वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 370, कुल 465 में से
संदर्भ में पढ़ें[अ० ९७-श्लो० १०१-१२७] वायुपुराणम् । ३६१
( विष्णुमाहात्म्यकथनम् )
ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान् । समरेऽस्वक्षतार्तांस्तान्देवेभ्यस्तान्दितेः सुतान् ॥ १०१
काव्यो दृष्ट्वा स्थितान्देवांस्तत्र देवोऽभ्यचिन्तयत् । तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन् ॥ १०२
त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिः क्रमैः । बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ॥ १०३
महार्हेषु द्वादशसु सङ्ग्रामेषु सुरैर्हताः । तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः ॥ १०४
किंचिच्छिष्टास्तु वै यूयं युद्धेष्वन्त्येषु वै स्वयम् । नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम्
यास्याम्यहं महादेवं यथार्थे विजयाय वः । अभिमाप्याययेद्धोता मन्त्रैरेव बृहस्पतिः ॥ १०६
ततो यास्यामहं देवं मन्त्रार्थे नीललोहितम् । युष्माननुग्रहीष्यामि पुनः पश्चादिहाऽऽगतः ॥ १०७
यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने । न वै देवा वधिष्यन्ति यावदागमनं मम ॥ १०८
अप्रतीपांस्ततो मन्त्रान्देवान्प्राप्य महेश्वरात् । [*योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् ॥
ततस्त कृतसंवादा देवानुचुस्ततोऽसुराः । न्यस्तवादा वयं सर्वे लोकान्यूयं क्रमन्तु वै ॥ ] ११०
वयं तपश्चरिष्यामः संवृता वल्कलैर्वने । प्रह्लादस्य वचः श्रुत्वा सत्यव्याहरणं तु तत् ॥ १११
ततो देवा निवृत्ता वै विज्वरा मुदिताश्च ह । न्यस्तशस्त्रेषु दैत्येषु स्वान्वै जन्मैर्यथाऽऽगतान् ॥
ततस्तानब्रवीत्काव्यः कंचित्कालमुपास्यताम् । निरुत्सुकेस्तपोयुक्तैः कालं कार्यार्थसाधकैः ॥
पितुर्ममाऽऽश्रमस्था वै सर्वे देवाः सवासवाः ॥ ११३
स संदिश्यासुरान्काव्यो महादेवं प्रपद्य च । प्रणम्यैनमुवाचाथ जगत्प्रभवमीश्वरम् ॥ ११४
मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ । पराभवाय देवानामसुरेष्वभयावहान् ॥ ११५
एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छासि वै द्विज । व्रतं चर मयोद्दिष्टं ब्रह्मचारी समाहितः ॥ ११६
पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्शिराः । यदि पास्यसि भद्रं ते मत्तो मन्त्रमवाप्स्यसि ॥ ११७
तथोक्तो देवदेवेन स शुक्रस्तु महातपाः । पादौ संस्पृश्य देवस्य बाढमित्यभ्यभाषत ॥ ११८
व्रतं चराम्यहं शेषं यथोद्दिष्टोऽस्मि वै प्रभो । ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत ॥ ११९
असुराणा हितार्थाय तस्मिञ्छुके गते तदा । मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे ॥ १२०
तद्बुद्ध्वा नीतिपूर्वं तु राज्यं न्यस्तं तदाऽसुरैः । तस्मिंश्छिद्रे तदाऽमर्षाद्देवास्तान्सामभिद्रवन् + ॥
निशितातायुधाः सर्वे बृहस्पतिपुरोगमाः ॥ १२१
दृष्ट्वाऽसुरगणा देवान्प्रगृहीतायुधान्पुनः । उत्पेतूः सहसा सर्वे संत्रस्तास्ते ततोऽभवन् ॥ १२२
न्यस्तशस्त्रे जये दत्ते आचार्ये व्रतमास्थिते । संत्यज्य समयं देवास्ते सपत्नान्जिघांसवः ॥ १२३
अनाचार्यांस्तु भद्रं वो विश्वस्तास्तपसि स्थिताः । चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः ॥
रणे विजेतुं देवान्वै न शक्ष्यामः कथंचन । अशुद्धेन(?) प्रपद्यामः शरणं काव्यमातरम् ॥ १२५
ज्ञापयामः कृतस्मिदं यावनागमनं गुरोः । विनिवृत्ते ततः काव्ये योत्स्यामो युधि तान्सुरान् ॥ १२६
एवमुक्त्वाऽसुरान्योन्यं शरणं काव्यमातरम् । प्रापद्यन्त ततो भीतास्तदा चैव तदाऽभयम् ॥ १२७
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + अडभाव आर्षः ।
४६