वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
तत्र नागपतिश्चण्डश्चण्डो नाम दुरासदः। शतशीर्षो महाभागो विष्णुचक्राङ्कचिह्नितः ॥ ७३
| १२८ | श्रीमद्वैपायनमुनिप्रणीतम्– [अ०४१-४२श्लो०७३-१०१-५] |
|---|---|
| (भुवनविन्यासः) |
तत्र नागपतिश्चण्डश्चण्डो नाम दुरासदः। शतशीर्षो महाभागो विष्णुचक्राङ्कचिह्नितः ॥ ७३
इत्येवमष्टौ विज्ञेया विचित्रा देवपर्वताः ॥
पुरैरायतनैः पुण्यैः पुण्योदैश्च सरोबरैः। सुवर्णपर्वतैरनेकस्तथा रजतपर्वतैः ॥ ७४
नानारत्नप्रभासैश्च नैकैश्च मणिपर्वतैः। हरिदालपर्वतैरनैकैस्तथा हिङ्गुलकाध्वनैः ॥ ७५
शुद्धैर्मनःशिलाजालैर्भास्वरैरुणप्रभैः। नानाधातुविचित्रैश्च नैकैश्च मणिपर्वतैः ॥ ७६
पूर्णा वसुमती सर्वा गिरिभिर्नैकविस्तरैः। नदीकन्दरशैलाढ्यैरनेकचित्रसानुभिः ॥ ७७
(*तेषु शैलसहस्रेषु नानावर्णेषु नित्यशः। दैत्यदानवगन्धर्वयक्षाणां च महालयैः।) ७८
इत्येवमचलैर्युक्तैर्दैत्यराक्षससाधुभिः। किंनरौरगगन्धर्वैर्विचित्रैः सिद्धचारणैः ॥ ७९
गन्धर्वैरप्सरोभिश्च सेविता नैकविस्तराः। पुण्यकृद्भिः समाकीर्णाः केसराकृतयो नगाः ॥ ८०
गिरिजालं तु तन्मेरोः सिद्धलोकमिति स्मृतम्। चित्रं नानाश्रयोपेतं प्रचारं सुकृतात्मनाम् ॥ ८१
नात्युग्रकर्मसिद्धानां मतिमा मध्यमाः स्मृताः। स हि स्वर्ग इति ख्यातः क्रमस्तेष्वेष प्रकीर्तितः ॥ ८२
चतुर्महाद्वीपवती सेयमूर्वी प्रकीर्तिता। नानावर्णप्रमाणैर्हि नानावर्णबलैस्तथा ॥ ८३
नानाभक्ष्यान्नपानैश्च नानाच्छादनभूषणैः। प्रजाविकारैर्विविधैश्चित्रैरध्युषितैः सह ॥ ८४
चत्वारो नैकवर्णाढ्या महाद्वीपाः परिश्रुताः। भद्राश्व भरताश्चैव केतुमालाश्च पश्चिमाः ॥
उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥ ८५
सैषा चतुर्महाद्वीपा नानाद्वीपसमाकुला। पृथिवी कीर्तिता कृत्स्ना पद्माकारा मया द्विजाः ॥ ८६
तदेषा सान्तरद्वीपा सशैलवनकानना। पद्मेत्यभिहिता कृत्स्ना पृथिवी बहुविस्तरा ॥ ८७
सब्रह्मसदनं लोकं सदेवासुरमानुषम्। त्रिलोकमिति विख्यातं यत्सत्तैर्व्यवहार्यते ॥ ८८
चन्द्रादित्यावतप्तं यत्तज्जगत्परिगीयते। गन्धवर्णरसोपेतं शब्दस्पर्शगुणान्वितम् ॥ ८९
तं लोकपद्मं श्रुतिभिः पद्ममित्यभिधीयते। एष सर्वपुराणेषु क्रमः सुपरिनिश्चितः ॥ ९०
इति श्रीमहापुराणे वायुप्रोक्तेऽनुषङ्गपादे भुवनविन्यासो नाम चत्वारिंशोऽध्यायः ॥ ४१ ॥
आदितः श्लोकानां समष्ट्यङ्काः–३१०४
अथ द्विचत्वारिंशोऽध्यायः।
भुवनविन्यासः।
सूत उवाच–
सरोवरेभ्यः पुण्योदा देवनद्यो विनिर्गताः। महौघतोया नद्यश्च ताः शृणुध्वं यथाक्रमम् ॥ १
आकाशाम्भोनिधेर्योऽसौ सोम इत्यभिधीयते। आधारः सर्वभूतानां देवानाममृताकरः ॥ २
तस्मात्प्रवृत्ता पुण्योदा नदी ह्याकाशगामिनी। समेनानिलपथा प्रयाता विमलोदका ॥ ३
सा ज्योतिषि निवर्तन्ती ज्योतिर्गणनिषेविता। ताराकोटिसहस्राणां नभसश्च समायता ॥ ४
माहेन्द्रेण गजेन्द्रेण आकाशपथयायिना। क्रीडिता ह्यन्तरतले या सा विक्षोभितोदका ॥ ५
*धनुश्चिह्नान्तर्गतग्रन्थः क. ग. ङ. पुस्तकेषु नास्ति ।
[अ०४२ श्लो० ६-३५] वायुपुराणम् १२९
(: भुवनविन्यासः )
नैकैर्विमानसङ्घातैः प्रकामद्भिर्नभस्तलम् । सिद्धैरुपस्पृष्टजला महापुण्यजला शिवा ॥ ६
वायुना प्रेर्यमाणा च अनेकाभोगगामिनी । परिवर्तत्यहरहो य(हर्य)था सूर्यस्तथैव सा ॥ ७
चत्वार्यशीतिपतता योजनानां समन्ततः । वेगेन कुर्वती मेरुं सा प्रयाता प्रदक्षिणम् ॥ ८
विभिद्यमाना सलिलैस्तैजसेनानिलेन च । मेरोरुत्तरकूटेषु पतिताऽथ चतुर्ष्वपि ॥ ९
मेरुकूटतटान्तेभ्य उत्कृष्टेभ्यो निवर्तिता । विकीर्यमाणसलिला चतुर्धा संस्रुतोदका ॥ १०
षष्टियोजनसाहस्रं निरालम्बनमम्बरम् । निपपात महाभागा [* मेरोस्तस्य चतुर्दिशम् ॥ ११
सा चतुर्ध्वभितश्चैव महापादेषु शोभना । पुण्या मन्दरपूर्वेण पतिता हि महानदी ॥ १२
पूर्वेणांशेन देवानां सर्वसिद्धगणालयम् । सुवर्णचित्रकटकं नैकनिर्झरकन्दरम् ॥ १३
प्लावयन्ती शैलेन्द्रं मन्दरं चारुकन्दरम् । वप्रप्रतापशमनैरनेकः स्फाटिकोदकैः ॥ १४
तथा चैत्ररथं रम्यं प्लावयन्ती प्रदक्षिणम् । प्रविष्टा ह्यम्बरनदी ह्यरुणोदसरोवरम् ॥ १५
अरुणोदान्निवृत्ताऽथ शीतान्ते रम्यनिर्झरे । शैले सिद्धगणावासो निपपात सुगामिनी ॥ १६
सीता नाम महापुण्या नदीनां प्रवरा नदी । सा निकुञ्जनिरुद्धा तु अनेकाभोगगामिनी ॥ १७
शीतान्ताशिखराद्भ्रष्टा मुकुञ्जे पर्रपर्वते । निपपात महाभागा तस्मादपि सुमञ्झसम् ॥ १८
तस्मान्माल्यवतं शैलं भावयन्ती परापगा । वैकङ्कं समनुप्राप्ता वैकङ्कान्मणिपर्वतम् ॥
मणिपर्वतान्महाशैलमृषभं नैककन्दरम् ॥ १९
एवं शैलसहस्राणि दारयन्ती महानदी । पतिताऽथ महाशैले जठरे सिद्धसेविते ॥ २०
तस्मादपि महाशैलं देवकूटं तरङ्गिणी । तस्य कुक्षिसमुद्रान्ता क्रमेण पृथिवीं गता ॥ २१
सैवं स्थलीसहस्राणि शैलराजशतानि च । वनानि च विचित्राणि सरांसि विविधानि च ॥ २२
स्रावयन्ती महाभागा ] विस्फारैष्ववलोकदा । नदीसहस्रानुगता प्रवृत्ता च महानदी ॥ २३
भद्रार्थं समहाद्वीपं प्लावयन्ती वरापगा । प्रविष्टा ह्यर्णवं पूर्वं पूर्वे द्वीपे महानदी ॥ २४
दक्षिणेऽपि प्रपन्ना या शैलेन्द्रे गन्धमादने । चित्रैः प्रपातैर्विविधैर्नैकविस्फालितोदका ॥ २५
तद्गन्धमादनवनं नन्दनं देवनन्दनम् । प्लावयन्ती महाभागा प्रयाता सा प्रदक्षिणम् ॥ २६
नाम्ना ह्यलकनन्देति सर्वलोकेषु विश्रुता । प्रविशत्युत्तरसरो मानसं देवमानसम् ॥ २७
मानसाच्छैलराजानं रम्यं त्रिशिखरं गता । त्रिकूटाच्छैलशिखरात्कालिङ्गशिखरं गता ॥ २८
कालिङ्गशिखराद्भ्रष्टा रुचके निपपात सा । रुचकान्निषधं प्राप्ता ताम्राभं निषधादपि ॥ २९
ताम्राभशिखराद्भ्रष्टा गता श्वेतोदरं गिरिम् । तस्मात्सुमूलं शैलेन्द्रं वसुधारं च पर्वतम् ॥ ३०
हेमकूटं गता तस्माद्देवशृङ्गे ततो गता । तस्माद्गता महाशैलं ततश्चापि पिशाचकम् ॥ ३१
पिशाचकाच्छैलवरात्पञ्चकूटं गता पुनः । पञ्चकूटात्तु कैलासं देवावासं शिलोच्चयम् ॥ ३२
तस्य कुक्षिषु विश्रान्ता नैककन्दरसानुषु । [÷हिमवत्युत्तमनदी निपपाताचलोत्तमे ॥ ३३
सैवं शैलसहस्राणि दारयन्ती महानदी । ] स्थलीशतान्यनेकानि प्लावयन्त्याशुगामिनी ॥ ३४
वनानां च सहस्राणि कन्दराणां शतानि च । स्रावयन्ती महाभागा प्रयाता दक्षिणोदधिम् ॥ ३५
* धनुश्चिह्नान्तर्गतग्रन्थोः ङ. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
१७
१३० श्रीमद्वैपायनमुनिप्रणीतम्-- [अ०४२श्लो०३६-६३]
( भुवनविन्यासः)
रम्या योजनविस्तीर्णा शैलकुक्षिषु संवृता । या धृता देवदेवेन शंकरेण महात्मना ॥ ३६
पावनी द्विजशार्दूल घोराणामपि पाप्मनाम् । शंकरस्याङ्गसंस्पर्शान्महादेवस्य धीमतः ॥
द्विगुणं पवित्रसलिला सर्वलोके महानदी ॥ ३७
अनुशैलं समन्ताच्च निर्गता बहुभिर्मुखैः । अथोऽन्येनाभिधानेन ख्याता नद्यः सहस्रशः ॥ ३८
तस्माद्धिमवतो गङ्गा गता सा तु महानदी । एवं गङ्गेति नाम्ना हि प्रकाशा सिद्धसेविता ॥ ३९
धन्यास्ते सत्तमा देशा यत्र गङ्गा महानदी । रुद्रसाध्यानिलादित्यैर्जुष्टतोया यशोवती ॥ ४०
महापादं प्रवक्ष्यामि मेरोरपि हि पश्चिमम् । नानारत्नाकरं पुण्यं पुण्यकृद्भिर्निषेवितम् ॥ ४१
विपुलं शैलराजानं विपुलोदरकन्दरम् । नितम्बकुञ्जकट कैर्विमलैर्मण्डितोदरम् ॥ ४२
अपि या त्र्यवकस्यैषा त्रिदशैः सेवितोदका । वायुवेगा गताभोगा लतेव भ्रमिता पुनः ॥ ४३
मेरुकूटतटाद्भ्रष्टा प्रहतैः खादितोदका । विस्तीर्यमाणसलिला निर्मलांशुकसंनिभा ॥ ४४
तस्य कूटेऽम्बरनदी सिद्धचारणसेविता । प्रदक्षिणमथाऽऽवृत्य पतिता सानुगामिनी ॥ ४५
देवभ्राजं महाभ्राजं संवैभ्राजं महावनम् । प्लावयन्ती महाभागा नानापुष्पफलोदका ॥ ४६
प्रदक्षिणं प्रकुर्वाणा नानावर्नावभूषिता । प्रविष्टा पश्चिमसरः सितोदं विमलोदकम् ॥ ४७
सा सितोदाद्विनिष्क्रान्ता सुपक्षं पर्वतं गता । सुपक्षतस्तु पुण्योदात्ततो देवर्षिसेविता ॥ ४८
सुपक्षकूटतटगा तस्माच्च संशितोदका । निपपात महाभागा रमण्यं शिखिपर्वतम् ॥ ४९
शिखेश्च पर्वतात्कङ्कं कङ्काद्वैदूर्यपर्वतम् । वैदूर्यात्कपिलं शैलं तस्माच्च गन्धमादनम् ॥ ५०
तस्माद्गिरिवरात्प्राप्ता पिञ्जरं वरपर्वतम् । पिञ्जरातसरसं याता तस्माच्च कुमुदाचलम् ॥ ५१
मधुमन्तं जनं चैव मुकुटं च शिलोच्चयम् । मुकुटाच्छेलशिखरात्कृष्णं याता महागिरिम् ॥ ५२
कृष्णाच्छ्वेतं महाशैलं महानगनिषेवितम् । श्वेतात्सरहस्राशिखरं शैलेन्द्रं पतिता पुनः ॥ ५३
अनेकाभिः स्रवन्तीभिराप्यायितजला शिवा । एवं शैलसहस्राणि सादयन्ती महानदी ॥ ५४
पारिजाते महाशैले निपपाताऽऽशुगामिनी ॥
अनेकनिर्झरनदी गुहासासु राजते । तस्य कुक्षिश्वनेकासु भ्रान्ततोया तरङ्गिणी ॥ ५५
व्याहन्यमानसंवेशा गण्डशैलैरनेकंशः । संविद्यमानसलिला गता च धरणीतले ॥ ५६
केतुमालं महाद्वीपं नानाम्लेच्छगणैर्युतम् । प्लावयन्ती महाभागा प्रयाता पश्चिमांर्णवम् ॥ ५७
सुवर्णचित्रपार्थे तु सुपार्श्वेऽप्युत्तरे गिरौ । मेरोश्चित्रमहापादे महासत्त्वनिषेविते ॥ ५८
मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका । अनेकाभोगवक्राङ्गी क्षिप्यमाणे नभस्तले ॥ ५९
षष्टियोजनसाहस्रे निरालम्बेऽम्बरे शुभे । विकीर्यमाणा मालेव निपपात महानदी ॥ ६०
एवं कूटतटैर्भ्रष्टा नैकैर्देवर्षिसेवितैः । विकीर्यमाणसलिला नैकपुष्पोडुपोत्कचा ॥ ६१
नानारत्नवनोद्देशमरम्यं सवितुर्वनम् । महावनं महाभागा प्लावयन्ती प्रदक्षिणम् ॥ ६२
सरोवरं महापुण्यं महाभागनिषेवितम् । तत्राऽऽविवेश कल्याणी महाभद्रं सितोदका ॥ ६३
[अ० ४२-४३ श्लो० ६४-८१।१-५] वायुपुराणम् । १३१
( भुवनविन्यासः )
भद्रसोमेति नाम्ना हि महापारा महाजवा । महानदी महापुण्या महाभद्रा विनिर्गता ॥ ६४
नैकानिर्झरप्रपाढा वा शङ्खकूटतटे तु सा । तत्र कूटे गिरितटे निपपाताऽऽशुगामिनी ॥ ६५
शङ्खकूटतटाद्भ्रष्टा पपात वृषपर्वतम् । वृषपर्वताद्वत्सागिरिं नागशैलं ततो गता ॥ ६६
तस्मान्नीलं नगश्रेष्ठं संप्राप्ता वर्षपर्वतम् । नलिनाकपिञ्जलौ चैव इन्द्रनीलं च निम्नगा ॥ ६७
ततः परं महानीलं हेमशृङ्गं च सा ययौ । हेमशृङ्गाद्गता श्वेतं श्वेताच्च सुनगं ययौ ॥ ६८
सुनगाच्छतशृङ्गं च संप्राप्ता सा महानदी । शतशृङ्गान्महाशैलं पुष्करं पुष्पमण्डितम् ॥ ६९
पुष्कराच्च महाशैलं द्विरजं सुमहाबलम् । वराहपर्वतं तस्मान्मयूरं च शिलोच्चयम् ॥ ७०
मयूराच्चैकशिखरं कन्दरोदरमण्डितम् । जातुर्धिं शैलशिखरं निपपाताऽऽशुगामिनी ॥ ७१
एवं गिरिसहस्राणि दारयन्ती महानदी । त्रिशृङ्गं शृङ्गकालिलं मर्यादापर्वतं गता ॥ ७२
त्रिशृङ्गतटविभ्रष्टा महाभागनिषेविता । मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका ॥ ७३
वीरुधं पर्वतवरं पपात विमलोदका । प्लावयन्ती महाभागा प्रयाता पश्चिमार्णवम् ॥ ७४
सुवर्णभुवि पार्श्वे तु सुपार्श्वेऽप्युत्तरे गिरौ । मेरोश्चित्रे महापादे महासत्त्वानिषेविते ॥ ७५
कन्दरोदरविभ्रष्टा तस्मादपि तरङ्गिणी । नैकभोगा पपातोर्वी विचित्रपुष्पोडुपोतकचा ॥ ७६
प्लावयन्ती प्रमुदिता उत्तरान्सा कुरूञ्छिवा । महाद्वीपस्य मध्येन प्रयाता सोत्तरार्णवम् ॥ ७७
एवं तास्तु महानद्यश्चतस्रो विमलोदकाः । महागिरितटभ्रष्टाः संपयाताश्चतुर्दिशम् ॥ ७८
तत्सेयं कथितप्राया पृथिवी बहुविस्तरा । मेरुशैलमहाकीर्णाऽविशच्च सर्वतोदिशम् ॥ ७९
चतुर्महाद्वीपवती चतुराक्रीडकानना । चतुष्केतुमहावृक्षा चतुर्वरसरस्वती ॥ ८०
चतुर्महाशैलवती चतुरोरगसंश्रया । अष्टात्तरमहाशैला तथाऽष्टवरपर्वता ॥ ८१
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
आदितः श्लोकानां समष्ट्यङ्काः—१३८५
अथ त्रिचत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच—
गन्धमादनपार्श्वे तु स्फीता चोपरि गण्डिका । द्वात्रिंशतं सहस्राणि योजनैः पूर्वपश्चिमा ॥ १
अस्याऽऽयामश्चतुस्त्रिंशत्सहस्राणि प्रमाणतः । तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः ॥ २
तत्र काला नराः सर्वे महासत्त्वा महाबलाः । स्त्रियश्चोत्पलपत्राभाः सर्वास्ताः प्रियदर्शनाः ॥ ३
तत्र दिव्यो महावृक्षः पनसः षड्रसाश्रयः । ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः ॥
तस्य पीत्वा फलरसं जीवन्ति हि समायुतम् ॥ ४
पार्श्वे मन्दरवतश्चापि पूर्वे पूर्वा तु गण्डिका । आयामतोऽथ विस्ताराद्यथैवापरगण्डिका ॥ ५
| १३२ | श्रीमद्वैपायनमुनिप्रणीतम्— | [अ० ४३ श्लो० ६-३२] |
|---|---|---|
| (भुवनविन्यासः) |
भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः । भद्रं सालवनं तत्र कालाग्नाश्च महाद्रुमाः ॥ ६
तत्र ते पुरुषाः श्वेता महासत्त्वा महाबलाः । स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ॥ ७
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः । चन्द्रशीतलगात्र्यश्च स्त्रियोञ्चोत्पलगन्धिकाः ॥ ८
दश वर्षसहस्राणि तेषामायुर्निरामयम् । कालाग्राम्रस्य रसं पीत्वा सर्वदा स्थिरयौवनाः ॥ ९
ऋषय ऊचुः—
प्रमाणं वर्णमायुश्च याथातथ्येन कीर्तितम् । चतुर्णांपि द्वीपानां समासान्न तु विस्तरात् ॥ १०
सूत उवाच—
भद्राश्वानां तथा चिह्नं कीर्तितं कीर्तिवर्धनः । तच्छृणुध्वं तु कात्स्न्र्येन पूर्वसिद्धैरुदाहृतम् ॥ ११
देवकूटस्य सर्वस्य प्रथितस्येह यत्परम् । पूर्वेण दिक्षु सर्वासु यथावच्च प्रकीर्तितम् ॥ १२
कुलाचलानां पञ्चानां नदीनां च विशेषतः । तथा जनपदानां च यथादृष्टं यथाश्रुतम् ॥ १३
शैवालो वर्णमालाग्रः कोरञ्जश्चाचलोत्तमः । श्वेतवर्णश्च नलिश्च पञ्चैते कुलपर्वताः ॥ १४
तेषां प्रसूरितन्येऽपि पर्वता बहुविस्तराः । कोटिकोटिः क्षितौ ज्ञेयाः शतशोऽथ सहस्रशः ॥ १५
तैर्विमिश्रा जनपदर्नानासत्त्वसमाकुलाः । नानाप्रकारजातीयास्त्वनेकनृपपालिताः ॥ १६
नामधेयैश्च विक्रान्तैः श्रीमद्भिः पुरुषर्षभैः । अध्यासिता जनपदाः कीर्तनीयाश्च शोभिताः ॥ १७
तेषां तु नामधेयानि राष्ट्राणि विविधानि च । गिर्यन्तरनिविष्टानि समेषु विषमेषु च ॥ १८
तथा सुमङ्गलाः शुद्धाश्चन्द्रकान्ताः सुनन्दनाः । व्रजका नलिमौलायाः सौवीरा विजयस्थलाः ॥ १९
महास्थलाः सुकामाश्च महाकेशाः सुधूर्धजाः । वातरंहाः सोपसङ्गाः परिवायाः पराचकाः ॥ २०
संभवक्त्रा महानेत्राः सैवालास्तनपास्तथा । कुमुदाः शाकमुण्डाश्च उरःसंकीर्णभौमकाः ॥ २१
सोदका वत्सकाश्चैव वाराहा हारवामकाः । शङ्खाख्या भाविचन्द्राश्च उत्तरा हेमभौमकाः ॥ २२
कृष्णभौमाः सुभौमाश्च महाभौमाश्च कीर्तिताः । एते चान्ये च विख्याता नानाजनपदा मया ॥ २३
ते पिबन्ति महापुण्यां महागङ्गां महानदीम् । आदौ त्रैलोक्यविख्याता शीता शीताम्बुवाहिनी ॥ २४
तथा च हंसवसतिर्महाचक्रा च निम्नगा । चक्रा वक्त्रा च काञ्ची च सुरसा चापगोत्तमा ॥ २५
शाखावती चन्द्रनदी मेघा मङ्कारवाहिनी । कावेरी हरितोया च सोमावर्ता शतह्रदा ॥ २६
वनमाला वसुमती पम्पा पम्पावती शुभा । सुवर्णा पञ्चवर्णा च तथा पुण्या वपुष्मती ॥ २७
माणिवा सुप्रा च ब्रह्मभागा शिलाशिनी । कृष्णतोया च पुण्योदा तथा नागपदी शुभा ॥ २८
शैवालिनी मणितटा क्षारोदा चारुणावती । तथा विष्णुपदी चैव महापुण्या महानदी ॥ २९
हिरण्यवाहिनीला च स्कन्दमाला सुरावती । वामोदा च पताका च वेताली च महानदी ॥ ३०
एता गङ्गा महानद्यो नायिकाः परिकीर्तिताः । क्षुद्रनद्यस्त्वसंख्याताः शतशोऽथ सहस्रशः ॥ ३१
पूर्वद्वीपस्यः वाहिन्यः पुण्यवत्यश्च कीर्तिताः । कीर्तनेनापि चैतासां पूतः स्यादिति मे मतिः ॥ ३२