सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 154, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 154

[अ०४८श्लो०१३-४०] वायुराणम् । १४५
( भुवनविन्यासः )
जम्बूद्वीपप्रदेशास्तु षडन्ये विविधाश्रयाः । अत्र द्वीपाः समाख्याता नानारत्नाकराः क्षितौ ॥ १३
अङ्गद्वीपं यमद्वीपं मलयद्वीपमेव च । *शङ्खद्वीपं कुशद्वीपं वराहद्वीपमेव च ॥ १४
अङ्गद्वीपं निबोध त्वं नानासत्त्वसमाकुलम् । नानाम्लेच्छगणाकीर्णं तद्दीपं बहुविस्तरम् ॥ १५
हेमविद्रुमपूर्णानां रत्नानामाकरं क्षितौ। नदीशैलवनैश्चित्रं संनिभं लवणाम्भसा ॥ १६
तत्र चक्रगिरिर्नाम नैकनिर्झरकन्दरः । तत्र सा तु दरी चास्य नानासत्त्वसमाश्रया ॥ १७
स मध्ये नागदेशस्य नैकदेशो महागिरिः । कोटिभ्यां नागानिलयं प्राप्तो नदनदीपतिम् ॥ १८
यमद्वीपमिति प्रोक्तं नानारत्नाकराचितम् । (÷तत्रापि द्युतिमान्नाम पर्वतो धातुमण्डितः ॥ १९
समुद्रगानां( णां ) प्रभवः प्रभवः काञ्चनस्य तु ॥ २०
तथैव मलयद्वीपमेवमेव सुसंवृतम् ।) मणिरत्नाकरं स्फीतमाकरं कनकस्य च ॥ २१
आकरं चन्दनानां च समुद्राणां तथाऽऽकरम् । नानाम्लेच्छगणाकीर्णं नदीपर्वतमण्डितम् ॥ २२
तत्र श्रीमांस्तु मलयः पर्वतो रजताकरः । महामलय इत्येवं विख्यातो वरपर्वतः ॥
द्वितीयं मन्दरं नाम प्रथितं च सदा क्षितौ । +नानापुष्पफलोपेतं रम्यं देवर्षिसेवितम् ॥ २३
अगस्त्यभवनं तत्र देवासुरनमस्कृतम् ॥ २४
तथा काञ्चनपादस्य मलयस्यापरस्य हि । निकुञ्जस्तृणसोमाङ्गैराश्रमं पुण्यसेवितम् ॥ २५
नानापुष्पफलोपेतं स्वर्गादपि विशिष्यते । तत्रावतरते स्वर्गः सदा पर्वसु पर्वसु ॥ २६
तथा त्रिकूटनिलये नानाधातुविभूषिते । अनेकयोजनोत्सेधे चित्रसानुदरगृहे ॥ २७
तस्य कूटतटे रम्ये हेमप्राकारतोरणा । निर्यूहवलभी चित्रा हर्म्यप्रासादमालिनी ॥ २८
शतयोजनविस्तीर्णा त्रिंशदायामियोजना । नित्यप्रमुदिता स्फीता लङ्का नाम महापुरी ॥
सा कामरूपिणां स्थानं राक्षसानां महात्मनाम् । आवासो बलदृप्तानां तद्विद्यादेवविद्विषाम् ॥ २९
मानुषाणामसंबाधा ह्यगम्या सा महापुरी ॥ ३०
तस्य द्वीपस्य वै पूर्वे तीरे नदनदीपतेः । गोकर्णनामधेयस्य शंकरस्याऽऽलयं महत् ॥ ३१
तथैकाराज्यं विज्ञेयं शङ्खद्वीपसमाश्रितम् । शतयोजनविस्तीर्णं नानाम्लेच्छगणालयम् ॥ ३२
तत्र शङ्खगिरिर्नाम धौतशङ्खदलप्रभः नानारत्नाकरः पुण्यः पुण्यकृद्भिर्निषेवितः ॥ ३३
शङ्खनागा महापुण्या यस्मात्प्रभवते नदी । यत्र शङ्खमुखो नाम नागराजः कृतालयः ॥ ३४
तथैव कुमुदद्वीपं नानापुष्पोपशोभितम् । नानाग्रामसमाकीर्णं नानारत्नाकरं शिवम् ॥ ३५
कुमुदा नाम महाभागा दुष्टचित्तनिबर्हणी । महादेवस्य भगिनी प्रभाभिस्ताभिरिज्यते ॥ ३६
तथा वराहद्वीपे च नानाम्लेच्छगणाकुले । नानाजातिसमाकीर्णे नानाधिष्ठानपत्तने ॥ ३७
धनधान्ययुते स्फीते धर्मिष्ठजनसंकुले । नदीशैलवनैश्चित्रैर्बहुपुष्पफलोपमैः ॥ ३८
वराहपर्वतो नाम तत्र रम्यः शिलोच्चयः । अनेककन्दरदरीगुहानिर्झरशोभितः ॥ ३९
तस्मात्सुरसपानीया पुण्यतीर्थतरङ्गिणी । वाराही नाग वरदा प्रवृत्ता स्म महानदी ॥
वाराहरूपिणे तत्र विष्णवे प्रभविष्णवे । अनन्यदेवतास्तस्मै नमस्कुर्वन्ति वै प्रजाः ॥ ४०


* इदमर्धं नास्ति ख. पुस्तके। ÷ धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + इदमर्धं नास्ति क. ख. ग. पुस्तकेषु ।

१९