वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 266, कुल 465 में से
संदर्भ में पढ़ें[अ०६९श्लो०१०३-१२९] वायुपुराणम्। २५७
(कश्यपीयप्रजासर्गः)
तावभौ क्षुधितौ दृष्ट्वा विस्मितः परिमृग्य च। तयोः प्रादिशदाहारं प्रजापतिरसुग्वसे ॥ १०३
पिता तौ क्षुधितौ दृष्ट्वा वरं चेमं तयोर्ददौ। युवयोर्हस्तसंस्पर्शो नक्तमेव तु सर्वशः ॥ १०४
नक्ताहारविहारौ च दिवास्वमोपभोगिनौ। नक्तं चैव बलीयांसौ दिवास्वमावुभौ युवाम् ॥ १०५
मातरं रक्षतं चैव धर्मश्चैवानुशिष्यताम्। इत्युक्त्वा कश्यपः पुत्रौ तत्रैवान्तरधीयत ॥ १०६
गते पितरि तौ वीरौ निसर्गादेव दारुणौ। विपर्ययेण वर्तन्तौ किंभक्षौ पाणिहिंसकौ ॥ १०७
महाबलौ महासत्त्वौ महाकायौ दुरासदौ। मायाविनौ च दृप्तौ तावन्तर्धानगतावुभौ ॥ १०८
तौ कामरूपिणौ घोरौ विकृताङ्गौ स्वभावतः। रूपानुरूपैराहारैः प्रभवेतामुभावपि ॥ १०९
देवासुरानृषींश्चैव गन्धर्वान्किन्नरानपि। पिशाचांश्च मनुष्यांश्च पन्नगान्याक्षिणः पशून् ॥ ११०
भक्षार्थमपि लिप्सन्तौ सर्वतस्तौ निशाचरौ। इन्द्रण तु वरौ चैव धृतौ दत्त्वा त्ववध्यताम् ॥ १११
यक्षस्तु न कदाचिद्वै निशीथे ह्येककश्चिरम्। आहारं स परीप्सन्वैन शब्देनानुच्चार ह ॥ ११२
आससाद पिशाचौ द्वौ जनुचण्डौ च तावुभौ। पिङ्गाक्षावूर्ध्वरोमाणौ वृत्ताक्षौ तु सुदारुणौ ॥ ११३
अत्तृङ्मांसवसाहारौ पुरुषादौ महाबलौ। कन्याभ्यां सहितौ तौ तु ताभ्यां प्रियचिकीर्षया ॥ ११४
द्वे कन्ये कामरूपिण्यौ तदाचारे च ते शुभे। आहारार्थमटन्तौ तौ कन्याभ्यां सहितावुभौ ॥ ११५
तेऽपश्यन्राक्षसं तत्र कामरूपं महाबलम्। सहसा संनिपाते तु दृष्ट्वा चैव परस्परम् ॥ ११६
रक्षमाणौ ततोऽन्योन्यं परस्पराजिघृक्षवः। पितरावूचतुः कन्ये युवामानयतं द्रुतम् ॥ ११७
जीवग्राह्ये विगृह्यैनं विस्फुरन्तं पदे पदे। ततः समभिसृत्यैनं कन्ये जगृहतुस्तदा ॥
गृहीत्वा हस्तयोस्ताभ्यामानीते पितृसंसदि ॥ ११८
ताभ्यां करे गृहीतं तं पिशाचावथ राक्षसम्। पृच्छतां कोऽसि कस्य त्वं स च सर्वमभाषत ॥ ११९
तस्य कर्माभिविज्ञातं ज्ञात्वा तौ राक्षसर्पभौ। अजस्य खण्डं तस्यैते प्रत्यपादयतां सुते ॥ १२०
तौ तुष्टौ कर्मणा तस्य कन्ये द्वे ददतुस्तु ते ॥ १२१
पैशाचेन विवाहेन सुदत्या बुद्धवाहनः। अजः खण्डश्च ताभ्यां तौ तदाश्रावयतां धनम् ॥ १२२
इयं ब्रह्मधना नाम मम कन्या ह्यलोमिका। ब्रह्मसत्वधनाहारा इति खण्डोऽभ्यभाषत ॥ १२३
इयं जन्तुधना नाम कन्या सर्वाङ्गसुन्दरी। जन्तवोऽस्या धनाहारास्तावश्रावयतां धनम् ॥ १२४
सर्वाङ्गकेशी नाम्ना च कन्या जन्तुधना तथा। अकर्णान्ताऽप्यरोमा च कन्या ब्रह्मधना तु या ॥
ब्रह्मधनं प्रसूता सा तत्फलां चैव कन्यका। एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम् ॥
तयोः प्रजाविसर्गं च ब्रुवतो मे निबोधत ॥ १२६
हेतृप्रहेतुरुग्रश्च(?) पौरुषेयो वधस्तथा। विस्फूर्जिश्चैव वातश्च आपो व्याघ्रस्तथैव च ॥ १२७
सर्पेश्च राक्षसा ह्येते यातुधानात्मजा दश। सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति च ॥ १२८
हेतुपुत्रस्तथा लङ्कुर्लङ्कोद्गीवेव चात्मजौ। माल्यवांश्च सुमाली च प्रहेतुतनयाञ्शृणु ॥
प्रहेतुतनयः श्रीमान्पुलोमा नामविश्रुतः ॥ १२९
३३