सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 330, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 330

[अ०८८श्लो०११४-१३९] वायुपुराणम् । ३२१
(वैवस्वतमनुवंशवर्णनम्)

मिषतस्तु वसिष्ठस्य तदद्भुतमिवाभवत् । अत्राप्युदाहरन्तीमौ श्लोको पौराणिका जनाः ॥ ११४
विश्वामित्रप्रसादेन त्रिशङ्कुर्दिवि राजते । देवैः सार्धं महातेजाऽनुग्रहात्तस्य धीमतः ॥ ११५
शनैर्यात्यबला रम्या हेमन्ते चन्द्रमण्डिता । अलंकृता त्रिभिर्भावैस्त्रिशङ्कुग्रहभूषिता ॥ ११६
तस्य सत्यरता नाम भार्या केकयवंशजा । कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ ११७
स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः । आहर्त्ता राजसूयस्य सम्राडिति परिश्रुतः ॥ ११८
हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्यवान् । हरितो रोहितस्याथ चञ्चुहारीत उच्यते ॥ ११९
विजयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः । जेता सर्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ॥ १२०
रुरुकस्तनयस्तत्र राजा धर्मार्थकोविदः । रुरुकादृष्टकः पुत्रस्तस्माद्बाहुश्च जज्ञिवान् ॥ १२१
हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः शकर्यवनकाम्बोजैः पारदैः पल्हवैस्तथा ॥ १२२
नात्यर्थं धार्मिकोऽभूतस धर्म्ये सत्ययुगे तथा । सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै ॥
मृगोराश्रममासाद्य तुर्वेण परिरक्षितः ॥ १२३
आग्नेयमस्त्रं लब्ध्वा तु भार्गवात्सगरो नृपः । जघान पृथिवीं गत्वा तालजङ्घान्सहैहयान् ॥ १२४
शकानां पल्हवानां च धर्मान्निरसदच्युतः । क्षत्रियाणां तथा तेषां पारदानां च धर्मवित् ॥ १२५

ऋषय ऊचुः--
कथं स सगरो राजा गरेण सह जज्ञिवान् । किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥
धर्मान्कुलोचितान्क्रुद्धो राजा निरसदच्युतः ॥ १२६

सूत उवाच--
बाहोर्व्यसनिनस्तस्य हतं राज्यं पुरा किल । हैहयैस्तालजङ्घैश्च शकैः सार्धं समागतैः ॥ १२७
यवनाः पारदाश्चैव काम्बोजाः पल्हवास्तथा । हैहयार्थं पराक्रान्ता एते पञ्च गणास्तदा ॥ १२८
हतं राज्यं बलीयोभिरेभिः क्षत्रियपुङ्गवैः । हतराज्यस्तदा बाहुः संन्यस्य नु तदा नृपः ॥
वनं प्रविश्य धर्मात्मा सह पत्न्या तपोऽचरत् ॥ १२९
कस्यचित्त्वथ कालस्य तोयार्थं प्रस्थितो नृपः । वृद्धत्वादु दुर्बलत्वाच्च अन्तरा स ममार च ॥ १३०
पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् । सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ॥ १३१
सा तु भर्तुश्चितां कृत्वा वह्निं तं समरोहयत् । और्वस्तां भार्गवो दृष्ट्वा कारुण्याद्विन्यवर्तयत् ॥ १३२
तस्याऽऽश्रमे तु तं गर्भं सागरेण तदा सह । व्यजायत महाबाहु सगरं नाम धार्मिकम् ॥ १३३
और्वस्तु जातकमीदीन्कृत्वा तस्य महात्मनः । अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ १३४
जामदग्न्यात्तदाग्नेयमसुरैरपि दुःसहम् । स तेनास्त्रबलेनैव बलेन च समन्वितः ॥
जघान हैहयान्क्रुद्धो रुद्रः पशुगणानिव ॥ १३५
ततः शकान्सयवनान्काम्बोजान्पारदांस्तथा । पल्हवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः ॥ १३६
ते बध्यमाना वीरेण सगरेण महात्मना । वसिष्ठं शरणं सर्वे प्रपन्नाः शरणैषिणः ॥ १३७
वसिष्ठस्तांस्तथेत्युक्त्वा समयेन महामुनिः । सगरं वारयामास तेषां दत्त्वाऽभयं तदा ॥ १३८
सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च । धर्मं जघान तेषां वै वेषान्यत्वं चकार ह ॥ १३९

४१