सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

Upavanavinoda of Sharngadhara with Commentary

आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा

DevanagariHindipublished134 पृष्ठ

94 UPAVANA VINODA
भूमि दानेन ये लोका गोदानेन च कीर्त्तिताः ।
ते लोकाः प्राप्यते पुंभिः पादपाणां प्ररोहणे ॥
अश्वत्थमेकं पिचुमर्दमेकं
न्यग्रोधमेकं दश पुष्पजातीः ।
द्वे द्वे तथा दाड़िममातुलुङ्गे
पञ्चाम्ररोपी नरकं न याति ॥
यथा सुपुत्रः कुलमुद्धरेद्धि
यथातिकृच्छ्राच्छियमप्रयत्नात् ।
तथात्र वृक्षाः फलपुष्पभूताः
स्वं स्वामिनं नरकादुद्धरन्ति ॥
गोकर्ण उवाच ।
इन्धनार्थं यथा नीतमग्निहोत्रं तदुच्यते ॥
छाया विश्राम पथिकैः पक्षिणां निलयेन च ।
पत्रमूलत्वगादींश्च औषधार्थन्तु देहिनाम् ॥
उपकुर्व्वन्ति वृत्तस्य पञ्चयज्ञः स उच्यते ।
गृहकृत्यानि काष्ठानि क्षुद्रजन्तुगृहस्तथा ॥
सत्रनिर्व्वर्त्तनं प्रोक्तं भिक्ता पत्रैः समाकृता ।
फलन्ति वत्सरे मध्ये द्विवारं शाकुनादयः ॥
सांवत्सरं पितुर्मातुरुपकारं फलं कृतम् ।
एवं पुत्र समारोप्या एवं तत्वविदो विदुः ॥
अच्छेद्य वृक्षा यथा,—
अश्वत्थो वटवृक्षश्च न च्छेत्तव्यः कदाचन ।
न च्छेत्तव्यो विल्ववृक्ष उडुम्बरश्च कदाचन ।
कर्म्मरङ्गाश्चैव ये वृक्षा न च्छेत्तव्याः कदाचन ॥¹
वृक्षच्छेदने दोषः ।
तस्मान्न च्छेदयेत् वृक्षान सुपुष्पफलितान् कदा ।
यदीच्छेत् कुलवृद्धिञ्च धनवृद्धिञ्च शाश्वतीम् ॥
1 वाराहपुराणे गोकर्णमाहात्म्यानामाध्याय

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 95
सन्निधौ देवतानाञ्च शिलैष्टकचितानपि ।
छेदितांश्छेदयेल्लोकान् मरकवृष्टिक्षुद्भयैः ॥
नृपहानिर्भवेच्छीघ्रं चित्यावृक्षे निपातिते ।
सन्नियोगी व्यथां याति सीमावृक्षे निपातिते ।
तस्मान्न छेदयेद् वृक्षं देवताधिष्ठितं क्वचित् ॥
वापीकूपतड़ागानां छेदने रोधने कृते ।
कुलान्यकुलतां यान्ति नराणां सुदुरात्मनाम् ॥
तांश्च छेदयेद्यस्तु वृक्षान् छायासुशीतलान् ।
असिपत्रबने घोरे पीड्यते यमकिङ्करैः ॥
नगरोपवने वृक्षान् प्रमादाद्धि च्छिनत्ति यः ।
स गच्छेन्नरकं नाम जुम्भणं रौद्रदर्शनम् ॥
बिल्वादिपालनं कुर्याच्छुभं भयदमन्यथा ।
श्रीवृक्षान्रोपयेत् पञ्च यदि स्वर्गान्न हीयते ॥¹
वृक्षस्तु सफलं छित्त्वा सुवर्णं दण्डमर्हति ।
द्विगुणं दण्डयेच्चैनं पथिसीम्निजलाशये ॥
छेदनादफलस्यापि मध्यमं साहसं स्मृतम् ।
गुल्मवल्लीलतानाञ्च सुवर्णस्य च माषकम् ॥
वृक्षच्छेदी तृणस्यापि दण्ड्यः कार्षापणं भवेत् ।
विभागं कृष्णला दण्ड्याः प्राणिनस्ताडने तथा ॥
देशकालानुरूपेण मूल्यं राजा द्रुमादिषु ।
तत् स्वामिनस्तथा दण्ड्या दण्डमुक्तस्तु पार्थिवः ॥²
बृहत् संहिता । ५३ ॥³
अथ दकार्गलं व्याख्यायते ।
धर्म्यं यशस्यञ्च वदाम्यतोऽहं दकार्गलं येन जलोपलब्धिः ।
पुंसां यथाङ्गेषु शिरास्तथैव क्षितावपि प्रोन्नतनिम्नसंस्थाः ॥ १
1 अग्निपुराणे वारुणारामप्रतिष्ठाध्यायः ।
2 मत्स्यपुराणे २२७ अध्यायः ।
3 Vol. II, pp. 706-742. The Vizianagram Sanskrit Series. Vol. X, Benares, 1895-1897.
Additional texts in the footnote are quoted from the Commentary.

96 UPAVANA VINODA
एकेन वर्णेन रसेन चाम्भश्च्युतं नभस्तो वसुधाविशेषात् ।
नानारसत्वं बहुवर्णताञ्च गतं परीक्ष्यं क्षितितुल्य मेव ॥ २$^1$
पुरुहूतानलयमनिऋॄ तिवरुणापवनेन्दुशङ्करा देवाः ।
विज्ञातव्याः क्रमशः प्राच्यादीनां दिशां पतयः ॥ ३
दिक्पतिसंज्ञाश्च शिरा नवमी मध्ये महाशिरानाम्री ।
एताभ्योऽन्याः शतशो विनिःसृता नामभिः प्रथिताः ॥ ४
पातालानूर्द्धशिराः शुभाश्चतुर्दिक्षु संस्थितायाश्च ।
कोणे दिग्गुत्था न शुभाः शिरानिमित्तान्यतो वक्ष्ये ॥ ५
यदि वेतसोऽम्बुरहिते देशे हस्तैस्त्रिभिस्ततः पश्चात् ।
सार्द्धे पुरुषे तोयं बहति शिरा पश्चिमा तत्र ॥ ६
चिह्नपि चार्द्धपुरुषे मण्डूकः पाण्डुरोऽथ मृत् पीता ।
पुटभेदकश्च तस्मिन् पाषाणो भवति तोयमधः ॥ ७$^2$
जम्ब्वाश्चोदग्ध्यस्तैस्त्रिभिः शिराधो नरद्वये पूर्ब्बा ।
मृल्लोहगन्धिका पाण्डुराथ पुरुषेऽत्र मण्डूकः ॥ ८
जम्बूवृक्षस्य प्राग् वल्मीको यदि भवेत् समीपस्थः ।
तस्माद्दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु ॥ ६
अर्द्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः ।
मृद्भवति चात्र नीला दीर्घकाल बह्व च तोयम् ॥ १०$^3$
1 तथा च भट्टोत्पल—सशर्करा ताम्रमही कषायं क्षारं धरित्री कपिला करोति ।
आपाण्डुरायां लवणं प्रदिष्टमिष्टं पयो नीलवसुन्धरायाम् ॥
2 तथा च सारस्वतः—निर्जले वेतसं दृष्ट्वा तस्माद्ध्वचादपि त्रयम् ।
पश्चिमायां दिशि ज्ञेयमधः सार्धेन वै जलम् ॥
नरोऽत्र षष्टिर्द्विगुणा चाङ्गुलानां प्रकीर्त्तितः ।
तत्र खात्वाऽर्धपुरुषं भेकः पाण्डुरवर्णकः ॥
मृत् पीता पुटभेदश्च पाषाणोऽधस्ततो जलम् ।
शिरा पश्चिमदिक्स्थाच वहतीति विनिर्दिशेत् ॥
3 तथा च सारस्वतः—जम्बूवृक्षात् पूर्वभागे वल्मीको यदि दृश्यते
ततोदक्षिणतो हस्तांस्त्रींस्त्यक्ताऽधो जलं वदेत् ॥
नरद्वयेऽर्धपुरुषे मत्स्योऽश्मा पश्चिसन्निभः ।
ततोऽपि मृत्तिका नीला ततो भ्रष्टं जलं वदेत् ॥

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 97
पश्चादुदुम्बरस्य त्रिभिरेव करैर्नरद्वये सार्द्धे ।
पुरुषे सितोऽहिरश्माञ्जनोपमोऽधः शिरा सुजला ॥११
उदगर्जुनस्य दृश्यो वल्मीको यदि ततोऽर्जुनाद्धस्तैः ।
त्रिभिरम्बु भवति पुरुषैस्त्रिभिरर्द्धसमन्वितैः पश्चात् ॥१२
श्वेता गोधार्द्धनरे पुरुषे मृद्धूसरा ततः कृष्णा ।
पीता सिता ससिकता ततो जलं निर्दिशेदसितम् ॥१३
वल्मीकोपचितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः ।
पुरुषद्वये सपादे स्वादुजलं भवति चाशोष्यम् ॥१४
रोहितमत्स्योऽर्द्धनरे मृत्कपिला पाण्डुरा ततः परतः ।
सिकता सशर्करोथ क्रमेण परतो भवत्यम्भः ॥१५
पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात् ।
पुरुषैस्त्रिभिरादेश्यं श्वेता गृहगोधिकाऽर्द्धनरे ॥१६¹
सपलाशा बदरी चेद् दिश्यपरस्यां ततो जलं भवति ।
पुरुषत्रये सपादे पुरुषेऽत च दुण्डुभिश्चिह्नम् ॥१७²
विल्वोदुम्बरयोगे विहाय हस्तत्रयं तु याम्येन ।
पुरुषैस्त्रिभिरम्बु भवेत् कृष्णोऽर्द्धनरे च मण्डूकः ॥१८
काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन् ।
पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च ॥१९
अपाण्डुपीतिका मृद् गोरसवर्णाश्च भवति पाषाणः ।
पुरुषार्द्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥२०
जलपरिहीने देशे वृत्तः कम्पिल्लुको यदा दृश्यः ।
प्राच्यां हस्तत्रितये वहति शिरा दक्षिणा प्रथमम् ॥२१
1 तथा च सारस्वतः—पूर्वभागं वदर्याश्च वल्मीको दृश्यते जलम् ।
पश्चाद्धस्तत्रये वाच्यं खाते तु पुरुषत्रये ॥
अधःखातेऽर्धपुरुषे दृश्यते गृहगोधिका ।
श्वेतवर्णा ततोऽधःस्थं जलं भवति निर्मलम् ॥
2 ,, ,, ,, पलाशयुक्ता बदरी यत्र दृश्या ततोऽपरि ।
हस्तत्रयादधस्तीयं सपादे पुरुषत्रये ॥
नरे तु दुण्डुभः सर्पो निर्विषश्चिह्नमेव च ।
अधस्तीये च सुस्वादु दीर्घकालं प्रवाहितम् ॥
13

98 UPAVANA VINODA
मृन्नीलोत्पलवर्णा कपोता चैव दृश्यते तस्मिन् ।
हस्तेऽजगन्धिमत्स्यो भवति पयोऽल्पञ्च सक्षारम् ॥ २२¹
शोणाकतरोरपरोत्तरे शिरा द्वौ करावतिक्रम्य ।
कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति ॥ २३
आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि ।
साध्यर्द्धं तस्य शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ॥ २४
तस्यैव पश्चिमाया दिशि वल्मीको यदा भवेद्धस्ते ।
तत्रोद्ग् भवति शिरा चतुर्भिरर्द्धाधिकैः पुरुषैः ॥ २५
श्वेतो बिम्बम्बरकः प्रथमे पुरुषे तु कुङ्कुमाभोऽश्मा ।
अपरस्यां दिशि च शिरा नश्यति वर्षत्रयेऽतीते ॥ २६
सकुशासित पेशान्यां वल्मीको यत्र कोविदारस्य ।
मध्ये तयोर्नरैरर्द्धपञ्चमैस्तोयमत्तोभ्यम् ॥ २७
प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही रक्ता ।
कुरुविन्दुः पाषाणश्चिह्नान्येतानि वाच्यानि ॥ २८
यदि भवति सप्तपर्णो वल्मीकवृतस्तदुत्तरे तोयम् ।
वाच्यं पुरुषैः पञ्चभिरत्रापि भवन्ति चिह्नानि ॥ २९
पुरुषार्द्धे मण्डूको हरितो हरितालसन्निभा भूश्च ।
पाषाणोऽभ्रनिकाशः सौम्या च शिरा शुभाम्बुवहा ॥ ३०³
1 तथा च सारस्वतः—निर्जले यत्र कम्पिल्लो दृष्टस्तस्मात् करत्रये ।
प्राच्यां विभिन्नरैर्वारि सा भवेद्दक्षिणा शिरा ॥
अधौ नीलोत्पलाभासा मृत् कापोतप्रभा क्रमात् ।
हस्तेऽजगन्धको मत्स्यो जलमल्पमशोभनम् ॥
2 ” ” ” विभीतकस्य याम्यायां वल्मीको यदि दृश्यते ।
करद्वयान्तरे पूर्व्वे सार्द्धे च पुरुषे जलम् ॥
3 तथा च सारस्वतः—भुजङ्गगेहसंयुक्तो यत्र स्यात् सप्तपर्णकः ।
ततः सौम्ये हस्तमात्रात् पञ्चभिः पुरुषैरधः ॥
वाच्यं जलं नरार्द्धे तु मण्डूकी हरितो भवेत् ।
हरितालनिभा भूश्च मेघाभोऽश्मा ततः शिरा ।
उत्तरा सुजला ज्ञेया दीर्घा मृष्टाम्ब वाहिनी ॥

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 99
सर्व्वेषां वृक्षाणामधःस्थितो दर्द्दु रो यदा दृश्यः ।
तस्माद्धस्ते तोयं चतुर्भिरर्द्धाधिकैः पुरुषैः ॥ ३१
पुरुषे तु भवति नकुलो नीला मृत् पीतिका ततः श्वेता ।
दर्द्दूरसमानरूपः पाषाणो दृश्यते चात्र ॥ ३२¹
यद्यहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य ।
हस्तद्वये तु याम्ये पुरुषत्रितये शिरा सार्द्धे ॥ ३३
कच्छपकः पुरुषार्द्धे प्रथमं चोद्भिद्यते शिरा पूर्व्वा ।
उद्गन्धा स्वादुजला हरितोऽश्माधस्ततस्तोयम् ॥ ३४
उत्तरतश्च मधूकादहिनिलयः पश्चिमे तरोस्तोयम् ।
परिहृत्य पञ्चहस्तान् अर्द्धाष्टमपौरुषे प्रथमम् ॥ ३५
अहिराजः पुरुषेऽस्मिन् धूम्ना धात्री कुलत्थवर्णोऽश्मा ।
माहेन्द्री भवति शिरा वहति सफनं सदा तोयम् ॥ ३६
वल्मीकः स्निग्धो दक्षिणेण तिलकस्य सकुशदूर्व्वश्चेत् ।
पुरुषै पञ्चभिरम्भो दिशि वारुण्यां शिरा पूर्व्वा ॥ ३७²
सर्पावासः पश्चाद् यदा कदम्बस्य दक्षिणेन जलम् ।
परतो हस्तत्रितयात् षड्भिः पुरुषैस्तुरीयोन्नैः ॥ ३८
कौवेरी चात्र शिरा वहति जलं लोहगन्धिः चाक्षोभ्यम् ।
कनकनिभो मण्डूको नरमात्रे मृत्तिका पीता ॥ ३९
वल्मीकसंम्वृतो यदि तालो वा भवति नालिकेरः ।
पश्चात् षड्भिर्हस्तैर्नरैश्चतुर्भिः शिरा याम्या ॥ ४०
याम्येन कपित्थस्याहिसंश्रयश्चेदुदग्जलं वाच्यम् ।
सप्त परित्यज्य करान् खात्वा पुरुषान् जलं पञ्च ॥ ४१
1 तथा च सारस्वतः—तरूणां यत्र सर्वेषामधःस्थो दर्द्दु रो भवेत् ।
हस्तादुदग्दिशि जलं हस्तात् सार्द्धेनरैरधः ॥
चतुर्भिः पुरुषे खाते नकुलो नीलसृत्तिका ।
पीतश्च ता ततो भिकसदृशोऽश्मा प्रदश्यते ॥
2 ,, ,, ,, —तिलकाद्दक्षिणे स्निग्धेः कुशदूर्व्वासमायुतः ।
वल्मीकाच्चोत्तरे पञ्च हस्तान् सन्त्यज्य पश्चिमे।
नरैः पञ्चभिरम्भोऽधः शिरा पूर्वात्र विद्यते ॥

100 UPAVANA VINODA
कर्बूरकोऽहिः पुरुषे कृष्णा मृत्पुटभिदपि च पाषाणः ।
श्वेता मृत् पश्चिमतः शिरा ततश्चोत्तरा भवति ॥ ४२
अश्मन्तकस्य वामे बदरी वा दृश्यतेऽहिनिलयो वा ।
षड्भिरुदक् तस्य करैः सार्द्धे पुरुषत्रये तोयम् ॥ ४३
कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृत् ।
आदौ शिरा च याम्या पूर्व्वोत्तरतो द्वितीया च ॥ ४४
वामेन हरिद्रुतरोर्व्वल्मीकश्चेत्ततो जलं पूर्व्वे ।
हस्तत्रितये पुरुषैः सत्र्यंशै पश्चिभिर्भवति ॥ ४५
नीलो भुजगः पुरुषे मृत् पीता मरकतोपमश्चाश्मा ।
कृष्णा भूः प्रथमं वारुणी शिरा दक्षिणेनान्या ॥ ४६
जलपरिहीने देशे दृश्यन्तेऽनूपजानि चिह्नानि ।
वीरनदूर्व्वा मृद्वक्षा यत्र तस्मिन् जलं पुरुषे ॥ ४७
भार्गी त्रिवृता दन्ती शुकरपदी च लक्ष्मणा चैव ।
नबमालिका च हस्तद्वयेऽम्बु याम्ये त्रिभिः पुरुषैः ॥ ४८
स्निग्धाः प्रलम्बशाखा वामनविटपद्रुमाः समीपजलाः ।
सुषिरा जर्जरपत्रा रुक्षाश्च जलेन सन्त्यक्ताः ॥ ४६
तिलकाम्रातकवरुणकभल्लातकविल्वतिन्दुकाइङ्गोलाः ।
पिण्डारशिरीषाञ्जनपरूषका बन्धुलोऽतिबला ॥ ५०
एते यदि सुस्निग्धा वल्मीकैः परिवृतास्ततस्तोयम् ।
हस्तैस्त्रिभिरुत्तरतश्चतुर्भिर्दर्धेण च नरस्य ॥ ५१
अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र ।
तस्मिन् शिरा प्रदिष्टा वक्तव्यं वा धनं तस्मिन् ॥ ५२
कण्टककण्टकानां व्यत्यासेऽसेऽम्भत्रिभिः करैः पश्चात् ।
खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥ ५३
नदति मही गम्भीरं यस्मिंश्ररगाहता जलं तस्मिन ।
सार्द्धैस्त्रिभिर्मनुष्यैः कौवेरी तत्र च शिरा स्यात् ॥ ५४
वृत्तस्यैका शाखा यदि विनता भवति पाण्डुरां वा स्यात् ।'
विज्ञातव्यं शाखातले जलं त्रिपुरुषं खात्वा ॥ ५५
फलकुसुमविकारो यस्य तस्य पूर्व्वे शिरा त्रिभिर्हस्तैः ।
भवति पुरुषैश्चतुर्भिः पाषाणोऽधःक्षितिः पीता ॥ ५६

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 101
यदि कष्टकारिका कण्टकैर्विना दृश्यते सितैः कुसुमैः ।
तस्यास्तलेऽम्बु वाच्यं त्रिभिनरैरर्द्ध पुरुषे च ॥ ५७
खज्जूर्री द्विशिरस्का यत्र भवेज्ज्वलविवर्ज्जिते देशे ।
तस्याः पश्चिमभागे निर्द्देश्यं त्रिपुरुषे वारि ॥ ५८¹
यदि भवति कर्णिकारः सितकुसुमः स्यात् पलाशवृक्षो वा ।
सव्येन तत्र हस्तद्वयेऽम्बु पुरुषत्रये भवति ॥ ५६
उष्मा यस्यां धात्र्यां धूमो वा तत्र वारि नरयुग्मे ।
निर्द्दष्टव्या च शिरा महता तोयप्रवाहेण ॥ ६०
यस्मिन् क्षेत्रोद्देशे जातं शस्यं विनाशमुपयाति ।
स्निग्धमतिपाण्डुरं वा महाशिरा नरयुग्मे तत्र ॥६१
मरुदेशे भवति शिरा यथा तथातःपरं प्रवक्ष्यामि ।
ग्रीवा करभाणामिव भूतलसंस्थाः शिरा यान्ति ॥ ६२
पूर्व्वोत्तरेण पीलोर्यदि वल्मीको जलं भवति पश्चात् ।
उत्तरगमना च शिरा विज्ञेया पञ्चभिः पुरुषैः ॥ ६३
चिह्नं दर्दुर आदौ मृतकपिलातःपरं भवेद्धरिता ।
भवति च पुरुषेऽधोऽश्मा तस्य तले बारि निर्द्देश्यम् ॥ ६४²
पीलोरेव प्राच्यां वल्मीकोऽतोऽर्धपञ्चमैर्हस्तैः ।
दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः ॥ ६५
प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्त्तिश्च ।
दक्षिणतो बहति शिरा सक्षारं भूरिपानीयम् ॥ ६६
उत्तरतश्च करीराद्दहिनिलये दक्षिणे जलं स्वादु ।
दशभिः पुरुषैर्ज्ञेयं पुरुषे पीतोऽत्र मण्डूकः ॥ ६७³
1 तथा च सारस्वतः—खर्जूरी द्विशिरस्का स्यान्निर्जले चेत् करङ्कये ।
निर्द्देश्यं पश्चिमे वारि खात्वाऽधः पुरुषत्रयम् ॥
2 तथा च सारस्वतः—ऐशान्यां पीलुवृक्षस्य वल्मीकश्चे जलं वदेत् ।
चतुर्भिः सरलैर्हस्तैः पश्चिमे नर पञ्चमे ॥
प्रथमे पुरुषे भेकः कपिला हरिता च मृत् ।
पाषाणस्य तले सौम्यां शिरां बहुजलां वदेत् ॥
3 " " " उदक्करीराद्वल्मीको दृश्यते चेज्जल' वदेत् ।

102 UPAVANA VINODA
रोहीतकस्य पश्चादहिवासश्चेत्रिभिः करैर्यम्ये ।
द्वादशपुरुषान् खात्वा सक्षारा पश्चिमेन शिरा ॥ ६८
इन्द्रतरोर्वल्मीकः प्राग्दृष्यः पश्चिमे शिरा हस्ते ।
खात्वा चतुर्द्दशनरान कपिला गोधा नरे प्रथमे ॥ ६६
यदि वा सुवर्णानाम्नस्तरोर्भवेद्वामतो भुजङ्गगृहम् ।
हस्तद्वये तु याम्ये पञ्चदशनरावसानेऽम्बु ॥ ७०
क्षारं पयोऽत्र नकुलोऽर्द्धमानवे ताम्रसन्निभश्चाश्मा ।
रक्ता च भवति वसुधा वहति शिरा दक्षिणा तत्र ॥ ७१
बदरीरोहितवृक्षौ संसृक्तौ चेद्विनापि वल्मीकम् ।
हस्तत्रयेऽम्बु पश्चात् षोडशभिर्मानवैर्भवति ॥ ७२
सुरसं जलमादौ दक्षिणा शिरा वहति चोत्तरेणान्या ।
पिष्टनिभः पाषाणो मृच्छ्वेता वृश्चिकोऽर्द्धनरे ॥ ७३
सकरीरा चेद्बदरी त्रिभिः करैः पश्चिमेन तत्राम्भः ।
अष्टादशभिः पुरुषैरीशानो बहुजला च शिरा ॥ ७४]
पीलुसमेता बदरी हस्तत्रयसम्मिते दिशि प्राच्याम् ।
विंशत्या पुरुषाणामशोष्यमम्भोऽत्र सक्षारम् ॥ ७५
ककुभकरीरावेकत्र संयुतौ यत्र ककुभबिल्वौ वा ।
हस्तद्वयेऽम्बु पश्चान्न्ररैर्भवेत् पञ्चविंशत्या ॥ ७६
वल्मीकमूर्द्धनि यदा दूर्व्वा च कुशाश्च पाण्डुराः सन्ति ।
कूपो मध्ये देयो जलमत्र नरैरेकविंशत्या ॥ ७७
भूमीः कदम्बकयुता वल्मीके यत्र दृश्यते दूर्व्वा ।
हस्तत्रयेण याम्ये नरैर्जलं पञ्चविंशत्या ॥ ७८
वल्मीकत्रयमध्ये रोहितकपादपो यदा भवति ।
नानावृद्धैः सहितस्त्रिभिर्ज्जलं तत्र वक्तव्यम् ॥ ७६
हस्तचतुष्के मध्यात् षोडशभिश्चाङ्गुलैरुदग्द्वारि ।
चत्वारिंशत् पुरुषान् खात्वाम्भातः शिरा भवति ॥ ८०
चतुर्भिर्दक्षिणैर्हस्तैः सार्धैर्दशनरादतः ।
नरे भेकः पीतवर्णों दृश्यते चिह्नमेव हि ॥

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 103
ग्रन्थिप्रचुरा यस्मिंश्छमी भवेदुत्तरेण वल्मीकः ।
पश्चात् पञ्चकरान्ते शतार्द्धसं ज्ञैद्यैः सलिलम् ॥ ८१
एकस्थाः पञ्च यदा वल्मीका मध्यमो भवेच्छ्वेतः ।
तस्मिन् शिरा प्रदिष्टा नरषष्ट्या पञ्चवर्ज्जितया ॥ ८२
सपलाशा यत्र शमी पश्चिमभागेऽम्बु मानवैः षष्ठ्या ।
अर्द्धनरेऽहिः प्रथमं सवालुका पीतमृत् परतः ॥ ८३¹
वल्मीकेन परिवृतः श्वेतो रोहीतकौ भवेद् यस्मिन् ।
पूर्वेन हस्तमात्रे सप्तत्या मानवैरम्बु ॥ ८४
श्वेता कण्टकबहुला यत्र शमी दक्षिणेन तत्र पयः ।
नरपञ्चकसंयुतया सप्तत्याहिर्नराद्धे च ॥ ८५²
मरुदेशे यच्चिह्नं न जाङ्गले तैर्जलं विनिद्दिश्यम् ।
जम्बूवेतस पूर्वे ये पुरुषास्ते मरौ द्विगुणाः ॥ ८६
जम्बूस्त्रिवृता मूर्खा शिशुमारौ सारिवा शिवा श्यामा ।
वीरुधयो वाराही ज्योतिष्मती च गरुड़वेगा ॥ ८७
शूकरिकामार्षपर्णी व्याघ्रपदाश्चेति यद्यहेर्निलये ।
वल्मीकादुत्तरतस्त्रिभिः करैस्त्रिपुरुषे तोयम् ॥ ८८
एतदानूपे वाच्यं जाङ्गलभूमौ तु पञ्चभि पुरुषैः ।
एतैरैव निमित्तैर्मरुदेशे सप्तभिः कथयेत् ॥ ८६
एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना ।
तस्यां यत्र विकारो मवति धरित्र्यां जलं तत्र ॥ ६०
यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात् ।
तत्रार्द्धपञ्चमैर्वारि मानवैः पञ्चभिर्यदि वा ॥ ६१
1 तथा च सारस्वतः—शमी पलाशसंयुक्ता यत्र स्यात् तत्र पश्चिमे ।
पञ्चहस्ताज्जलं वाच्यं षष्ट्याच पुरुषैरधः ॥
अधार्धपुरुषे सर्पः पीता मृत् स्यात् सवालुका ।
तदधोऽम्भो विनिर्देश्यं दीर्घकालं प्रवाहितम् ॥
2 ,, ,, ,, —श्वे तातिकण्टका यत्र शमी स्यात् तत्र दक्षिणे ।
हस्तेन पञ्चसप्तत्या नराणां निर्दिशेज्जलम् ॥
खातेऽर्धपुरुषे सर्पो दृश्यतेऽञ्जनसप्रभः ।
सुरसं च जलं ज्ञेयं चिरकालप्रवाहितम् ॥

104 UPAVANA VINODA
स्निग्धतरूणां याम्ये नरैश्चतुर्भिर्जलं प्रभूतञ्च ।
तरुगहनेऽपि हि विकृतो यस्तस्मात्तद्वदेव वदेत् ॥ ९२
नमते यत्र धरित्री सार्द्धे पुरुषेऽम्बु जाङ्गलानूपे ।
कीटा वा यत्र विनालयेन बहवोऽम्बु तत्रापि ॥ ९३
उष्णा शीता च मही शीतोष्णाम्भस्त्रिभिर्नरैः सार्द्धैः ।
इन्द्रधनुर्मत्स्यो वा वल्मीको वा चतुर्हस्तात् ॥ ९४
वल्मीकानां पङ्क्त्यां यद्येकोऽभ्युच्छ्रितः शिरा तदधः ।
शुष्यति न रोहते वा शस्यं यस्याञ्च तन्नाम्भः ॥ ९५¹
न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः ।
वटपिप्पलसमवाये तद्वद्वाच्यं शिरा चोदक् ॥ ९६²
आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः ।
नित्यं स करोति भयं दाहञ्च समानुषं प्रायः ॥ ९७
नैर्ऋतकोणे बालक्षयं वनिताभयञ्च वायव्ये ।
दिक्त्रयमेतत्त्यक्त्वा शेषासु शुभावहाः कूपाः ॥ ९८
सारस्वतेन मुनिना दकार्गलं यत्कृतं तदवलोक्य ।
आर्याभिः कृतमेतद्वृत्तैरपि मानवं वक्ष्ये ॥ ९९
· स्निग्धाः यतः पादपगुल्मवल्ल्यो
निश्छिद्रपत्राश्च ततः शिरास्ति ।
पद्मत्तु रोशीरकुलाः सगुण्ड्राः
काशाः कुशा वा नलिकानलो वा ॥ १००

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 105
विभीतको वा मदयन्तिका वा
यत्रास्ति तस्मिन् पुरुषत्रयेऽम्भः ।
स्यात् पर्व्वतस्योपरि पर्व्वतोऽन्य-
स्तत्रापि मूले पुरुषत्रयेऽम्भः ॥ १०२¹
या मौञ्जकैः काशकुशैश्च युक्ता
नीला च मृद् यत्र सशर्करा च ।
तस्यां प्रभूतं सुरसञ्च तोयं
कृष्णाथवा यत्र च रक्तमृद्वा ॥ १०३
सशर्करा ताम्रमही कषायं
क्षारं धरित्री कपिला करोति ।
अपाण्डुरायां लवणं प्रदिष्टं
मिष्टं पयो नीलवसुन्धरायाम् ॥ १०४
शाकाश्वकर्णार्जुनबिल्वसर्जाः
श्रीपर्ण्यरिष्टाधवशिंशपाश्च ।
छिद्रैश्च पर्णैर्द्रुमगुल्मवल्ल्यो
रूक्षाश्च दूरेऽम्बु निवेदयन्ति ॥ १०५
सूर्याग्निभस्मोष्ट्रखरानुवर्णा
या निर्ज्जला सा वसुधा प्रदिष्टा ।
रक्ताङ्कुराः क्षीरयुता करीरा
रक्ता धरा चेज्जलमश्मनोऽधः ॥ १०६
1 तथा च मनुः—गुञ्जापादपवल्ल्यः स्युः पर्व्वताखण्डितैर्युताः ।
तदधो विद्यते वारि खाते तु पुरुषत्रये ॥
पद्माक्षोशीरकुला गुण्ड्रा काशः कूशोऽथवा ।
नलिकानलखर्जूरजम्बूवेतसकार्जुनाः ॥
यव सार्द्रं मवङ्गाश्च क्षीरयुक्ताः फलान्विताः ।
कूब्जकनागनीपाश्च शतपत्रविभीतकाः ॥
सिन्धु वारा नक्तमालाः सुगन्धा मदयन्तिकाः ।
यत्रैते सुस्रुतं जलं खातेऽम्भः पुरुषत्रये ॥
14

106 UPAVANA VINODA
वैदूर्य्यमुद्गाम्बुदमेचकाभा
पाकोन्मुखोदुम्बरसन्निभा वा ।
भृङ्गाञ्जनाभा कपिलाथवा या
ज्ञेया शिला भूरिसमीपतोया ॥ १०७
पारावतक्षौद्रघृतोपमा या
क्षौमस्य वस्त्रस्य च तुल्यवर्णा ।
या सोमवल्लयाश्च समानरूपा
साप्यशु तोयं कुरुतेऽक्षयञ्च ॥ १०८
ताम्रैः समेता पृषतैर्विचित्रै-
रापाण्डुभस्मोष्ट्रखरानुरूपा ।
भृङ्गोपमाङ्गुष्ठिकपुष्पिका वा
सूर्याग्निवर्णा च शिला वितोया ॥ १०६
चन्द्रातपस्फटिकमौक्तिकहेमरूपा
याश्चेन्द्रनीलमणिहिङ्गुलुकाञ्जनाभाः ।
सूर्य्योदयांशुहरितालनिभाश्च याः स्यु-
स्ताः शोभना मुनिवचोऽत्र च वृत्तमेतत् ॥ ११०
एता ह्यभेद्याश्च शिला शिवाश्च
यक्षैश्च नागैश्च सदाभिजुष्टाः ।
येषाञ्च राष्ट्रेषु भवन्ति राज्ञां
तेषामवृष्टिर्न भवेत् कदाचित् ॥१११
भेदं यदा नैति शिला तदानीं
पलाशकाष्ठैः सह तिन्दुकानाम् ।
प्रज्वालयित्वानलमग्निवर्णा
सुधाम्बुसिक्ता प्रविदारमेति ॥११२
तोयं शृतं मोक्षकभस्मना वा
यत् सप्तकृत्वः परिषेचनं तत् ।
कार्य्यं शरक्षारयुतं शिलायाः
प्रस्फोटनं वह्निवितापितायाः ॥११३
गिरेरुपरि यवाख्यः पर्वतः स्यात् ततो जलम् ।
तस्यैव मूले पुरुषैस्त्रिभिरम्भो विनिर्दिशेत् ॥

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 107
तक्रकाञ्जिकसुराः सकुलत्था
योजितानि बदराणि च तस्मिन् ।
सप्तरात्रमुषितान्यभितप्तां
दारयन्ति हि शिलां परिषेकैः ॥११४
नैम्बं पत्रं त्वक् च नालं तिलानां
सापामागं तिन्दुकं स्याद् गुडूची ।
गोमूत्रेण स्रावितः क्षार एषां
षट्कृत्वोऽतस्तापितो भिद्यतेऽश्मा ॥११५
आर्क पयो हुडुविषाणमषीसमेतं
पारावताङ्गुशकृता च युतं प्रलेपः ।
टङ्कस्य तैलमथितस्य ततोऽस्य पानं
पश्चाच्छितस्य शिलासु भवेद्विघातः ॥११६
क्षारे कदल्या मथितेन युक्ते
दिनोषिते पायितमायसं यत् ।
सम्यक् शितं चाश्मनि च एति भङ्गं
न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥११७
पाली प्रागपरायताम्बु सुचिरं धत्ते न याम्योत्तरा
कल्लोलैरवदारमेति मरुता सा प्रायशः प्रेरितैः ।
तां चेदिच्छति सारदार्घभिरपां सम्पातमावारयेत्-
पाषाणादिभिरेव वा प्रतिचयं क्षुण्णां द्विपाश्वादिभिः ॥११८
ककुभवटाम्रप्लक्षकदम्बैः
सनिचुलजम्बूवेतसनीपैः ।
कुरुबकतालाशोकमधुकैर्व्व-
कुलविमिश्रैश्चावृततीराम् ॥११९
द्वारञ्च नैर्वाहिकमेकदेशे
कार्य्यं शिलासञ्चितवारिमार्गम् ।
कोशस्थितं निर्व्विवरं कपाटं
कृत्वा ततः पांशुभिरावपेत्तम् ॥१२०
अञ्जनमुस्तोशीरैः सराजकोशकामलकचूर्णैः ।
कतकफलसमायुक्तैर्योगः कूपे प्रदातव्यम् ॥१२१

108 UPAVANA VINODA

कलुषं कटुकं लवणं विरसं
सलिलं यदि वा शुभगन्धि भवेत् ।
तदनेन भवत्यमलं सुरसं
सुसुगन्धिगुणैरपरैश्च युतम् ॥१२२
हस्तो मघानुराधापुष्यधनिष्टोत्तराणि रोहिण्यः ।
शतभिषगित्यारम्भे कूपानां शस्यते भगणः ॥१२३
कृत्वा वरुणस्य बलिं वटवेतसकीलकं शिरास्थाने ।
कुसुमैर्गन्धैर्धूपैः सम्पूज्य निधापयेत् प्रथमम् ॥१२४
मेघोद्भवं प्रथममेव मया प्रदिष्टं
ज्येष्ठामतीत्य वलदेवमतादिदृष्ट्या ।
भौमं दकार्गलमिदं कथितं
द्वितीयं सम्यग्वराहमिहिरेण मुनिप्रसादात् ॥

बृहत्संहिता ।¹
अथ कुसुमलताध्यायः ।

फलकुसुमसम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् ।
सुलभत्वं द्रव्याणां निष्पत्तिश्चापि शस्यानाम् ॥१
शालेन कलमशाली रक्ताशोकेन रक्तशालिश्च ।
पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः ॥२
न्यग्रोधेन तु यवकस्तिन्दुकवृद्ध्या च षष्टिकौ भवति ।
अश्वत्थेन ज्ञेया निष्पत्तिः सर्वशस्यानाम् ॥३
जम्बूभिस्तिलमाषाः शिरीषवृद्ध्या च कङ्गुनिष्पत्तिः ।
गोधूमाश्च मधुकैर्यववृद्धिः सप्तपर्णेन ॥४
अतिमुक्तककुन्दाभ्यां कर्पासं सर्षपान् वदेदशनैः ।
बदरीभिश्च कुलत्थांश्चिरविल्वेनादिशेन्मुद्गान् ॥५
अतसीवेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः ।
तिलकेन शङ्खमौक्तिकरजतान्यथ चेङ्गुदेन शणः ॥६

1 एकोनविंशोध्यायः ।

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 109
करिणश्च हस्तिकर्णैरादेश्या वाजिनोऽश्वकर्णेन ।
गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥७
चम्पककुसुमैः कनकं विद्रुमसम्पच्च बन्धुजीवेन ।
कुरुवकवृद्ध्या वस्त्रं वैदूर्यं नन्दिकावर्त्तैः ॥८
विन्द्याच्च सिन्दुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन ।
रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥६
श्रेष्ठी सुवर्णपुष्पैः पद्म विंप्राः पुरोहिताः कुमुदैः ।
सौगन्धिकेन बलपतिर्केण हिरण्यपरिवृद्धिः ॥१०
आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथारोग्यम् ।
खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः ॥११
पिचुमर्द्दे नागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन ।
निचुलैनावृष्टिभयं व्याधिभयं भवति कुटजेन ॥१२
दूर्वाकुशकुसुमाभ्यामित्तुर्वृद्धिश्च कोविद्वारेण ।
श्यामालताभिवृद्ध्या वन्ध्या वन्धक्यो वृद्धिमायान्ति ॥१३
यस्मिन्देशे स्निग्वनिच्छिद्रपत्राः संदृश्यन्ते वल्लुगुल्मलताश्च ।
तस्मिन् वृष्टिः शोभना सम्प्रदिष्टा रूक्षैश्छिद्रैरल्पमम्भः प्रदिष्टम् ॥१४¹
बृहत्संहिता ।²
अथवृक्षायुर्वेदः ॥
प्रान्तच्छायाविनिर्मुक्ता न मनोज्ञा जलाशयाः ।
यस्मादतो जलप्रान्तेष्वारामान् विनिवेशयेत् ॥ १
मृद्वी भूः सर्व्ववृक्षाणां हिता तस्यां तिलान् वपेत् ।
पुष्पितांस्तांश्च गृह्णीयात् कर्म्मैतत् प्रथमं भुवि ॥ २³
1 तथा च पराशरः—'अच्छिद्रपत्राः सुस्निग्धाः फलपुष्पसमन्विताः ।
निर्द्दिशन्ति शुभं वृक्षा विपरीतं विगर्हिताः ॥
2 पञ्चपञ्चाशत्तमोऽध्यायः ।
3 तथा च काश्यपः—दूर्वावीरण संयुक्ताः सानूपा सद्मृत्तिकाः ।
तत्र वाप्य शुभा वृक्षाः सुगन्धिफलशाखिनः ॥

110 UPAVANA VINODA
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ।
मङ्गल्याः पूर्व्वमारामे रोपणीया गृहेषु वा ॥ ३¹
पनसाशोककदलीजम्बूलकुचदाडिमाः ।
द्राक्षापालीवताश्चैव बीजपूरातिमुक्तकाः ॥ ४
एते द्रुमाः काण्डरोप्या गोमयेन प्रलेपिताः ।
मूलच्छेदेऽथवा स्कन्धे रोपणीयाः प्रयत्नतः ॥ ५²
अजातशाखांश्छिशिरे जातशाखान् हिमागमे ।
वर्षागमे च सुस्कन्धान् यथादिक् प्रतिरोपयेत् ॥ ६³
घृतोशीरतिलक्षौद्रविडङ्गक्षीरगोमयैः ।
आमूलस्कन्धलिप्तानां संक्रामणविरोपणम् ॥ ७⁴
शुचिर्भूत्वा तरोः पूजां कृत्वा स्नानानूलेपनैः ।
रोपयेद्रोपितश्चैव पत्रैस्तैरेव जायते ॥ ८⁵
सायं प्रातश्च घर्म्मतौ शीतकाले दिनान्तरे ।
वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥ ६⁶
1 तथा च काश्यपः अशोकमध्यकारिष्ट पुन्नागाश्च प्रियङ्गवः ।
शिरीषोदुम्बराः श्रेष्ठाः पारिजातकमेव च ॥
एते वृक्षा शुभा ज्ञेयाः प्रथमं तांश्च रोपयेत् ।
देवालये तथोद्याने गृहेषूपवनेषु च ॥
2 ,, ,, ,, —द्राक्षातिमुक्तको जम्बूबीजपूरकदाडिमा ।
कदलीवङ्गुलाद्योकाः काण्डरीप्याश्च वापयेत् ॥
अन्येऽपि शाखिनो ये च पुष्पिताः फलितास्तथा ।
गोमयेन प्रलिप्ताश्च रोपणीया विबुद्धये ॥
3 ,, ,, ,, —अजातशाखा ये वृक्षाः शिशिरे तांश्च रोपयेत् ।
जातशाखाश्च हेमन्ते रोपणीया विधानतः ।
सुस्कन्धाः शाखिनो ये तान् प्रावृटकाले तु रोपयेत् ॥
4 ,, ,, ,, —घृतं क्षीरं तथा क्षौद्रमुशीरतिल गोमयैः ।
विडङ्गलेपनं मूलात् संक्रामणविरोपनम् ॥
5 तथा च अग्निपुराणे—सम्पूज्य वरुणं विष्णुं पर्जन्यं तत् समारभे त् । ६ । chap. 282.
6 ,, ,, —सायं प्रातस्तु घर्म्मतौ शीतकाले दिनान्तरे ।
वर्षांराचौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥ ७-८

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 111
जम्बूवेतसवानीरकदम्बोदुम्बराऽर्जुनाः ।
बीजपूरकमृद्धीकालकुचाश्च सदाड़िमाः ॥ १०
बकुलो नक्तमालश्च तिलकः पनसतथा ।
तिमिराम्रातकञ्चैव षोडशानूपजाः स्मृताः ॥ ११
उत्तम' विंशतिर्हस्ता मध्यम' षोडशान्तरम् ।
स्थानात् स्थानान्तर' कार्य्यं वृक्षाणां द्वादशावरम् ॥ १२ ¹
अभ्याशजातास्तरवः संस्पृशन्तः परस्परम् ।
मिश्रैर्मूलैश्च न फलं सम्यग् यच्छन्ति पीडिताः ॥ १३
शीतवातातपै रोगो जायते पाण्डुपत्रता ।
अवृद्धिश्च प्रवालानां शाखाशोषो रसस्रुतिः ॥ १४
चिकित्सितमथैतेषां शस्त्रेणादौ विशोधनम् ।
विडङ्गघृतपङ्काक्तान् सेचयेत् क्षीरवारिणा ॥ १५²
फलनाशो कुलत्थैश्च माषैर्मुद्गै स्तिलैर्यवैः ।
शृतशीतपयःसेकः फलपुष्पाभिवृद्धये ॥ १६³
अविकाऽजशकृच्चूर्णस्याढके द्वे तिलाढ़कम् ।
सक्तुप्रस्थो जलद्रोणो गोमांसन्तुलयासह ॥ १७
1 तथा च काश्यपः—अन्तर' विंशतिर्हस्ता वृक्षाणामुत्तमं स्मृतम् ।
मध्यमं षोड़श ज्ञेयमधमं द्वादश स्मृतम् ॥
,, ,, अग्निपुराणे—उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ।
स्थानात् स्थानान्तर' कार्य्यं वृक्षाणां द्वादशान्तरम् ॥ ८-९
2 तथा च काश्यपः—शाखाविटपपत्रैश्च छायया पिहिताश्च ये ।
येऽपि पर्णफलैर्हीना रूक्षाः पत्रैश्च पाण्डुरैः ॥
शीतोष्णवर्षवाताद्यैर्मूलैरन्योऽन्यमिश्रितैरपि ।
शाखिनां तु भवेद्रोगो द्विपानां लेखनेन च ॥
चिकित्सित्तेषु कर्त्तव्या ये च भूयः पुनर्नवाः ।
शोधयेत् प्रथमं शस्त्रैः प्रलेपं दापयेत्ततः ॥
कर्दमेन विड़ङ्गैश्च घृतमिश्रैश्च लेपयेत् ।
क्षीरतोयेन सेकः स्याद्रोघ्नं सर्वशाखिनाम् ॥
तथा च अग्निपुराणे—विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् ।
विडङ्गघृतपङ्काक्तान् सेचयेत्क्षीरवारिणा ॥ ९-१०
3 ,, ,, ,, फलनाशे कुलत्थैश्च माषैर्मुद्गै र्यवैस्तिलैः ।
घृतशीतपयःसेक फलपुष्पाय सर्व्वदा ॥ १०-११

19 is printed as 16 or 19? Look at the glyph:
It is: १ and then ६ or ९?
In Devanagari: ६ is 6, ९ is 9.
Here it is: "१६"! It actually looks like '१६' (a typographical error for 19, or is it 19 printed with an inverted 9 which looks like 6?).
Wait, let's look at the digit:
Line 3: १८ (18)
Line 7: १६ (it is shaped like a 6: ६!).
Line 9: २० (20)
So 19 is misprinted as १६! We should transcribe it exactly as printed: १६ (or note it, but the user asked for pure clean text line by line).

Line :
"मत्स्यशूकरवसाससमन्वितं' रोपितञ्च परिकर्म्मितावगौ ।"
Wait, look at "मत्स्यशूकरवसाससमन्वितं":
Wait, is there an extra 'स'?
Let's look really closely at:
"मत्स्यशूकरवसाससमन्वितं"
Letter 1: म
Letter 2: त्स्य
Letter 3: शू
Letter 4: क
Letter 5: र
Letter 6: व
Letter 7: सा
Letter 8: स
Letter 9: म
Letter 10: न्वि

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 113
हस्तायतं तद्द्विगुणं गभीरं
खात्वा वटं प्रोक्तजलावपूर्णम् ।
शुष्कं प्रदग्धं मधुसर्पिषा तत्
प्रलेपयेद्भस्मसमन्वितेन ॥२४
चूर्णीकृतैर्माषितलैर्यवैश्च
प्रपूरयेन्मृत्तिकयान्तरस्थैः ।
मत्स्यामिषाम्भः सहितश्च हन्याद्
यावद् घनत्वं समुपागतं तत् ॥२५
उप्तञ्च बीजं चतुरङ्गुलाधो
मत्स्याम्भसा मांसजलैश्च सिक्तम् ।
वल्ली भवत्याशु शुभप्रवाला
विस्मापनी मण्डपमावृणोति ॥२६
शतशोऽङ्कोलनसम्भूतफलकल्केन भावितम् ।
एतत्तैलेन वा बीजं श्लेष्मातकफलेन वा ॥२७
वापितं करकोन्मिश्रं मृदि तत्क्षणजन्मकम् ।
फलभारान्विता शाखा भवतीति किमद्भुतम् ॥२८
श्लेष्मातकस्य बीजानि निष्कुलीकृत्य भावयेत् प्राज्ञः ।
अङ्कोल्लविज्जलाद्भिश्छायायां सप्तकृत्वेवम् ॥२९
माहिषगोमयघृष्टान्यस्य करीषे च तानि निक्षिप्य ।
करकाजलमृद्योगेऽन्युप्तान्यह्ना फलकराणि ॥३०
ध्रुवमृदुमूलविशाखा गुरुभं श्रवणस्तथाश्विनीहस्तम् ।
उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ॥३१¹
1 तथा च अग्निपुराणे—गृह्णीयाद्रोपयेद् वृक्षान् द्विजं चन्द्रं प्रपूज्य च ।
ध्रुवाणि पञ्चवायव्यं हस्तं प्राजेशवैष्णवम् ॥३
नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे
प्रवेशयेन्नदीवाहान् पुष्करिणीस्तु कारयेत् ॥४
हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवम् ।
जलाशयसमारम्भे वारुणञ्चोत्तरात्रयम् ॥५
15