वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
अम्बरीषस्तु नाभागिर्विरूपस्तस्य चाऽऽत्मजः । पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ॥ ६
[अ०८८श्लो०६-३१]
वायुपुराणम् ।
३१७
( वैवस्वतमनुवंशवर्णनम् )
अम्बरीषस्तु नाभागिर्विरूपस्तस्य चाऽऽत्मजः । पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ॥ ६
एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसः स्मृताः । रथीतराणां प्रवराः क्षात्रोपेता द्विजातयः ॥ ७
क्षुवतस्तु मनोः पूर्वमिक्ष्वाकुराभिनिःसृतः । तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ॥ ८
तेषां ज्येष्ठो विकुक्षिश्च नेमिर्दण्डश्च ते त्रयः । शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशतं तु ते ॥ ९
उत्तरापथदेशस्य रक्षितारो महीक्षितः । चत्वारिंशत्तथाऽष्टौ च दक्षिणायां च ते दिशि ॥ १०
विंशातिममुखास्ते तु दक्षिणापथरक्षिणः । इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथाऽऽदिशत् ॥ ११
राजोवाच--
मांसमानय श्राद्धेयं मृगान्हत्वा महाबल । श्राद्धमद्य नु कर्तव्यमष्टकायां न संशयः ॥ १२
स गतस्तु मृगव्यां वै वचनात्तस्य धीमतः । मृगान्सहस्रशो हत्वा परिश्रान्तश्च वीर्यवान् ॥
भक्षयच्छशकं तत्र विकुक्षिर्मृगयां गतः ॥ १३
आगते स विकुक्षौ तु समांसे सहसैनिके । वसिष्ठं चोदयामास प्रोक्ष्यतामिति ॥ १४
तथेति चोदितो राज्ञा विधिवत्समुपस्थितः । स दृष्ट्वोपहतं क्रुद्धो राजानमब्रवीत् ॥ १५
क्षुद्रेणोपहतं मांसं पुत्रेण तव पार्थिव । शशभक्षादभोज्यं वै तव मांसं महाद्युते ॥ १६
शशो दुरात्मना पूर्वमरण्ये भक्षितोऽनघ । तेन मांसमिदं दुष्टं पितॄणां नृपसत्तम ॥ १७
इक्ष्वाकुस्तु ततः क्रुद्धो विकुक्षिमिदमब्रवीत् । पितृकर्माणि निर्दिष्टो मया त्वं मृगयां गतः ॥
शशं भक्षयसेऽरण्ये निर्घृणः पूर्वमद्य नु ॥ १८
तस्मात्परित्यजामि त्वां गच्छ त्वं स्वेन कर्मणा । एवमिक्ष्वाकुना त्यक्तो वसिष्ठवचनात्सुतः ॥ १९
इक्ष्वाकौ संस्थिते तस्मिञ्शशास पृथिवीमिमाम् । प्राप्तः परमधर्मात्मा स चायोध्याधिपोऽभवत् ॥ २०
तदाऽकरोत्स राज्यं वै वसिष्ठपरिनोदितः । ततस्तेनैवसा पूर्णो राज्यावस्थो महीपतिः ॥ २१
कालेन गतवांस्तत्र स च न्यूनतरां गतिम् । ज्ञात्वैवमेतदाख्यानं नाविधिर्भक्षयेत्तु वै ॥ २२
मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ २३
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् । इन्द्रस्य वृषभूतस्य ककुत्स्थो जायते पुरा ॥ २४
पूर्वमाडीवके युद्धे ककुत्स्थस्तेन स स्मृतः । अनेनास्तु ककुत्स्थस्तेन पृथुरानैनसः स्मृतः ॥ २५
वृषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्यवान् । आंध्रस्तु यवनाथस्तु श्रावस्तस्तस्य चाऽऽत्मजः ॥ २६
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता । श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ २७
बृहदश्वसुतश्चापि कुवलाश्व इति श्रुतिः । यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥ २८
ऋषय ऊचुः--
धुन्धेवधं महाप्राज्ञ श्रोतुमिच्छामि विस्तरात् । यदर्थं कुवलाश्वः स धुन्धुमारत्वमागतः ॥ २९
सूत उवाच--
बृहदश्वस्य पुत्राणां सहस्राण्येकविंशतिः । सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ ३०
बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः । कुवलाश्वं महावीर्यं शूरमुत्तमधार्मिकम् ॥ ३१
३१८ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०८८श्लो०३२–५८]
( वैवस्वतमनुवंशवर्णनम् )
बृहदश्वोऽभ्यषिञ्चत्तं तस्मिन्द्राष्ट्रे नराधिपः। पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ॥ ३२
बृहदश्वं महाराज शूरमुत्तमधार्मिकम् । प्रयातं तमुत्तङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत् ॥ ३३
उत्तङ्क उवाच--
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि । निरुद्विग्नस्तपः कर्तुं न हि शक्नोमि पार्थिव ॥ ३४
ममाऽऽश्रमसमीपेषु समेषु मरुधन्वसु । समुद्रो वालुकापूर्णस्तत्र तत्र तिष्ठति भूपते ॥ ३५
देवतानामवध्यस्तु महाकायो महाबलः । अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ ३६
स मनोस्तनयः क्रूरो धुन्धुर्नाम सुदारुणः । शतं लोकविनाशाय तप आस्थाय दारुणम् ॥ ३७
संवत्सरस्य पर्यन्ते स निश्वासं प्रमुञ्चति । यदा यदा मही तत्र चलति स्म सकानना ॥ ३८
तस्य निश्वासवातेन रज उद्धूयते महत् । आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ ३९
सविस्फुलिङ्गं सज्वलं सधूममतिदारुणम् । तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे ॥ ४०
तं वारय महाबाहो लोकानां हितकाम्यया । तेजस्ते सुमहाविष्णुस्तेजसाऽऽप्याययिष्यति ॥ ४१
लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे । त्वं हि तस्य वधायाद्य समर्थः पृथिवीपते ॥ ४२
विष्णुना च वरो दत्तो मम पूर्वं ततोऽनघ । न हि धुन्धुर्महावीर्यस्तेजसाऽल्पेन शक्यते ॥ ४३
निर्दग्धुं पृथिवीपाल अपि वर्षशतैरपि । वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम् ॥ ४४
एवमुक्तस्तु राजर्षिरुत्तङ्केन महात्मना । कुवलाश्वं सुतं प्रादात्तस्मिन्धुन्धुनिवारणे ॥ ४५
राजा संन्यस्तशस्त्रोऽहमयं तु तनयो मम । भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ ४६
स तं व्यादिश्य तनयं धुन्धुमारणमुद्यतम् । जगाम पर्वतायैव तपसे संशितव्रतः ॥ ४७
कुवलाश्वस्तु धर्मात्मा पितुर्वचनमास्थितः । सहस्रैरेकविंशत्या पुत्राणां सह पार्थिवः ॥
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवारणे ॥ ४८
तमाविशततो विष्णुर्भगवान्स्वेन तेजसा । उत्तङ्कस्य नियोगात्तु लोकानां हितकाम्यया ॥ ४९
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् । अद्यप्रभृत्येष नृपो धुन्धुमारो भविष्यति ॥ ५०
दिव्यैः पुष्पैश्च तं देवाः समसंमत अद्भुतम् । स गत्वा पुरुषव्याघ्रस्तनयैः सह वीर्यवान् ॥ ५१
समुद्रं खननयामास वालुकार्णवमव्ययम् । नारायणेन राजर्षिस्तेजसाऽऽप्यायितो हि सः ॥
बभूवातिबलो भूय उत्तङ्कस्य वशे स्थितः ॥ ५३
तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा । धुन्धुरासादितस्तत्र दिशमाश्रित्य पश्चिमाम् ॥ ५४
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव । वारि सुस्राव योगेन महोदधिरिवोदये ॥ ५५
सोमस्य सोमपश्रेष्ठ धारोर्मिकलिलो महान् । तस्य पुत्रास्तु निर्दग्धास्त्रिभिरूनास्तु राक्षसाः ॥ ५६
ततः स राजाऽतिबलो धुन्धुबन्धुनिबर्हणः । तस्य वारिमयं वेगमपिबत्स नराधिपः ॥ ५७
योगी योगेन वह्निं वा शमयामास वारिणा । निरस्यतं महाकायं बलेनोदकराक्षसम् ॥ ५८
[अ०८८श्लो० ५९-८४] ॥ वायुपुराणम् ॥ ३१९
(वैवस्वतमनुवंशवर्णनम)
उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः । उत्तङ्कश्च वरं प्रादान्तस्मै राज्ञे महात्मने ॥ ५९
अदात्तस्याक्षयं वित्तं शत्रुभिश्चाप्यधृष्यताम् । धर्मे रतिं च सततं स्वर्गे वासं तथाऽक्षयम् ॥
पुत्राणां चाक्षयाँल्लोकान्स्वर्गे ये रक्षसा हताः ॥ ६०
तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते । भद्राश्वः कपिलाश्वश्च कनीयांसौ तु तौ स्मृतौ ॥ ६१
धौन्धुमारिर्दृढाश्वस्तु हर्यश्वस्तस्य चाऽऽत्मजः । हर्यश्वस्य निकुम्भोऽभूत्क्षत्रधर्मरतः सदा ॥ ६२
संहताश्वो निकुम्भस्य श्रुतो रणविशारदः । कृशाश्वश्चाक्षयाश्वश्च संहताश्वसुतावुभौ ॥ ६३
तस्य पत्नी हैमवती सतां मतिदृषद्वती । विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ॥ ६४
युवनाश्वः सुतस्तस्य त्रिषु लोकेष्वतिद्युतिः । अत्यन्तधार्मिको गौरी तस्य पत्नी पतिव्रता ॥ ६५
अभिशस्ता तु सा भर्त्रा नदी सा बाहुदा कृता । तस्यास्तु गैरिकः पुत्रश्चक्रवर्ती बभूव ह ॥ ६६
मांधाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः । अत्राप्युदाहरन्तीमौ श्लोकौ पौराणिका द्विजाः ॥६७
यावत्सूर्य उदयति यावच्च प्रतितिष्ठति । सर्वं तद्यौवनाश्वस्य मांधातुः क्षेत्रमुच्यते ॥ ६८
अत्राप्युदाहरन्तीमं श्लोकं वंशविदो जनाः । यौवनाश्वं महात्मानं यज्वानममितौजसम् ॥
मांधाता तु तनुर्विष्णोः पुराणज्ञाः प्रचक्षते ॥ ६९
तस्य चैत्ररथी भार्या शशबिन्दोः सुताऽभवत् । साध्वी बिन्दुमती नाम रूपेणाप्रतिमा भुवि ॥ ७०
पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा । तस्यामुत्पादयामास मांधाता त्रीन्सुतान्प्रभुः ॥ ७१
पुरुकुत्समम्बरीषं मुचुकुन्दं च विश्रुतम् । अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ॥ ७२
हरितो युवनाश्वस्य हारिताः शूरयः स्मृताः । एते ह्याङ्गिरसः पुत्राः क्षात्रोपेता द्विजातयः ॥ ७३
पुरुकुत्सस्य दायादस्त्रसदस्युर्महायशाः । नर्मंदायां समुत्पन्नः संभूतस्तस्य चाऽऽत्मजः ॥ ७४
संभूतस्याऽऽत्मजः पुत्रो ह्यनरण्यः प्रतापवान् । रावणो निहतो येन त्रिलोकीविजये पुरा ॥ ७५
त्रसदधोऽनरण्यश्च हर्षश्वस्तस्य चाऽऽत्मजः । हर्षश्वात्तु दृषद्वत्यां जज्ञे वसुमती नृपः ॥ ७६
तस्य पुत्रोऽभवद्राजा त्रिधन्वा नाम धार्मिकः । आसीत्त्रैधन्वनश्चापि विद्वांस्त्रय्यारुणः प्रभुः ॥ ७७
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः । तेन भार्या विदर्भस्य हृता हत्वा दिवौकसाम् ॥ ७८
पाणिग्रहणमन्त्रेषु निष्ठां संप्रापितेष्विह । विष्णुवृद्धः सुतस्तस्य विष्णुवृद्धा यतः स्मृताः ॥
एते ह्यङ्गिरस पुत्राः क्षात्रोपेताः समाश्रिताः ॥ ७९
कामाद्वालाच्च मोहाच्च संकर्षणबलेन च । भाविनोऽर्थस्य च बलात्तत्कृतं तेन धीमता ॥ ८०
तमधर्मेण सयुक्तं पिता त्रय्यारुणोऽत्यजत् । अपध्वंसेति बहुशोऽवदत्क्रोधसमन्वितः ॥ ८१
पितरं सोऽब्रवीदेकः क्व गच्छामीति वै मुहुः । पिता चैनमथोवाच श्वपाकैः सह वर्तय ॥ ८२
नाहं पुत्रेण पुत्रार्थी त्वयाऽद्य कुलपांसन । इत्युक्तः स निराकामन्नगराद्वचनाद्विभो ॥ ८३
न चैनं धारयामास वसिष्ठो भगवानृषिः । स तु सत्यव्रतो धीमाञ्श्वपाकावसथान्तिकम् ॥
पित्रा मुक्तोऽवसद्धीरः पिता चास्य वनं ययौ ॥ ८४
३२० श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०८८ श्लो० ८५-११३]
(वैवस्वतमनुवंशवर्णनम्)
तस्मिंस्तु विषये तस्य नाववर्षत्पाकशासनः । समा द्वादश संपूर्णास्तेनाधर्मेण वै तदा । ८५
दारांस्तु तस्य विषये विश्वामित्रो महातपाः । संन्यस्य सागरानूपे चचार विपुलं तपः ॥ ८६
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् । शिष्टानां भरणार्थाय व्यक्रीणाद्गोशतेन वै ॥ ८७
तं तु बद्धं गले दृष्ट्वा विक्रीतं तं नरोत्तमः । महर्षिपुत्रं धर्मात्मा मोक्षयामास सुव्रतः ॥ ८८
सत्यव्रतो महाबुद्धिर्भरं तस्य चाकरोत् । विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च ॥ ८९
सोऽभवद्गालवो नाम गले बद्धो महातपाः । महर्षिः कौशिकस्तातस्तेन वीर्येण मोक्षितः ॥ ९०
तस्य व्रतेन भक्त्या च रूपया च प्रतिज्ञया । विश्वामित्रकलत्रं च बभार विनये स्थितः ॥ ९१
हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् । विश्वामित्राश्रमाभ्यासे तन्मांसमपचत्ततः ॥ ९२
उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् । पितुर्न्नियोगादभजन्न्नृपे तु वनमास्थिते ॥ ९३०
अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । याज्योपाध्यायसंयोगाद्वासष्ठः पर्य्यरक्षत ॥ ९४
सत्यव्रतस्तु वाल्यात्तु भाविनोऽर्थस्य वै बलात् । वसिष्ठेऽभ्यधिकं मन्युं धारयामास मन्युना ॥ ९५
पित्रा रुदंस्तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् । न वारयामास मुनिर्वासष्ठः कारणेन वै ॥ ९६
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । एवं सत्यव्रतस्तान्वै हतवान्सप्तमे पदे ॥ ९७
जानन्द्यर्मान्वासष्ठस्तु न च मन्त्रानिहेच्छति । इति सत्यव्रते रोषं वसिष्ठो मनसाऽकरोत् ॥ ९८
गुरुबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तदा । न तु सत्यव्रतोऽबुध्यदुपांशुव्रतमस्य वै ॥ ९९
तस्मिंश्चोपरते यो यत्पितुरासीन्महामनाः । तेन द्वादश वर्षाणि नाववर्षत्पाकशासनः ॥ १००
तेन त्विदानीं बहुधा दीक्षां तां दुर्बलां भुवि । कुलस्य निष्कृतिः स्वस्य कृतेयं च भवेदिति ॥ १०१
ततो वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् । अभिषेक्ष्याम्यहं राज्ये पश्चादेनमिति प्रभुः ॥ १०२
स तु द्वादश वर्षाणि दीक्षां तामुद्वहन्बली । अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ १०३
सर्वकामदुघां धेनुं स ददर्श नृपात्मजः । तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥ १०४
दस्युधर्मं गतो दृष्ट्वा जघान बलिनां वरः । स तु मांसं स्वयं चैव विश्वामित्रस्य चाऽऽत्मजान् ॥१०५
भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदाऽत्यजत् । प्रोवाच चैव भगवान्वसिष्ठस्तं नृपात्मजम् ॥ १०६
पातये क्रूर हे क्रूर तव शङ्कुमयोमयम् । यदि ते त्रीणि शङ्कनि न स्युर्हि पुरुषाधम ॥ १०७
पितुश्चापरितोषेण गुरोर्दोंग्धीवधेन च । अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ १०८
एवं स त्रीणि शङ्कनि दृष्ट्वा तस्य महातपाः । त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः॥१०९
विश्वामित्रस्तु दाराणामागतो भरणे कृते । ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे ॥ ११०
छन्द्यमानो वरेणाथ गुरुं वव्रे नृपात्मजः । अनावृष्टिभये तस्मिन्गते द्वादशवार्षिके ॥ १११
अभिषिच्य तदा राज्ये याजयामास तं मुनिः । मिषतां दैवतानां च वसिष्ठस्य च कौशिकः ॥११२
× विन्ध्यपाश्र्वे महापुण्या निम्नगा गिरिकानने । तस्य स्नानेन संभूता कर्मनाशा शुभा नदी ॥
सशरीरं तदा तं वै दिवमारोपयत्प्रभुः ॥ ११३
× नास्त्ययं श्लोकः क. ग. घ. ङ. पुस्तकेषु ।
[अ०८८श्लो०११४-१३९] वायुपुराणम् । ३२१
(वैवस्वतमनुवंशवर्णनम्)
मिषतस्तु वसिष्ठस्य तदद्भुतमिवाभवत् । अत्राप्युदाहरन्तीमौ श्लोको पौराणिका जनाः ॥ ११४
विश्वामित्रप्रसादेन त्रिशङ्कुर्दिवि राजते । देवैः सार्धं महातेजाऽनुग्रहात्तस्य धीमतः ॥ ११५
शनैर्यात्यबला रम्या हेमन्ते चन्द्रमण्डिता । अलंकृता त्रिभिर्भावैस्त्रिशङ्कुग्रहभूषिता ॥ ११६
तस्य सत्यरता नाम भार्या केकयवंशजा । कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ ११७
स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः । आहर्त्ता राजसूयस्य सम्राडिति परिश्रुतः ॥ ११८
हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्यवान् । हरितो रोहितस्याथ चञ्चुहारीत उच्यते ॥ ११९
विजयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः । जेता सर्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ॥ १२०
रुरुकस्तनयस्तत्र राजा धर्मार्थकोविदः । रुरुकादृष्टकः पुत्रस्तस्माद्बाहुश्च जज्ञिवान् ॥ १२१
हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः शकर्यवनकाम्बोजैः पारदैः पल्हवैस्तथा ॥ १२२
नात्यर्थं धार्मिकोऽभूतस धर्म्ये सत्ययुगे तथा । सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै ॥
मृगोराश्रममासाद्य तुर्वेण परिरक्षितः ॥ १२३
आग्नेयमस्त्रं लब्ध्वा तु भार्गवात्सगरो नृपः । जघान पृथिवीं गत्वा तालजङ्घान्सहैहयान् ॥ १२४
शकानां पल्हवानां च धर्मान्निरसदच्युतः । क्षत्रियाणां तथा तेषां पारदानां च धर्मवित् ॥ १२५
ऋषय ऊचुः--
कथं स सगरो राजा गरेण सह जज्ञिवान् । किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥
धर्मान्कुलोचितान्क्रुद्धो राजा निरसदच्युतः ॥ १२६
सूत उवाच--
बाहोर्व्यसनिनस्तस्य हतं राज्यं पुरा किल । हैहयैस्तालजङ्घैश्च शकैः सार्धं समागतैः ॥ १२७
यवनाः पारदाश्चैव काम्बोजाः पल्हवास्तथा । हैहयार्थं पराक्रान्ता एते पञ्च गणास्तदा ॥ १२८
हतं राज्यं बलीयोभिरेभिः क्षत्रियपुङ्गवैः । हतराज्यस्तदा बाहुः संन्यस्य नु तदा नृपः ॥
वनं प्रविश्य धर्मात्मा सह पत्न्या तपोऽचरत् ॥ १२९
कस्यचित्त्वथ कालस्य तोयार्थं प्रस्थितो नृपः । वृद्धत्वादु दुर्बलत्वाच्च अन्तरा स ममार च ॥ १३०
पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् । सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ॥ १३१
सा तु भर्तुश्चितां कृत्वा वह्निं तं समरोहयत् । और्वस्तां भार्गवो दृष्ट्वा कारुण्याद्विन्यवर्तयत् ॥ १३२
तस्याऽऽश्रमे तु तं गर्भं सागरेण तदा सह । व्यजायत महाबाहु सगरं नाम धार्मिकम् ॥ १३३
और्वस्तु जातकमीदीन्कृत्वा तस्य महात्मनः । अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ १३४
जामदग्न्यात्तदाग्नेयमसुरैरपि दुःसहम् । स तेनास्त्रबलेनैव बलेन च समन्वितः ॥
जघान हैहयान्क्रुद्धो रुद्रः पशुगणानिव ॥ १३५
ततः शकान्सयवनान्काम्बोजान्पारदांस्तथा । पल्हवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः ॥ १३६
ते बध्यमाना वीरेण सगरेण महात्मना । वसिष्ठं शरणं सर्वे प्रपन्नाः शरणैषिणः ॥ १३७
वसिष्ठस्तांस्तथेत्युक्त्वा समयेन महामुनिः । सगरं वारयामास तेषां दत्त्वाऽभयं तदा ॥ १३८
सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च । धर्मं जघान तेषां वै वेषान्यत्वं चकार ह ॥ १३९
४१
३२२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ८८ श्लो० १४०-१६४]
( वैवस्वतमनुवंशवर्णनम् )
अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ १४०
पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ १४१
शका यवनकाम्बोजाः पह्लवाः पारदैः सह । कालिस्पर्शा माहिषिका दार्वाश्चोलाः खसास्तथा ॥
सर्वे ते क्षत्रियगणा धर्मस्तेषां निराकृतः । वसिष्ठवचनात्पूर्वं सगरेण महात्मना ॥ १४३
स धर्मविजयी राजा विजित्येमां वसुंधराम् । अश्वं विचारयामास वाजिमेधाय दीक्षितः ॥ १४४
तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे । वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ १४५
स तं देशं सुतैः सर्वैः खानयामास पार्थिवः । आसेदुश्च ततस्तस्मिंस्तदन्तस्ते महार्णवे ॥ १४६
तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् । विष्णुं कपिलरूपेण हंसं नारायणं प्रभुम् ॥ १४७
तस्य चक्षुः समासाद्य तेजस्तत्प्रतिपद्यते । दग्धाः पुत्रास्तदा सर्वे चत्वारस्त्ववशेषिताः ॥ १४८
बर्हिकेतुः सकेतुश्च तथा वर्मरथश्च यः । शूरः पञ्चवनश्चैव तस्य वंशकराः प्रभोः ॥ १४९
प्रादाच्च तस्य भगवान्हरिर्नारायणो वरान् । अक्षतत्वं स्ववंशस्य वाजिमेधशतं तथा ॥
विभुं पुत्रं समुद्रं च स्वर्गे वासं तथाऽक्षयम् ॥ १५०
स समुद्रोऽधमादाय ववन्दे सरितां पतिः । सागरत्वं च लेभे स कर्मणा तेन तस्य वै ॥ १५१
तं चाऽश्वमेधिकं सोऽश्वं समुद्रात्प्राप्य पार्थिवः । आजहाराश्वमेधानां शतं चैव पुनः पुनः ॥ १५२
षष्टिपुत्रसहस्राणि दग्धान्यश्वानुसारिणाम् । तेषां नारायणं तेजः प्रविष्ठानां महात्मनाम् ॥
पुत्राणां तु सहस्राणि षष्टिरस्तु इति नः श्रुतम् ॥ १५३
ऋषय ऊचुः-
सगरस्याऽऽत्मजा राज्ञः कथं जाता महाबलाः । विक्रान्ताः षष्टिसार्हस्रा विधिना केन वा वद ॥
सूत उवाच-
द्वे पत्न्यौ सागरस्याऽऽस्तां तपसा दग्धकिल्बिषे । ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥
कनीयसी तु या तस्य पत्नी परमधर्मिणी । अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ १५६
और्वस्ताभ्यां वरं प्रादात्तपसाऽऽराधितःप्रभुः । एका जनिष्यते पुत्रं वंशकर्तारमीप्सितम् ॥
षष्टिपुत्रसहस्राणि द्वितीया जनयिष्यति ॥ १५७
मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेककम् । वंशस्य कारणं श्रेष्ठा जग्राह नृपसंसदि ॥ १५८
षष्टिपुत्रसहस्राणि सुपर्णभगिनी तथा । *महात्मनस्तु जग्राह सुमतिः स्वमतिर्यथा ॥ १५९
अथ काले गते ज्येष्ठा ज्येष्ठं पुत्रं व्यजायत । असमञ्ज इति ख्यातं काकुत्स्थं सगरात्मजम् ॥
सुमतिस्त्वपि जज्ञे वै गर्भं तुम्बे यशस्विनी । षष्टिपुत्रसहस्राणि तुम्बमध्याद्विनिःसृताः ॥ १६१
घृतपूर्णेषु कुम्भेषु तान्गर्भान्यदधत्ततः । धात्रीश्चैकैकशः प्रादात्तावत्यः पोषणे नृपः ॥ १६२
ततो नवसु मासेषु समुत्तस्थुर्यथासुखम् । कुमारास्ते महाभागाः सगरप्रीतिवर्धनाः ॥ १६३
कालेन महता चैव यौवनं प्रतिपेदिरे । षष्टिपुत्रसहस्राणि तेषामश्वानुसारिणाम् ॥ १६४
* एतदर्धस्थाने इदमर्धं 'महात्मा तु समहतो जग्राह सुमतीं तथा' इति ख. ग. घ. पुस्तकेषु ।