वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 138, कुल 465 में से
संदर्भ में पढ़ें[अ०४२ श्लो० ६-३५] वायुपुराणम् १२९
(: भुवनविन्यासः )
नैकैर्विमानसङ्घातैः प्रकामद्भिर्नभस्तलम् । सिद्धैरुपस्पृष्टजला महापुण्यजला शिवा ॥ ६
वायुना प्रेर्यमाणा च अनेकाभोगगामिनी । परिवर्तत्यहरहो य(हर्य)था सूर्यस्तथैव सा ॥ ७
चत्वार्यशीतिपतता योजनानां समन्ततः । वेगेन कुर्वती मेरुं सा प्रयाता प्रदक्षिणम् ॥ ८
विभिद्यमाना सलिलैस्तैजसेनानिलेन च । मेरोरुत्तरकूटेषु पतिताऽथ चतुर्ष्वपि ॥ ९
मेरुकूटतटान्तेभ्य उत्कृष्टेभ्यो निवर्तिता । विकीर्यमाणसलिला चतुर्धा संस्रुतोदका ॥ १०
षष्टियोजनसाहस्रं निरालम्बनमम्बरम् । निपपात महाभागा [* मेरोस्तस्य चतुर्दिशम् ॥ ११
सा चतुर्ध्वभितश्चैव महापादेषु शोभना । पुण्या मन्दरपूर्वेण पतिता हि महानदी ॥ १२
पूर्वेणांशेन देवानां सर्वसिद्धगणालयम् । सुवर्णचित्रकटकं नैकनिर्झरकन्दरम् ॥ १३
प्लावयन्ती शैलेन्द्रं मन्दरं चारुकन्दरम् । वप्रप्रतापशमनैरनेकः स्फाटिकोदकैः ॥ १४
तथा चैत्ररथं रम्यं प्लावयन्ती प्रदक्षिणम् । प्रविष्टा ह्यम्बरनदी ह्यरुणोदसरोवरम् ॥ १५
अरुणोदान्निवृत्ताऽथ शीतान्ते रम्यनिर्झरे । शैले सिद्धगणावासो निपपात सुगामिनी ॥ १६
सीता नाम महापुण्या नदीनां प्रवरा नदी । सा निकुञ्जनिरुद्धा तु अनेकाभोगगामिनी ॥ १७
शीतान्ताशिखराद्भ्रष्टा मुकुञ्जे पर्रपर्वते । निपपात महाभागा तस्मादपि सुमञ्झसम् ॥ १८
तस्मान्माल्यवतं शैलं भावयन्ती परापगा । वैकङ्कं समनुप्राप्ता वैकङ्कान्मणिपर्वतम् ॥
मणिपर्वतान्महाशैलमृषभं नैककन्दरम् ॥ १९
एवं शैलसहस्राणि दारयन्ती महानदी । पतिताऽथ महाशैले जठरे सिद्धसेविते ॥ २०
तस्मादपि महाशैलं देवकूटं तरङ्गिणी । तस्य कुक्षिसमुद्रान्ता क्रमेण पृथिवीं गता ॥ २१
सैवं स्थलीसहस्राणि शैलराजशतानि च । वनानि च विचित्राणि सरांसि विविधानि च ॥ २२
स्रावयन्ती महाभागा ] विस्फारैष्ववलोकदा । नदीसहस्रानुगता प्रवृत्ता च महानदी ॥ २३
भद्रार्थं समहाद्वीपं प्लावयन्ती वरापगा । प्रविष्टा ह्यर्णवं पूर्वं पूर्वे द्वीपे महानदी ॥ २४
दक्षिणेऽपि प्रपन्ना या शैलेन्द्रे गन्धमादने । चित्रैः प्रपातैर्विविधैर्नैकविस्फालितोदका ॥ २५
तद्गन्धमादनवनं नन्दनं देवनन्दनम् । प्लावयन्ती महाभागा प्रयाता सा प्रदक्षिणम् ॥ २६
नाम्ना ह्यलकनन्देति सर्वलोकेषु विश्रुता । प्रविशत्युत्तरसरो मानसं देवमानसम् ॥ २७
मानसाच्छैलराजानं रम्यं त्रिशिखरं गता । त्रिकूटाच्छैलशिखरात्कालिङ्गशिखरं गता ॥ २८
कालिङ्गशिखराद्भ्रष्टा रुचके निपपात सा । रुचकान्निषधं प्राप्ता ताम्राभं निषधादपि ॥ २९
ताम्राभशिखराद्भ्रष्टा गता श्वेतोदरं गिरिम् । तस्मात्सुमूलं शैलेन्द्रं वसुधारं च पर्वतम् ॥ ३०
हेमकूटं गता तस्माद्देवशृङ्गे ततो गता । तस्माद्गता महाशैलं ततश्चापि पिशाचकम् ॥ ३१
पिशाचकाच्छैलवरात्पञ्चकूटं गता पुनः । पञ्चकूटात्तु कैलासं देवावासं शिलोच्चयम् ॥ ३२
तस्य कुक्षिषु विश्रान्ता नैककन्दरसानुषु । [÷हिमवत्युत्तमनदी निपपाताचलोत्तमे ॥ ३३
सैवं शैलसहस्राणि दारयन्ती महानदी । ] स्थलीशतान्यनेकानि प्लावयन्त्याशुगामिनी ॥ ३४
वनानां च सहस्राणि कन्दराणां शतानि च । स्रावयन्ती महाभागा प्रयाता दक्षिणोदधिम् ॥ ३५
* धनुश्चिह्नान्तर्गतग्रन्थोः ङ. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
१७