सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 259, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 259

२५० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६८-श्लो० १२०-१३५/१]
(कश्यपीयप्रजासर्गः)

सप्तर्षयस्तथैवोर्ध्वमाध्रुवात्सप्तमस्तु यः । वातस्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ॥ १२०
एतस्सर्वं चरन्त्येते काले काले ममाऽऽत्मजाः । त्वत्कृतेन च नाम्ना वै भवन्तु मरुतस्त्विमे ॥ १२१
ततस्तेषां तु नामानि मातापुत्रौ प्रचक्रतुः । तत्कृते कर्मभिश्चैव मरुतो वै पृथक्पृथक् ॥ १२२
सत्त्वज्योतिस्तथाऽऽदित्यः सत्यज्योतिस्तथाऽपरः । तिर्यग्ज्योतिश्च सज्ज्योतिर्ज्योतिष्मानपरस्तथा ॥ १२३
प्रथमस्तु गणः प्रोक्तो द्वितीयं मे निबोधत । ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥ १२४
सत्यमित्रोऽभिमित्रश्च हरिमित्रस्तथाऽपरः । गण एष द्वितीयस्तु तृतीयं मे निबोधत ॥ १२५
ऋतः सत्यो ध्रुवो धर्ता विधर्ताऽथ विधारयः । ध्वान्तश्चैव धुनिश्शैव ह्युग्रो भीदस्तथैव च ॥
अभियुः साक्षिपश्चैवमाह्वयश्च गणः स्मृतः ॥ १२६
ईदृक्चैव तथाऽन्यादृग्यादृक्च प्रतिकृत्तथा । ऋक्तथा समितिश्चैव संरम्भश्च तथा गणः ॥ १२७
ईदृक्च पुरुषश्चैव अन्यादृक्षाच्च चेतसः । समितासमिवृक्षाच्च प्रतिदृक्षाच्च वै गणाः ॥ १२८
(*मरुतिद्वसरतश्चैव तथा देवो दिशोऽपरः । यजुश्चैवानुदक्सामस्तथाऽन्यो मानुषीविशः ॥
दैत्या देवाः समाख्याताः सप्तैते सप्तका गणाः ॥ १२९
एते ह्येकोनपञ्चाशन्मरुतो नामतः स्मृताः । प्रसंख्यातास्तथा ताभ्यां दित्या चेन्द्रेण चैव हि ॥ १२.
कृत्वा तेषां तु नामानि दितिरिन्द्रमुवाच ह । वातस्कन्धं चरन्त्वेते मम पुत्राश्च पुत्रक ॥
विचरन्तु च भद्रं ते देवैः सह ममाऽऽत्मजाः ॥ १३०
तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः । उवाच प्राञ्जलिर्भूत्वा मातर्भवतु तत्तथा ॥ १३१
सर्वमेतद्यथोक्तं ते भविष्यति न संशयः । देवभूता महात्मानः कुमारा देवसंमताः ॥
देवैः सह भविष्यन्ति यज्ञभाजस्तवाऽऽत्मजाः ॥ १३२
तस्माच्च मरुतो देवाः सर्वे चेन्द्रानुजामराः । विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तपस्विनः ॥ १३३
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोधनौ । जग्मतुस्त्रिदिवं हृष्टौ शक्रोऽपि त्रिदिवं गतः ॥ १३४
मरुतां हि शुभं जन्म शृणुयाद्यः पठेत् वा । नावृतिभयमाप्नोति बह्वायुश्च भवत्युत ॥ १३५
इति महापुराणे वायुप्रोक्ते उपोद्घातपादे कश्यपीयप्रजासर्गे नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥

आदितः श्लोकानां समष्ट्यङ्काः--६२१२


अथाष्टषष्टितमोऽध्यायः ।

कश्यपीयप्रजासर्गः ।

सूत उवाच--
अत ऊर्ध्वं प्रवक्ष्यामि दनुपुत्रान्निबोधत । अभवन्दनुपुत्रास्तु वंशे ख्याता महासुराः ॥ १


* धनुश्चिह्नान्तर्गतग्रन्थः क. घ. पुस्तकेयोर्नास्ति ।