सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 267, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 267

२५८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६९श्लो०१३०-१५४]
( कश्यपीयप्रजासर्गः )

वधपुत्रौ दुराचारौ विघ्नश्च शमनश्च ह । विद्युत्पुत्रौ दुराचारो रुमनो नाम राक्षसः ॥
स्फूर्जपुत्रा निकुम्भश्च क्रूरो वै ब्रह्मराक्षसः । वातपुत्रौ विरागस्तु आपपुत्रस्तु जम्बुकः ॥ १३०
व्याघ्रपुत्रो निरानन्दो जन्तूनां विघ्नकारकः । इत्येते वै पराक्रान्ताः क्रूराः सर्वे तु राक्षसाः ॥ १३१
कीर्तिता यातुधानास्तु ब्रह्मधानान्निबोधत । यज्ञः पिता धुनिः क्षेमो ब्रह्म पापोऽथ यज्ञहा ॥ १३२
स्वाकोटकः कलिः सर्पो ब्रह्मधानात्मजा दश । स्वसारो ब्रह्मराक्षस्यस्तेषां चेमाः सुदारुणाः ॥ १३३
रक्तकर्णा महाजिह्वाऽक्षया चैवोपहारिणी । एतेषामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ॥ १३४
श्लेष्मातकतरुष्वेते प्रायशस्तु कृतालयाः । इत्येते राक्षसाः क्रान्ता यक्षस्यापि निबोधत ॥ १३५
चकमेऽप्सरसं यक्षः पञ्चस्थूलां ऋतुस्थलीम् । तां लिप्सुश्चिन्तयानश्च नन्दनं स चचार ह ॥ १३६
वैभ्राजं सुरभिं चैव तथा चैत्ररथं च यत् । दृष्टवान्नन्दने तस्मिन्नप्सरोभिः सहासतीम् ॥ १३७
नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन् । दूषितः स्वेन रूपेण कर्मणा तेन दूषितः ॥ १३८
ममोद्विजन्ते भूतानि भयावृत्तस्य सर्वशः । तत्कथं नाम चार्वङ्गी प्रामुयामहमङ्गनाम् ॥ १३९
दृष्टोपायं ततः सोऽथ शीघ्रकारी व्यवर्तत । कृत्वा रूपं वसुरुचेर्गन्धर्वस्य तु गुह्यकः ॥
ततः सोऽप्सरसां मध्ये तां जग्राह ऋतुस्थलीम् ॥ १४०
बुद्ध्वा वसुरुचिं तं सा भावेनैवाभ्यवर्तत । संवृतः स तया सार्धं दृश्यमानोऽप्सरोगणैः ॥ १४१
तत्र संसिद्धकरणः सद्यो जातः सुतोऽस्य वै । परिणाहोच्चैर्युक्तः सद्यो वृद्धो ज्वलञ्श्रिया ॥
राजाऽहमिति नाभिर्हि पितरं सोऽभ्यभाषत । तवात्र जाते न भीतिः पिता तं प्रत्युवाच ह ॥ १४३
मात्राऽनुरूपो रूपेण पितुर्वीर्येण जायते । जाते स तस्मिन्हर्षेण स्वरूपं प्रत्यपद्यत ॥ १४४
स्वभावं प्रतिपद्यन्ते बृहन्तो यक्षराक्षसाः । म्रियमाणाः प्रसूताश्च क्रुद्धा भीताः प्रहर्षिताः ॥ १४५
ततोऽब्रवीदप्सरसं स्मयमानः स गुह्यकः । गृहं मे गच्छ सुश्रोणि सपुत्रा वरवर्णिनी ॥ १४६
इत्युक्ता सहसा तं च दृष्ट्वा स्वं रूपमास्थितम् । विभ्रान्ताः प्राद्रवन्भीताः क्रोधमानाप्सरोगणाः ॥
गच्छन्तीरन्वगच्छद्या पुत्रस्तां सान्त्वयन्निरा । गन्धर्वाप्सरसां मध्ये तां नीत्वा स न्यवर्तत ॥ १४८
तां च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः । यक्षाणां त्वं जनित्रीति प्रोचुस्तां वै ऋतुस्थलीम् ॥
जगाम सह पुत्रेण ततो यक्षः स्वमालयम् । न्यग्रोधरोहिणं नाम गुह्यका यत्र शेरते ॥
तस्मान्निवासो यक्षाणां न्यग्रोधः सर्वतः प्रियः ॥ १५०
यक्षो रजतनाभस्तु गुह्यकानां पितामहः । अनुह्रादस्य दैत्यस्य भद्रामतिवरां सुताम् ॥
उपयेमे स भद्रायां यस्यां मणिवरो वशी ॥ १५१
जज्ञे सा मणिभद्रं च शक्रतुल्यपराक्रमम् । तयोः पत्न्यौ भगिन्यौ तु ऋतुस्थल्यात्मजे शुभे ॥ १५२
नाम्ना पुण्यजनी चैव तथा देवजनी च या । विजज्ञे मणिभद्रात्तु पुत्रान्पुण्यजनी शुभान् ॥ १५३
सिद्धार्थं सूर्यतेजं च सुमन्तं नन्दनं तथा । कन्यकं यविकं चैव मणिदत्तं वसुं तथा ॥ १५४