सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

( विष्णुमाहात्म्यकथनम् )

[अ० ९७-श्लो० १०१-१२७] वायुपुराणम् । ३६१

( विष्णुमाहात्म्यकथनम् )
ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान् । समरेऽस्वक्षतार्तांस्तान्देवेभ्यस्तान्दितेः सुतान् ॥ १०१
काव्यो दृष्ट्वा स्थितान्देवांस्तत्र देवोऽभ्यचिन्तयत् । तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन् ॥ १०२
त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिः क्रमैः । बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ॥ १०३
महार्हेषु द्वादशसु सङ्ग्रामेषु सुरैर्हताः । तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः ॥ १०४
किंचिच्छिष्टास्तु वै यूयं युद्धेष्वन्त्येषु वै स्वयम् । नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम्
यास्याम्यहं महादेवं यथार्थे विजयाय वः । अभिमाप्याययेद्धोता मन्त्रैरेव बृहस्पतिः ॥ १०६
ततो यास्यामहं देवं मन्त्रार्थे नीललोहितम् । युष्माननुग्रहीष्यामि पुनः पश्चादिहाऽऽगतः ॥ १०७
यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने । न वै देवा वधिष्यन्ति यावदागमनं मम ॥ १०८
अप्रतीपांस्ततो मन्त्रान्देवान्प्राप्य महेश्वरात् । [*योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् ॥
ततस्त कृतसंवादा देवानुचुस्ततोऽसुराः । न्यस्तवादा वयं सर्वे लोकान्यूयं क्रमन्तु वै ॥ ] ११०
वयं तपश्चरिष्यामः संवृता वल्कलैर्वने । प्रह्लादस्य वचः श्रुत्वा सत्यव्याहरणं तु तत् ॥ १११
ततो देवा निवृत्ता वै विज्वरा मुदिताश्च ह । न्यस्तशस्त्रेषु दैत्येषु स्वान्वै जन्मैर्यथाऽऽगतान् ॥
ततस्तानब्रवीत्काव्यः कंचित्कालमुपास्यताम् । निरुत्सुकेस्तपोयुक्तैः कालं कार्यार्थसाधकैः ॥
पितुर्ममाऽऽश्रमस्था वै सर्वे देवाः सवासवाः ॥ ११३
स संदिश्यासुरान्काव्यो महादेवं प्रपद्य च । प्रणम्यैनमुवाचाथ जगत्प्रभवमीश्वरम् ॥ ११४
मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ । पराभवाय देवानामसुरेष्वभयावहान् ॥ ११५
एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छासि वै द्विज । व्रतं चर मयोद्दिष्टं ब्रह्मचारी समाहितः ॥ ११६
पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्शिराः । यदि पास्यसि भद्रं ते मत्तो मन्त्रमवाप्स्यसि ॥ ११७
तथोक्तो देवदेवेन स शुक्रस्तु महातपाः । पादौ संस्पृश्य देवस्य बाढमित्यभ्यभाषत ॥ ११८
व्रतं चराम्यहं शेषं यथोद्दिष्टोऽस्मि वै प्रभो । ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत ॥ ११९
असुराणा हितार्थाय तस्मिञ्छुके गते तदा । मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे ॥ १२०
तद्बुद्ध्वा नीतिपूर्वं तु राज्यं न्यस्तं तदाऽसुरैः । तस्मिंश्छिद्रे तदाऽमर्षाद्देवास्तान्सामभिद्रवन् + ॥
निशितातायुधाः सर्वे बृहस्पतिपुरोगमाः ॥ १२१
दृष्ट्वाऽसुरगणा देवान्प्रगृहीतायुधान्पुनः । उत्पेतूः सहसा सर्वे संत्रस्तास्ते ततोऽभवन् ॥ १२२
न्यस्तशस्त्रे जये दत्ते आचार्ये व्रतमास्थिते । संत्यज्य समयं देवास्ते सपत्नान्जिघांसवः ॥ १२३
अनाचार्यांस्तु भद्रं वो विश्वस्तास्तपसि स्थिताः । चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः ॥
रणे विजेतुं देवान्वै न शक्ष्यामः कथंचन । अशुद्धेन(?) प्रपद्यामः शरणं काव्यमातरम् ॥ १२५
ज्ञापयामः कृतस्मिदं यावनागमनं गुरोः । विनिवृत्ते ततः काव्ये योत्स्यामो युधि तान्सुरान् ॥ १२६
एवमुक्त्वाऽसुरान्योन्यं शरणं काव्यमातरम् । प्रापद्यन्त ततो भीतास्तदा चैव तदाऽभयम् ॥ १२७


* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + अडभाव आर्षः ।

४६

३६२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १७ श्लो० १२८-१५४]

( विष्णुमाहात्म्यकथनम् )

दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम् । न भेतव्यं न भेतव्यं भयं त्यजत दानवाः ॥ १२८
मत्संनिधौ वर्ततां वो न भर्मिर्विनुमर्हति । भयाच्चाप्याभिपन्नांस्तान्दृष्ट्वा देवासुरांस्तदा ॥ १२९
जभिजघ्नुः प्रसह्यैतानाविचार्य बलाबलम् । तांस्त्रस्तान्वध्यमानांश्च देवैर्दृष्ट्वासुरांस्तदा ॥ १३०
देवी क्रुद्धाब्रवीदेनान्अनिद्रत्वं करोम्यहम् । संस्तम्भ्य शीघ्रं संरम्भादिन्द्रं साऽभ्यचरत्ततः ॥ १३१
ततः संस्तंभितं दृष्ट्वा शक्रं देवास्तु यूपवत् । व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् ॥ १३२
गतेषु सुरसंघेषु विष्णुमिन्द्रमभाषत । मां त्वं प्रविश भद्रं ते नेष्यामि त्वां सुरेश्वर ॥ १३३
एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः । विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत् ॥ १३४
एषा त्वां विष्णुना सार्धं दहामि मघवानिव(?) । मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ॥ १३५
तथाऽभिभूतौ तौ देवाविन्द्राविष्णू जजल्पतुः । कथं मुच्येव सहितौ विष्णुमिन्द्रमभाषत ॥ १३६
इन्द्रोऽब्रवीज्जहीह्येनां यावन्नौ न दहेद्विभो । विशेषाणाभिभूतोऽहमतस्त्वं जहि मा चिरम् ॥ १३७
ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्तुमास्थितः । अभिध्याय ततश्चक्रमापन्नः सत्वरं प्रभुः ॥ १३८
तस्याः सत्वरमणायाः शीघ्रकारी सुरारिहा । स्त्रिया विष्णुस्ततो देव्याः क्रूरं बुद्ध्वा चिकीर्षितम्
क्रुद्धस्तदस्त्रमाविध्य शिरश्चिच्छेद माधवः ॥ १३९
तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरिश्वरः । ततोऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा ॥ १४०
यस्मात्ते जानता धर्मानवध्या स्त्री निषूदिता । तस्मात्त्वं सप्तकृत्वो वै मानुषेषु प्रवत्स्यसि ॥ १४१
ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः । लोके सर्वहितार्थाय जायते मानुषेष्विह ॥ १४२
अनुव्याहृत्य विष्णुं स तदादाय शिरः स्वयम् । समानीय ततः काये अपो गृहेदमब्रवीत् ॥ १४३
एष त्वां विष्णुना सत्ये हतां संजीवयाम्यहम् । यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा ॥
तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ॥ १४४
सत्याभिवाहता तस्य देवी संजीविता तदा । तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् ॥ १४५
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव । साधु साध्वित्यदृश्यानां वाचस्ताः सस्वनुर्दिशः ॥ १४६
दृष्ट्वा संजीवितामेवं देवी तां भृगुणा तदा । मिषतां सर्व भूतानां तदद्भुतमिमाभवत् ॥ १४७
असंभ्रान्तेन भृगुणा पत्नीं संजीवितां ततः । दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः ॥ १४८
प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम् । ( *प्रोवाच मतिमान्वावाक्यं स्वां कन्यां पाकशासनः ॥
एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः । तेनाहं व्याकुलः पुत्रि कृतो धृतिमतो दृढम् ) ॥ १५०
गच्छ संभावयस्वैनं श्रमापनयनैः शुभैः । तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ॥ १५१
देवी सा हीन्द्रदुहिता जयन्ती शुभचारिणी । युक्तध्यानं च शाम्यन्तं दुर्बलं धृतिमास्थितम् ॥ १५२
पित्रा यथोक्तं काव्यं सा काव्ये कृतवती तदा । गीर्भिर्वैवानुकुलाभिः स्तुवती वल्गुभाषिणी ॥ १५३
गात्रसंवाहनैः काले सेधमाना सुखावहैः । शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ॥ १५४


* धनाचिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।