामदेवोऽञ्जनश्यामः साम्नो जज्ञेऽथ वामनः । भार्या चैवाङ्गदा तस्य नीलवलक्षणौ सुतौ ॥ २२३
चण्डाश्चारुशिरोग्रीवा व्यूढोरस्कास्तपस्विनः । नरैर्बद्धाः कुले तेषां जायन्ते विकृता गजाः ॥ २२४
सुप्रतीकस्तु रूपेण नास्त्यस्य सदृशो गजः । तस्य प्रहारी संपाती पृथुश्चात्तिसुतास्त्रयः ॥ २२५
पशवो दीर्घतालवोष्ठाः सुविभक्तशिरोदराः । जायन्ते मृदुसंभूता वंशे तस्य मतङ्गजाः ॥ २२६
अञ्जनादञ्जना साम्नो विजज्ञे चाञ्जानावती । + एवं माता तयोश्चापि प्रथितायुरजः सुतौ ॥ २२७
महाविभक्तशिरसः स्निग्धजीमूतसंनिभाः । सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः ॥
शूनाः पीतायतमुखा गजास्तस्यान्ययेऽभवन् ॥ २२८
जज्ञे चन्द्रमसः साम्नः पिङ्गला कुमुद्द्युतिः । पिङ्गलायाः सुतौ तस्यां महापद्मोर्मिमालिनौ ॥
समायवरदांश्चण्डान्प्रवृद्धबलिनोदरान् । हस्तियुद्धे प्रियान्नागान्विद्धि तस्य कुलोद्भवान् ॥ २३०


* इदमर्धं नास्ति घ. पुस्तके । + एतदर्थस्थान इदमर्धं 'पवमाना तयोश्चापि प्रथिताः पुरुजः सुतौ' इति ख. घ. ङ. पुस्तकेषु ।

२६२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ६९श्लो० २३१–२५७]
( कश्यपीयप्रजासर्गः )

एतान्देवासुरे युद्धे जयार्थे जगृहुः सुराः । कृतार्थैश्च विसृष्टास्तेः पूर्वोक्ताः प्रव्ययुर्दिशः ॥ २३१
एतेषामन्वये जातान्विनीतांस्त्रिदशा ददुः । अङ्गाय लोमपादाय सूत्रकाराय वै द्विपान् ॥ २३२
द्विरदो द्विरदाभ्यां च हस्ताद्धस्ती करात्करी । वरणाद्वारणी दन्ती दन्ताभ्यां गर्जनाद्गजः ॥ २३३
कुञ्जरः कुञ्जचारित्वान्नागो नगविरोघतः । मत्वा यातीति मातङ्गो द्विपो द्वाभ्यां पिबन्स्मृतः ॥
सामजः सामजातत्वादिति निर्वचनक्रमः ॥ २३४
एषां जिह्वापरावृत्तिरि(र)वाक्त्वं ह्यभिशापजम् । बलस्यानवतो या तु या चैषां गूढमुष्कता ॥
उभयं दन्तिनामेतत्स्वयंभूसुरशापजम् ॥ २३५
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । कन्यासु जाता दिग्नागैर्नानासत्त्वास्ततो गजाः ॥ २३६
संभूतिश्च प्रभूतिश्च नामनिर्वचनं तथा । एतद्गजानां विज्ञेयं येषां राजा विभावसुः ॥ २३७
कौशिकाद्याः समुद्रात्तु गङ्गायास्तदनन्तरम् । अञ्जनस्यैकमूलस्य प्राच्यान्नागवनं तु तत् ॥ २३८
उत्तरा तस्य विन्ध्यस्य गङ्गाया दक्षिणे च यत् । गङ्गोद्भेदोत्करूषेभ्यः सुपतीकस्य तद्वनम् ॥
अपरेणोत्कलाच्चैव ह्यवेदिभ्यश्च पश्चिमम् । एकभूवात्मजस्यैतद्धामनस्य वनं स्मृतम्(?) ॥ २४०
अपरेण तु लौहित्यमासिन्धोः पश्चिमेन तु । यमस्यैतद्वनं प्रोक्तमनुपूर्वंतमेव तत् ॥ २४१
भूतिर्विजज्ञे भूतांश्च रुद्रस्यानुचरान्प्रभो । स्थूलांश्चांश्च दीर्घांश्च वामनान्ह्रस्वकान्समान् ॥ २४२
लम्बकर्णान्प्रलम्बोष्ठालम्बजिह्वास्तनोदरान् । एकरूपान्विरूपांश्च लम्बस्फिक्स्थूलपिण्डिकान् ॥ २४३
सरोवरसमुद्रादिनदीपुलिनवासिनः । कृष्णान्गौरांश्र नीलांश्च श्वेतांश्र लोहितारुणान् ॥ २४४
बभ्रून्व्रै शबलान्धूम्रान्कदून् राक्षसदारुणान् । मुञ्जकेशान्हृषीकेशान्सर्पयज्ञोपवीतिनः ॥ २४५
विसृष्टाक्षान्विरूपाक्षांल्लक्षाक्षानेकलोचनान् । बहुशीर्षान्विशीर्षांश्च एकशीर्षानशीर्षकान् ॥ २४६
चण्डांश्च विकटांश्चैव विरोमान्रोमशांस्तथा । अन्धांश्च जटिलांश्चैव कुब्जान्हेषकवामनात् ॥ २४७
सरोवरसमुद्रादिनदीपुलिनसेविनः । एककर्णान्महाकर्णान्शङ्कुकर्णानकर्णिकान् ॥ २४८
दंष्ट्रिणो नखिनश्चैव निर्दन्तांश्च द्विजिव्हिकान् । एकहस्तान्द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् ॥
एकपादान्द्विपादांश्च त्रिपादान्वहुपादकान् । महायोगान्महासत्त्वान्सुतपस्कान्महाबलान् ॥ २५०
सर्वत्रगानप्रतिघान्वलज्ञान्कामरूपिणः । घोरान्क्रूरांश्र मेध्यांश्च शिवान्पुण्यान्सवादिनः ॥ २५१
कुशहस्तान्महाजिह्वान्महाकर्णान्महाननान् । हस्तादांश्च सुखादांश्च शिरोदांश्र कपालिनः ॥ २५२
धन्विनो मुद्ररधरानासिशूलधरांस्तथा । दीप्तास्यान्दीप्तनेत्रांश्च चित्रमाल्यानुलेपनान् ॥ २५३
अन्नादान्पिशितादांश्च बहुरूपान्सुरूपकान् । रात्रिसंध्याचरान्घोरान्कांचित्सौम्यान्दिवाचरान् ॥
नक्तंचरान्सुदुःप्रेक्ष्यान्घोरांस्तान्व्रै निशाचरान् ॥ २५४ .
परत्वे च भवं देवं सर्वे ते गतमानसाः । नैषां भार्याऽऽस्ति पुत्रो वा सर्वे ते ह्यूड्वरेतसः ॥ २५५
शतं तानि सहस्राणि भूतानामात्मयोगिनाम् । एते सर्वे महात्मानो भूत्याः पुत्राः प्रकीर्तिताः ॥
कपिशा जज्ञे कूष्माण्डी कुप्माण्डाञ्जज्ञिरे पुनः । मिथुनानि पिशाचानां वर्णेन कपिशेन च ॥
कपिशत्वात्पिशाचास्ते सर्वे च पिशिताशनाः ॥ २५७