उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)
Upavanavinoda of Sharngadhara with Commentary
आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा
पृष्ठ 118, कुल 134 में से
संदर्भ में पढ़ें110 UPAVANA VINODA
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ।
मङ्गल्याः पूर्व्वमारामे रोपणीया गृहेषु वा ॥ ३¹
पनसाशोककदलीजम्बूलकुचदाडिमाः ।
द्राक्षापालीवताश्चैव बीजपूरातिमुक्तकाः ॥ ४
एते द्रुमाः काण्डरोप्या गोमयेन प्रलेपिताः ।
मूलच्छेदेऽथवा स्कन्धे रोपणीयाः प्रयत्नतः ॥ ५²
अजातशाखांश्छिशिरे जातशाखान् हिमागमे ।
वर्षागमे च सुस्कन्धान् यथादिक् प्रतिरोपयेत् ॥ ६³
घृतोशीरतिलक्षौद्रविडङ्गक्षीरगोमयैः ।
आमूलस्कन्धलिप्तानां संक्रामणविरोपणम् ॥ ७⁴
शुचिर्भूत्वा तरोः पूजां कृत्वा स्नानानूलेपनैः ।
रोपयेद्रोपितश्चैव पत्रैस्तैरेव जायते ॥ ८⁵
सायं प्रातश्च घर्म्मतौ शीतकाले दिनान्तरे ।
वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥ ६⁶
1 तथा च काश्यपः अशोकमध्यकारिष्ट पुन्नागाश्च प्रियङ्गवः ।
शिरीषोदुम्बराः श्रेष्ठाः पारिजातकमेव च ॥
एते वृक्षा शुभा ज्ञेयाः प्रथमं तांश्च रोपयेत् ।
देवालये तथोद्याने गृहेषूपवनेषु च ॥
2 ,, ,, ,, —द्राक्षातिमुक्तको जम्बूबीजपूरकदाडिमा ।
कदलीवङ्गुलाद्योकाः काण्डरीप्याश्च वापयेत् ॥
अन्येऽपि शाखिनो ये च पुष्पिताः फलितास्तथा ।
गोमयेन प्रलिप्ताश्च रोपणीया विबुद्धये ॥
3 ,, ,, ,, —अजातशाखा ये वृक्षाः शिशिरे तांश्च रोपयेत् ।
जातशाखाश्च हेमन्ते रोपणीया विधानतः ।
सुस्कन्धाः शाखिनो ये तान् प्रावृटकाले तु रोपयेत् ॥
4 ,, ,, ,, —घृतं क्षीरं तथा क्षौद्रमुशीरतिल गोमयैः ।
विडङ्गलेपनं मूलात् संक्रामणविरोपनम् ॥
5 तथा च अग्निपुराणे—सम्पूज्य वरुणं विष्णुं पर्जन्यं तत् समारभे त् । ६ । chap. 282.
6 ,, ,, —सायं प्रातस्तु घर्म्मतौ शीतकाले दिनान्तरे ।
वर्षांराचौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥ ७-८