वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
एतामेव महाभागामादितिं संप्रविश्य वै । वैवस्वतेऽन्तरे ह्यस्मिन्योगादर्धेन तेजसः ॥ ५८
| २४० | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० ६६-श्लो० ५५-७५]<br>(कश्यपीयप्रजासर्गः) |
|---|
अदितिर्दितिर्दनुः काला अरिष्टा सुरसा तथा । सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ॥
कद्रूर्मुनिश्ध धर्मज्ञः प्रजास्तासां निबोधत ॥ ५५
चारिष्णवेऽन्तरेऽतीते ये द्वादश पुरोगमाः । वैकुण्ठा नाम ते साध्या बभूवुश्चाक्षुषेऽन्तरे ॥ ५६
उपस्थितेऽन्तरे ह्यस्मिन्पुनर्वैवस्वतस्य ह । आराधिता ह्यदित्याते समेत्याऽऽहुः परस्परम् ॥ ५७
एतामेव महाभागामादितिं संप्रविश्य वै । वैवस्वतेऽन्तरे ह्यस्मिन्योगादर्धेन तेजसः ॥ ५८
गच्छामः पुत्रतामस्यास्तन्नः श्रेयो भविष्यति । आदित्यास्तु प्रसूतानामादित्यत्वं भविष्यति ॥ ५९
एवमुक्त्वा तु ते सर्वे चाक्षुषस्याऽन्तरे मनोः । जज्ञिर द्वादशाऽऽदित्या मारीचात्कश्यपात्पुनः ॥ ६०
शतक्रतुश्च विष्णुश्च जज्ञाते पुनरेव हि । वैवस्वतेऽन्तरे ह्यस्मिन्नरनारायणौ सुरौ ॥ ६१
तेषामपि हि देवानां निधनोत्पत्तिरुच्यते । यथा सूर्यस्य लोकेऽस्मिन्नुद्यास्तमयावुभौ ॥
प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः ॥ ६२
श्रेष्ठानानुश्राविके यस्माच्छक्ताः शब्दादिलक्षणे । अष्टात्मकेऽणिमाद्ये च तस्मात्ते जज्ञिरे सुराः ॥ ६३
इत्येष विषये रागः संभूत्याः कारणं स्मृतम् । ब्रह्मशापेन संभूता जयाः स्वायंभुवे जिताः ॥ ६४
स्वारोचिषे वै तुषिताः सत्याश्चैवोत्त्तमे पुनः । तामसे हरयो देवा जाताश्चारिष्णवे तु वै ॥
वैकुण्ठाश्चाक्षुषे साध्या आदित्याः सांप्रते पुनः ॥ ६५
धाताऽर्यमा च मित्रश्च वरुणोऽशो भगस्तथा । इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ॥ ६६
ततस्त्वष्टा ततो विष्णूरजघन्योऽजघन्यजः इत्येते द्वादशाऽऽदित्याः कश्यपस्य सुताः स्मृताः ॥ ६७
सुरभी कश्यपाद्द्वावेकादश विजज्ञिरे । महादेवप्रसादेन तपसा भाविता सती ॥ ६८
अङ्गारकं तथा सर्पं निर्ऋतिं सदसस्पतिम् । अजैकपादहिर्बुध्नमुर्ध्वकेतुं ज्वरं तथा ॥ ६९
भुवनं चेश्वरं मृत्युं कपालं चैव विश्रुतम् । देवानेकादशैतांस्तु रुद्रांस्त्रिभुवनेश्वरान् ॥
तपसा तेन महता सुरभी तानजीजनत् ॥ ७०
ततो दुहितरावन्ये सुरभी द्वे व्यजायत । रोहिणी चैव रुद्राभा गान्धारी च यशस्विनी ॥ ७१
रोहिण्यां जज्ञिरे कन्याश्चतस्रो लोकविश्रुताः । सुरूपा हंसकीला च भद्रा कामदुघा तथा ॥ ७२
सुषुवे कामदुघा तु सुरूपा तनयद्वयम् ॥
हंसकीला नृमहिषा भद्रायास्तु व्यजायत । विश्रुतास्तु महाभागा गन्धर्वा वाजिनः सुताः ॥ ७३
उच्चैःश्रवास्तदा जाताः खेचरास्ते मनोजवाः । श्वेताः शोणाः पिशङ्गाश्च सारङ्गा हरिताऽर्जुनाः ॥
रुद्रा देवोपवाह्यास्ते गन्धर्वयोनयो हयाः ॥ ७४
भूयो जज्ञे सुरभ्यास्तु श्रीमांश्चन्द्राभसुप्रभः । * वृषो दक्ष इति ख्यातः कण्ठेमणिलप्रभः ॥ ७५
* इदमर्धं नास्ति क. पुस्तके ।
[अ०६६ श्लो० ७६-९८]
(कश्यपीयप्रजासर्गः)
वायुपुराणम्।
२४१
स्रग्वी ककुद्मी द्युतिमानमृतालंयसंभवः। सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस्तु सः॥ ७६
इत्येते कश्यपसुता रुद्रादित्याः प्रकीर्त्तिताः। धर्मपुत्राः स्मृताः साध्या विश्वे च वसवस्तथा॥ ७७
अरिष्टनेमिपत्नीनामपत्यानीह षोडश। बहुपुत्रस्य विदुषश्चतस्रो विद्युतस्स्मृताः॥ ७८
प्रत्यङ्गिरसजाः श्रेष्ठा ऋषयो ब्रह्मर्षिसत्कृताः॥
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः। एते युगसहस्रान्ते जायन्ते पुनरेव हि॥ ७९
सर्वे देवगणा विप्रास्त्रयस्त्रिंशत्तु च्छन्दजाः। एतेषामपि देवानां निरोधोत्पत्तिरुच्यते॥ ८०
यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमयावुभौ। एते देवनिकायास्ते संभवन्ति युगे युगे॥ ८१
ऋषय ऊचुः---
साध्याश्च वसवो विश्वे रुद्रादित्यास्तथैव च। आभिजात्या प्रभावैश्च कर्मभिश्चैव विश्रुताः॥ ८२
प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः। अन्तरं ज्ञातुमिच्छामो यश्च यस्माद्विशिष्यते॥ ८३
यश्च यस्मात्प्रभवति यश्च यस्मिन्प्रतिष्ठितः। ज्यायान्यो मध्यमश्चैव कनीयान्यश्च तेषु वै॥ ८४
प्रधानभूतो यस्तेषां गुणभूतश्च तेषु यः। कर्मभिश्चाभिजात्या प्रभावेण च यो महान्॥
एतत्प्रब्रूहि नः सर्वं त्वं हि वेत्थ यथायथम्॥ ८५
सूत उवाच--
अत्र वो वर्णयिष्येऽहमन्तरं तेषु यत्स्मृतम्। यद्ब्रह्मविष्णुरुद्राणां शृणुध्वं मे विवक्षतः॥ ८६
राजसी तामसी चैव सात्त्विकी चैव ताः स्मृताः। तन्वः स्वयंभुवः प्रोक्ता काले काले भवन्ति याः॥
एतासामन्तरं वक्तुं नैव शक्यं द्विजोत्तमाः। गुणवृद्धिनिबद्धत्वाद्विधानुग्रहबन्धतः॥ ८८
प्रवृत्तिं च निवृत्तिं च गुणवृद्धिमितिह द्विजः। यथाशक्त्या प्रवक्ष्यामि तनूनां तान्निबोधत॥ ८९
[*ब्राह्मी तु राजसी तेषां कालारूपा तामसी स्मृता। सात्त्विकी पौरुषी चैव कर्म तासां निबोधत]
एका तु कुरुते तासां राजसी सर्वतः प्रजाः। एका चैवार्णवस्था तु साऽनुगृह्णाति सात्त्विकी॥ ९१
एका सा क्षिपते काले तामसी ग्रसते प्रजाः॥ ९१
रजसा तु समुद्रिक्तो ब्रह्मा संभवते यदा। पुरुषाख्या तदा तस्य सात्त्विकी विनिवर्तते॥ ९२
यदा भवति कालात्मा उद्रेकात्तमसस्तु सः। ब्रह्माख्या सा तदा त्वस्य राजसी विनिवर्तते॥ ९३
सत्त्वोद्रेकात्तु पुरुषो यदा भवति स प्रभुः। कालाख्या सा तदा तस्य पुनर्न भवतीति वै॥ ९४
क्रमात्तस्य निवर्तन्ते रूपं नाम च कर्म च। त्रैलोक्ये वर्तमानस्य सर्गानुग्रहानग्रहैः॥ ९५
यदा भवति ब्रह्मा च तदा चान्तरमुच्यते। यदा च पुरुषो ब्रह्मा न चैव पुरुषस्तु सः॥ ९६
[+यदा च पुरुषो भवति ब्रह्मा न भवते तदा। यदा भक्षन्द्ववति हि तदा न पुरुषस्तु सः॥ ९७
यदा भद्रो भवेद्धृयो ब्रह्मा न भवते तदा। यदा न भवति ब्रह्मा न चैव पुरुषस्तु सः] ९८
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति। + धनुश्चिह्नान्तर्गतग्रन्थः क. ख. पुस्तकयोर्नास्ति।
३१
२४२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६६ श्लो०९९-१२१]
( कश्यपीयप्रजासर्गः )
मणिर्विभजते वर्णान्विचित्रान्स्फटिके यथा। वैमल्यादाश्रयवशात्तद्वर्णः स्यात्तदञ्जनः ॥ ९९
तदा गुणवशात्तस्य स्वयंभोरनुरञ्जनम् । एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम् ॥ १००
एको भूत्वा यथा मेषः पृथक्त्वेनावतिष्ठते । रूपतो वर्णतश्चैव तथा गुणवशात्तु सः ॥ १०१
भवत्येको द्विधा चैव त्रिधा मूर्तिविनाशनात्। एको ब्रह्माऽन्तकृच्चैव पुरुषश्चेति ये त्रयः ॥ १०२
एकस्यैताः स्मृतास्तिस्रस्तनवस्तु स्वयंभुवः । ब्राह्मी च पौरुषी चैव अन्तकारी च ते त्रयः ॥ १०३
तत्र या राजसी तस्य तनुः सा वै प्रजाकरी । या तामसी तु कालाख्या प्रजाक्षयकरी तु सा ॥
सात्त्विकी पौरुषी या तु सानुग्रहकरी स्मृता ॥ १०४
राजस्या ब्रह्मणोऽशेन मरीचिः कश्यपोऽभवत् । तामसी चान्तकृद्या तु तदंशेनाभवद्भवः ॥ १०५
सात्त्विकी पौरुषी या सा तस्यांशो विष्णुरुच्यते । त्रैलोक्ये ताः स्मृतास्तिस्रस्तनवस्तु स्वयंभुवः ॥
नानाप्रयोजनार्था हि कालोऽवस्थां करोति यः । ब्रह्मत्वेन प्रजाः सृष्ट्वा विष्णुत्वेनानुगृह्य च ॥
वैष्णव्याऽनुगृहीतास्ता रौद्र्याऽनुग्रसते पुनः ॥ १०७
एकः स्वयंभुवः कालाग्निभिर्त्स्नीन्वै करोति सः । सृजते चानुगृह्णाति प्रजाः संहरते तथा ॥ १०८
इत्येताः कथितास्तिस्रस्तनवस्तु स्वयंभुवः । माजापत्या च रौद्री च वैष्णवी चैव ताः स्मृताः ॥ १०९
एका तनुः स्मृता वेदे धर्मशास्त्रे पुरातने । सांख्ययोगपरैर्वीरैः पृथक्त्वैकत्वदर्शिभिः ॥
अभिजातमभावज्ञैऋषिभिस्तत्त्वदर्शिभिः ॥ ११०
एकत्वे च पृथक्त्वे च तासु भिन्नाः प्रजास्त्विह । इदं परमिदं नेति ब्रुवन्तो भिन्नदर्शनाः ॥ १११
ब्रह्माणं कारणं केचित्केचित्प्राहुः प्रजापतिम् । केचिच्छिवं परत्वेन प्राहुर्विष्णुं तथाऽपरे ॥
अविज्ञानेन संसक्ताः सक्ता रूप्यादिचेतसा ॥ ११२
तत्त्वं कालं च देशं च कार्याण्यावेक्ष्य तत्त्वतः । कारणं च स्मृता ह्येता नानार्थेष्विह देवताः ११३
एकं निन्दति यस्तेषां सर्वानेव स निन्दति । एकं प्रशंसमानस्तु सर्वानेव प्रशंसति ॥
* एकं निन्दति यस्तेषां सर्वानेव स निन्दति । एकं यो वेत्ति पुरुषं तमाहुर्ब्रह्मवादिनम् ॥ ११४
अद्वेषस्तु सदा कार्यो देवतासु विजानता । न शक्यमीश्वरं ज्ञातुमैश्वर्येण व्यवस्थितम् ॥ ११५
एकात्मा स त्रिधा भूत्वा संमोहयति यः प्रजाः । एतेषां च त्रयाणां तु विचरन्त्यन्तरं जनाः ॥ ११६
जिज्ञासन्तः परीक्षन्तः सक्ता रूपाविचेतसः । इदं परमिदं नेति वदन्ति भिन्नदर्शिनः ॥ ११७
यातुधानान्पिशांश्चैताः पिशाचांश्चैव तान्ररान् । एकत्वेन पृथक्त्वेन स्वयंभूर्व्यवतष्ठते ॥ ११८
गुणमात्रात्मिकाभिस्तु तनुभिर्मोहियन्प्रजाः । तेष्वेकं यजते यस्तु स तदा यजते त्रयम् ॥ ११९
तस्मादेवास्त्रयो ह्येते नैरन्तर्ये व्यवस्थिताः । तस्मापृथक्त्वमेकत्वसंख्यां संख्यागतागतम् ॥
एकत्वं वा बहुत्वं वा तेषु को ज्ञातुमर्हति ॥ १२०
यस्मात्सृष्ट्वाऽनुगृह्णाति ग्रसते चैव ते प्रजाः । गुणात्मकत्वात्त्रैकाल्ये तस्मादेकः स उच्यते ॥ १२१
* इदमर्धं नास्ति क. पुस्तके ।
| [अ० ६६--श्लो० १२२-१४३] | वायुपुराणम् । | २४३ |
|---|
( कश्यपीयप्रजासर्गः )
रुद्रं ब्रह्माणमिन्द्रं च लोकपालानृषीन्दनून् । देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः ॥ १२२
प्राजापत्या तनूर्या च तनूर्या चैव वैष्णवी । मन्वन्तरे च कल्पे च आवर्तन्ते पुनः पुनः ॥ १२३
*क्षेत्रज्ञो अ(ह्य)पि चाऽऽनेष्य विभजेदित्यनुग्रहात् । तेजसा यशसा बुद्ध्या श्रुतेन च बलेन च ॥
जायन्ते तत्समाश्चैव तानपीह निबोधत ॥ १२४
राजस्या ब्रह्मणोऽशेन मरीचिः कश्यपोऽभवत् । तामस्यास्तस्य चांशेन कालात्मा रुद्र उच्यते ॥
सात्त्विक्या पुरुषांशेन यज्ञे विष्णुरभूत्तदा ॥ १२५
त्रिषु कालेषु तस्यैता ब्रह्मणस्तनवोऽशजाः । कालो भूत्वा पुनश्चासौ रुद्रः संहरते प्रजाः ॥ १२६
संप्नाप्ते चैव कल्पान्ते सप्तरश्मिर्दिवाकरः । भूत्वा संवर्तकादित्यो लोकांस्त्रीन्स तदा दहन् ॥ १२७
विष्णुः प्रजाऽनुगृह्णाति नामरूपविपर्ययैः । तस्यां तस्यामवस्थायां तत्तदुत्पाद्य कारणम् ॥ १२८
सत्त्वोद्रिक्ता तु या प्रोक्ता ब्रह्मणः पौरुषी तनुः । तस्यांशेन विजज्ञे स इह स्वायंभुवेऽन्तरे ॥
आकूत्यां मनसो देव उत्पन्नः प्रथमे विभुः ॥ १२९
ततः पुनः स वै देवः प्राप्ते स्वारोचिषेऽन्तरे । तुषितायां समुत्पन्नो ह्यजितस्तुषितैः सह ॥ १३०
औत्तमे चान्तरे चैव तुषितस्तु विदुः स वै । वशवर्तिभिरुत्पन्नो वशवर्ती हरिः पुनः ॥ १३१
सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः । तामसस्यान्तरे चापि संप्राप्ते पुनरेव हि ॥
भार्यायां हरिभिः सार्धं हरिरेव बभूव हि ॥ १३२
चारिष्णवेऽन्तरे चापि हरिर्देवः पुनस्तु सः । विकुण्ठायामजो जज्ञे ह्यभूतरजसैः सह ॥
वैकुण्ठः स पुनर्देवः संप्राप्ते चाक्षुषेऽन्तरे ॥ १३३
धर्मो नारायणः साध्यः साध्यैः सह सुरैरभूत् । स तु नारायणः साध्यः प्राप्ते वैवस्वतेऽन्तरे ॥ १३४
मारीचात्कश्यपादद्विष्णुरदित्यां संभव ह । त्रिभिः क्रमैरिमाँल्लोकाञ्जित्वा विष्णुरुरुक्रमम् ॥ १३५
प्रत्यपादयदिन्द्राय देवेभ्यश्चैव स प्रभुः । इत्येतास्तनवस्तस्य व्यतीताः सप्त सप्तसु ॥
मन्वन्तरेष्वतीतेषु याभिः संरक्षिता प्रजाः ॥ १३६
यस्माद्विष्टमिदं सर्वं वामनेनेह जायता । तस्मात्स वै स्मृतो विष्णुर्विशेर्धातोः प्रवेशनात् ॥ १३७
इत्येतल्लक्षणश्चैव वामनस्य महात्मनः । एकत्वं च पृथक्त्वं च विशिष्टत्वं च कीर्तितम् ॥ १३८
देवतानामिहांशेन जायन्ते यास्तु देवताः । तासां तास्तेजसा बुद्ध्या श्रुतेन च बलेन च ॥
जायन्ते तत्समाश्चैव ता वै तेषामनुग्रहात् ॥ १३९
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छध्वं विष्णोस्तेजोंऽशसंभवम् ॥ १४०
स एवं जायतेऽशेन केचिदिच्छन्ति मानवाः । ततोऽपरे ब्रुवन्तीममन्योन्यांशेन जायते ॥ १४१
एवं विवदमानास्ते दृष्ट्वा तान्वै ब्रुवन्ति ह । यस्मान्न विद्यते भेदो मनसश्चेतसश्च ह ॥
तस्मादनुग्रहास्तेषां क्षेत्रज्ञास्ते भवन्त्युत ॥ १४२
एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः । भूत्वा यस्माच्च बहुधा भवत्येकः पुनस्तु सः ॥ १४३
* नास्तीदमर्धं क. पुस्तके ।
२४४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६६-६७श्लो० १४४-१५२-१-६]
(कश्यपीयप्रजासर्गः)
तस्मात्सुमनसो भेदाजायन्ते तेजसश्च ह । मन्वन्तरेषु सर्वेषु प्रजाः स्थावरजङ्गमाः ॥
सर्गादौ सकृदुत्पन्नास्तिष्ठन्तीह प्रशंसया ॥ १४४
प्राप्ते प्राप्ते तु कल्पान्ते रुद्रः संहरति प्रजाः । जायन्ते मोहयन्तोऽन्यानीश्वरा योगमायया ॥
ऐश्वर्येण चरन्तस्ते मोहयन्ति ह्यनीश्वराः । तस्माद्दोपमचारेषु युक्तायुक्तं न विद्यते ॥ १४५
भूतापवादिनो दृष्टा मध्यस्था भूतभाविनः । भूतापनादिनः शाक्तास्त्रयो वेदाः प्रवादिनाम् ॥ १४६
* परीक्ष्य यो न गृह्णाति गृह्णाति न विपर्ययात् । दृढपूर्वश्रुतत्वाच्च प्रवादाच्चैव लौकिकात् ॥
चतुर्भिः कारणैरेभिर्यथातत्त्वं न विन्दति ॥ १४७
पूर्वमर्थान्तरे न्यस्ताः कालान्तरगता अपि । तेनान्यत्सन्तमप्यर्थं द्वेषात्तु प्रतिपद्यते (?) ॥ १४८
दशानां द्रव्यभूतो यो गुणभूतस्तु तेषु यः । कर्मणां महतां कर्ता अभिजात्या च यो महान् ॥
भूतज्ञैः कारणैरेतैश्चतुर्भिः परिकीर्त्यते ॥ १४९
अशक्तरुष्टो जानाति देवताः प्रविभागशः । इमौ चोदाहरन्त्यत्र श्लोकौ योगेश्वरं प्रति ॥ १५०
आत्मनः प्रतिरूपाणि परेषां च सहस्रशः । कुर्याद्योगबलं प्राप्य तैश्च सर्वैः सहाऽचरेत् ॥ १५१
प्राप्नुयाद्विषयांश्चैव तथैवोग्रतपश्चरन् । संहरेच्च पुनः सर्वान्सूर्यतेजो गुणानिव ॥ १५२
इति महापुराणे वायुप्रोक्ते गुणनैरन्तर्ये कश्यपीयप्रजासर्गो नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-५९७७
अथ सप्तषष्टितमोऽध्यायः ।
कश्यपीयप्रजासर्गः ।
ऋषय उवाच--
एतच्छ्रुत्वा वचस्तस्य नैमिषेयास्तपस्विनः । पप्रच्छुर्ऋषयः श्रेष्ठं वचनस्य यथाक्रमम् ॥ १
सप्तास्विह कथं देवा जाता मन्वन्तरेष्विह । इन्द्रविष्णुप्रधानास्ते आदित्यास्तु महौजसः ॥
एतत्प्रब्रूहि नः सर्वं विस्ताराद्रोमहर्षण ॥ २
एवमुक्तस्तदा सूतो विनयी ब्रह्मवादिभिः । उवाच वदतां श्रेष्ठो यथा पृष्टो महर्षिभिः ॥ ३
सूत उवाच--
ब्रह्मणो वै मुखात्सृष्टा यथा देवाः प्रजेप्सया । सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥ ४
दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम् । आकृतः प्रथमस्तेषां ततस्त्वाकूतिरेव च ॥ ५
विचित्तिश्च सुविचित्तिश्च आकृतिः कूर्तिरेव च । अधीष्टस्तु ततो ज्ञेयः अधीतिश्चैव तत्त्वतः ॥
विज्ञातिश्चैव विज्ञातो मनवो ये च द्वादश ॥ ६
* इदमर्धं नास्ति क. पुस्तके ।
[अ० ६७--श्लो० ७--३२] वायुपुराणम्। २४५
(कश्यपीयप्रजासर्गः)
*ज्ञेयो द्वादशपुत्रश्च यश्चाब्देन समाजयेत्। तं दृष्ट्वा चाब्रवीद्ब्रह्मा जया देवानसूत ॥ ७
दाराग्निहोत्रसंयोगमिज्यामारभतेति च। एवमुक्त्वा तु तं ब्रह्मा तत्रैवान्तरधीयत ॥ ८
ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः। सन्यस्येह तु कर्माणि वाङ्मनःकर्मजानि तु ॥ ९
यमेष्वेवावतिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु। क्षयातिशययुक्तं तु ते दृष्ट्वा कर्मणां फलम् ॥ १०
जुगुप्सन्तः प्रसूतिं च निस्तन्द्रा निर्ममाऽभवन्। अजस्रत्वं काङ्क्षमाणास्ते विरक्ता दोषदर्शिनः ॥ ११
अर्थं धर्मं च कामं च हित्वा ते वै व्यवस्थिताः। पौरुषं ज्ञानमास्थाय तेजः संक्षिप्य चाऽऽस्थिताः॥ १२
तेषां च तमभिप्रायं ज्ञात्वा ब्रह्मा चुकोप ह। तानब्रवीत्तदा ब्रह्मा निरुत्साहान्सुरानथ ॥ १३
प्रजार्थमिह यूयं वै प्रजास्रष्टाऽस्मि नान्यथा। प्रसूयध्वं यजध्वं चेत्युक्तवानस्मि यत्पुरा ॥ १४
यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः। जुगुप्समानाः स्वं जन्म संततिं नाभिनन्दथ ॥ १५
(+कर्मणां च कृतो न्यासो ह्यमृतत्वाभिकाङ्क्षया। तस्माद्यूयमनादृत्य सप्तकृत्वस्तु यास्यथ) ॥ १६
ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन्। क्षमास्माकं महादेव यदज्ञानात्कृतं विभो ॥ १७
प्रणिपत्य सानुनयं ब्रह्मा तानब्रवीत्पुनः। लोके मयाऽननुज्ञातः कः स्वातन्त्र्यमिहार्हति ॥ १८
मया परिगतं सर्वं कथमच्छन्दतो मम। प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वाऽशुभम् ॥ १९
लोके यदस्ति किंचिद्वै सच्चासच्च व्यवस्थितम्। बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽतिसंधयेत
भूतानां तर्कितं यच्च यच्चाप्येषां विचारितम्। तथा विचारितं यच्च यत्सर्वं विदितं मम ॥ २१
मया स्थितमिदं सर्वं जगत्स्थावरजङ्गमम्। आशामयेन तत्त्वेन कथं छेत्तुमिहोत्सहे ॥ २२
यस्माच्चाहं विवृत्तो वै सर्गार्थमिह नान्यथा। इह कर्माण्यनारभ्य को मे च्छन्दाद्विमोक्ष्यते ॥ २३
परिभाष्य ततो देवान्जयान्वै नष्टचेतसः। अब्रवीत्स पुतस्तान्व्रै धृतान्दण्डे प्रजापतिः ॥ २४
यस्मान्मामभिसंधाय संन्यासो वः कृतः पुरा। यस्मात्स विफलो यत्नो ह्यपारस्त्वेष यः कृतः ॥
भविताऽतः सुखोदर्को देवा भावेषु जायताम् ॥ २५
आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः। मन्वन्तरेषु संमूढाः षट्सु सर्वे गमिष्यथ ॥ २६
वैवस्वतान्तेषु सुरास्तथा स्वायंभुवादिषु। ताञ्ज्ञात्वा ब्रह्मणा तत्र श्लोको गीतः पुरातनः ॥ २७
त्रयीं विद्यां ब्रह्मचर्यं प्रसूतिं श्राद्धमेव च। यज्ञं चैव तु दानं च एषामेव तु कुर्वताम् ॥
स हि स्म विरजा भूत्वा वसेतेऽन्यप्रशंसया ॥ २८
स एवं श्लोकमुक्त्वा तु जयान्देवानथाब्रवीत्। वैवस्वतेऽन्तरेऽतीते मत्समीपमिहेष्यथ ॥ २९
ततो यूयं मया सार्धं सिद्धिं प्राप्स्यथ शाश्वतीम्। एवमुक्त्वा तु तान्ब्रह्मा तत्रैवान्तरधीयत ॥ ३०
ततो देवास्तिरोभूत ईश्वरे ह्यकुतोभयाः। प्रपन्ना अणिमाद्यैश्च युक्ता योगबलान्विताः ॥ ३१
ततस्तेषां तु यास्तन्वस्ताऽभवन्द्वादश हृदाः। जया इति समाख्याता जाताश्चोदधिसंनिभाः ॥ ३२
* एतदर्धस्थान इदमर्धम्—ज्ञेयो दशपुत्रः पश्चाब्देन सामाजयेत्येजोदिति ख, ग, घ, ङ. पुस्तकेषु।
+ नास्त्ययं श्लोको घ, पुस्तके।
२४६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६७ श्लो० ३३-५४]
( कश्यपीयप्रजासर्गः )
ततः स्वायंभुवे तस्मिन्सर्गे ते जज्ञिरे सुराः । अजितायां रुचे पुत्रा अजिता द्वादशात्मकाः ॥ ३३
विधिश्च मुनयश्चैव क्षेमो नन्दोऽव्ययस्तथा । प्राणोऽपानः सुधामा च ऋतुशाक्तिव्यवस्थिताः ॥
इत्येते मानसाः सर्वे अजिता द्वादश स्मृताः ॥ ३४
ये च यज्ञे सुरैः सार्धं यज्ञभाजस्तदा स्मृताः । स्वायंभुवेऽन्तरे पूर्वं ततः स्वारोचिषे पुनः ॥
तुषिता नाम मे ह्यासन्प्राणाख्या यज्ञियाः सुराः । पुनस्ते तुषिता देवा उत्तमे त्वन्तरे स्वयम् ॥
तुषितायां समुत्पन्नाः पुनः पुत्राः स्वरोचिषः ॥ ३५
उत्तमस्य तु ते पुत्राः सत्यायां जज्ञिरे शुभाः । ततः सत्याः स्मृता देवा उत्तमे चान्तरे तदा ॥
अभवन्द्यज्ञभाजस्ते तृतीये द्वापरान्तरे । ते तु सत्याः पुनर्देवाः संप्राप्ते तामसेऽन्तरे ॥ ३८
हर्षा ये तमसः पुत्रा जज्ञिरे द्वादशैव तु । हरयो नाम ते देवा यज्ञभाजस्तथाऽभवन् ॥ ३९
ततस्ते हरयो देवाः प्राप्ते चारिष्णवेऽन्तरे । वैकुण्ठायां ततस्ते वै चरिष्णोर्जज्ञिरे सुराः ॥
वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मनोः ॥ ४०
ततस्ते वै पुनर्देवा वैकुण्ठाः प्राप्य चाक्षुषम् । साध्यायां द्वादश सुता जज्ञिरे धर्मसूनवः ॥ ४१
ततस्ते वै पुनः साध्याः संक्षीणे चाक्षुषेऽन्तरे । उपस्थिते मनोः सर्गे पुनर्वैवस्वतस्य ह ॥ ४२
आद्ये त्रेतायुगमुखे प्राप्ते वैवस्वतस्य तु । अंशेन साध्यास्तेऽदित्यां मारीचात्कश्यपात्पुनः ॥ ४३
जज्ञिरे द्वादशाऽऽदित्या वर्तमानेऽन्तरे पुनः । यदा त्वेते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः ॥ ४४
ततः स्वायंभुवे साध्या जज्ञिरे द्वादशामराः । एवमाद्या जयास्ते वै शापात्सम्भवंस्तदा ॥ ४५
य इमां सप्तसंभूतिं देवानां देवशासनात् । पठेद्यः श्रद्धया युक्तः प्रत्यवायं न गच्छति ॥ ४६
इत्येता भूतयः सप्त जयानां सप्रलक्षणाः । परिक्रान्ता मया चाद्य किं भूयः श्रोतुमिच्छथ ॥ ४७
ऋषय ऊचुः--
दैत्यानां दानवानां च गन्धर्वोरगरक्षसाम् । सर्पभूतपिशाचानां पशूनां पक्षिवीरुधाम् ॥
उत्पत्तिं निधनं चैव विस्तरात्कथयस्व नः ॥ ४८
एवमुक्तस्तदा सूत उवाच ऋषिसत्तमान् । दितेः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ॥ ४९
कश्यपस्याऽऽत्मजौ तौ वै सर्वेभ्यः पूर्वजौ स्मृतौ । सौत्येऽहन्यतिरात्रस्य कश्यपस्याऽऽश्वमेधिके ॥ ५०
हिरण्यकाशिपुर्नाम प्रथमं ऋत्विगासनम् । दित्या गर्भाद्विनिःसृत्य तत्राऽऽसीनो*च्चसंसदि ॥
हिरण्यकशिपुस्तस्मात्कर्मणा तेन स स्मृतः ॥ ५२
ऋषय ऊचुः--
हिरण्यकशिपोर्नाम जन्म चैव महात्मनः । प्रभावं चैव दैत्यस्य विस्तराद्ब्रूहि नः प्रभो ॥ ५२
सूत उवाच--
कश्यपस्याश्वमेधोऽभूत्पुण्यो वै पुष्करे पुरा । ऋषिभिर्देवताभिश्च गन्धर्वैरुपशोभितः ॥ ५३
उत्कृष्टेनैव विधिना आख्यानादौ यथाविधि । आसनान्युपकॢप्तानि काञ्चनानि तु पञ्च वै ॥ ५४
* अत्र संधिरार्षः ।
[अ० ६७-श्लो० ५५-७५] वायुपुराणम्। २४७
( काश्यपीयप्रजासर्गः )
कुशपुतानि त्रीण्यत्र कूर्चः फलकमेव च। मुख्यार्त्विजश्च चत्वारस्तेषां तान्युपकल्पयेत् ॥ ५५
शुभं तत्राऽऽसनं यत्तु होतुरर्थे प्रकल्पितम्। हिरण्मयं तथा दिव्यं दिव्यास्तरणसंस्तृतम् ॥ ५६
अन्तर्वत्नी दितिश्चैव पत्नीत्वं समुपागता। दश वर्षसहस्राणि गर्भस्तस्या अवर्तत ॥ ५७
स तु गर्भो विनिःसृत्य मातुर्वै उदरात्तदा। उपक्लुप्तासनं यत्तु होतुरर्थे हिरण्मयम् ॥
निषसाद स गर्भोऽत्र तत्राऽऽसीनः शशंस च ॥ ५८
आख्यानपञ्चमान्वेदान्महर्षिः काश्यपो यथा। तं दृष्ट्वा मुनयस्तस्य नामाकुर्वंस्तु तद्विधम् ॥ ५९
हिरण्यकशिपुस्तस्मात्कर्मणा तेन विश्रुतः। हिरण्याक्षोऽनुजस्तस्य सिंहिका तस्य चानुजा ॥
राहोः सा जननी देवी विप्रचित्तेः परिग्रहः ॥ ६०
हिरण्यकशिपुर्दैत्यश्चचार परमं तपः। शतं वर्षसहस्राणां निराहारो ह्यधःशिराः ॥ ६१
तं ब्रह्मा छन्दयामास दैत्यं तुष्टो वरेण तु। सर्वामरत्वं विप्रेन्द्राः सर्वभूतेभ्य एव च ॥
योगाद्देवाग्विनिर्जित्य सर्वदेवत्वमास्थितः ॥ ६२
दानवाश्चासुराश्चैव देवाः समा भवन्तु वै। मारुतेर्यन्महैश्वर्यमेष मे दीयतां वरः ॥ ६३
एवमुक्तोऽथ ब्रह्मा तु तस्मै दत्त्वा यथेप्सितम् । दत्त्वा तस्मै वरान्दिव्यांस्तत्रैवान्तरधीयत ॥
हिरण्यकशिपुर्दैत्यः श्लोकैर्गीतः पुरातनैः ॥ ६४
राजा हिरण्यकाशिपुर्यां यामाशां निषेवते। तस्यै तस्यै दिशे देवा नमश्चकुर्महर्षिभिः ॥ ६५
एवंभावो दैत्येन्द्रो हिरण्यकशिपुर्द्विजाः। तस्याऽऽसीन्नरसिंहः स विष्णुर्मृत्युः पुरा किल ॥
नखैस्तु तेन निर्भिन्नानांद्रेण्वका नखाः स्मृताः ॥ ६६
हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहाबलाः। उत्कुरः शकुनिश्चैव कालनाभस्तथैव च ॥ ६७
महानाभश्च विक्रान्तो भूतसंतापनस्तथा। हिरण्याक्षसुता ह्येते देवैरपि दुरासदाः ॥ ६८
तेषां पुत्राश्च पौत्राश्च वाडेयः स गणः स्मृतः। शतं तानि सहस्राणि निहतास्तारकामये ॥ ६९
हिरण्यकशिपोः पुत्राश्चत्वारस्तु महाबलाः। प्रह्लादः पूर्वजस्तेषामनुह्लादस्तथैव च ॥
संह्लादश्च ह्रदश्चैव ह्रदपुत्रान्निबोधत ॥ ७०
ह्रादो निसुन्दश्च तथा ह्रदपुत्रौ बभूवतुः। सुन्दोपसुन्दौ विक्रान्तौ निसुन्दतनयावुभौ ॥ ७१
ब्रह्मघ्नस्तु महावीर्यो मूकस्तु ह्रददायिनः। मारीचः सुन्दपुत्रस्तु ताडकामुपपद्यते ॥ ७२
ताडका निहता साऽथ राघवेण बलीयसा। मूको विनिहतश्चापि किराते सव्यसाचिना ॥ ७३
उत्पन्ना महता चैव तपसा भाविताः स्वयम्। तिस्रः कोट्यस्तु तेषां वै मणिवर्तनिवासिनाम् ॥
अवध्या देवतानां वै निहताः सव्यसाचिना ॥ ७४
अनुह्लादसुतो वायुः सिनीवाली तथैव च। तेषां तु शतसाहस्रो गणो हालाहलः स्मृतः ॥ ७५