वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 411, कुल 465 में से
संदर्भ में पढ़ें४०२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०१ श्लो० ७४-९७]
( भूर्लोकादिव्यवस्थावर्णनम् )
सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्तयः । स्थितलोकस्थितत्वाच्च तेषां भूतं न विद्यते ॥ ७४
ऊचुः सनत्कुमाराद्याः सिद्धास्ते योगधर्मिणः । ख्यातिं नैमित्तिकीं तेषां पर्याये समुपस्थिते ॥ ७५
स्थानत्यागे मनश्चापि युगपत्संप्रवर्तते । ऊचुः सर्वे तदाऽन्योन्यं वैराजाः शुद्धबुद्धयः ॥ ७६
एवमेव महाभागाः प्रणवं संप्रविश्य ह । ब्रह्मलोके प्रवर्तामस्तन्नः श्रेयो भविष्यति ॥ ७७
एवमुक्त्वा तदा सर्वे ब्रह्मान्ते व्यवसायिनः । योजयित्वा तदाऽऽत्मानं वर्तन्ते योगधर्मिणः ॥ ७८
तत्रैव संप्रलीयन्ते शान्ता दीपार्चिषो यथा । ब्रह्मकायमवर्तन्त पुनरावृत्तिदुर्लभम् ॥ ७९
लोकं तं समनुप्राप्य सर्वे ते भावनामयम् । आनन्दं ब्रह्मणः प्राप्य अमृतत्वाय ते गताः ॥ ८०
* वैराजेभ्यस्तथैपोर्ध्वमन्तरे षड्गुणे सतः । ब्रह्मलोकः समाख्यातो यत्र ब्रह्मा पुरोहितः ॥ ८१
ते सर्वे प्रणवात्मानो बुद्धशुद्धतपास्तथा । आनन्दं ब्रह्मणः पाप्यामृतत्वं च भजन्त्युत ॥ ८२
द्वंद्वैस्ते नाभिभूयन्ते भावत्रयविवर्जिताः । आधिपत्यं विना तुल्या ब्राह्मणस्ते महौजसः ॥ ८३
प्रभावविजयैश्वर्यस्थितिवैराग्यदर्शनैः । ते ब्रह्मलौकिकाः सर्वे गतिं प्राप्य विवर्तनीम् ॥ ८४
ब्रह्मणा सह देवेश्व समाप्त प्रतिसंचरे । तपसोऽन्ते क्रियात्मानो बुद्धावस्था मनीषिणः ॥
अव्यक्ते संप्रलीयन्ते सर्वे ते क्षणदर्शिनः ॥ ८५
इत्येदमृतं शुक्लं नित्यमक्षयमव्ययम् । देवर्षयो ब्रह्मसत्रं सनातनमुपासते ॥ ८६
अपुनर्मार्गगादीनां तेषां चैवोर्ध्वरेतसाम् । कर्माभ्यासकृता शुद्धिर्वेदान्तेषूपलक्ष्यत ॥ ८७
तत्र तेऽभ्यासिनो युक्ताः परां काष्ठामुपासते । हित्वा शरीरं पाप्मानममृतत्वाय ते गताः ॥ ८८
वीतरागा जितक्रोधा निर्मोहाः सत्यवादिनः । शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ॥ ८९
निःसङ्गाः शुचयश्चैव ब्रह्मसायो (यु) ज्यगाः स्मृताः । अकामयुक्तैर्ये वीरास्तपोभिर्दग्धाकिल्विषाः
तेषामभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः ॥ ९०
एतद्ब्रह्मपदं दिव्यं परमं व्योम्नि भास्वरम् । यत्र गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह ॥ ९१
ऋषय ऊचुः--
कस्मादेष परार्धश्च कश्चैष पर उच्यते । एतद्वेदितुमिच्छामस्तन्नो निगद ससम ॥ ९२
सूत उवाच--
शृणुध्वं मे परार्थे च परिसंख्यां परस्य च । एकं दश शतं चैव सहस्रं चैव संख्यया ॥ ९३
विज्ञेयमासहस्रं तु सहस्राणि दशायुतम् । एकं शतसहस्रं तु नियुतं प्रोच्यते बुधैः ॥ ९४
तथा शतसहस्राणामर्बुदं कोटिरुच्यते । अर्बुदं दश कोट्यस्तु अब्जं कोटिशतं विदुः ॥ ९५
सहस्रमपि कोटीनां खर्वमाहुर्मनीषिणः । दशकोटिसहस्राणि निखर्वमिति तं विदुः ॥ ९६
शतं कोटिसहस्राणां शङ्कुरित्याभिधीयते । सहस्रं तु सहस्राणां कोटीनां दशधा पुनः ॥
गुणितानि समुद्रं वै प्राहुः संख्याविदो जनाः ॥ ९७
* इत आरभ्य 'भजन्त्यत' इत्यन्तग्रन्थो घ. पुस्तके नास्ति ।