उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)
Upavanavinoda of Sharngadhara with Commentary
आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा
पृष्ठ 119, कुल 134 में से
संदर्भ में पढ़ेंSCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 111
जम्बूवेतसवानीरकदम्बोदुम्बराऽर्जुनाः ।
बीजपूरकमृद्धीकालकुचाश्च सदाड़िमाः ॥ १०
बकुलो नक्तमालश्च तिलकः पनसतथा ।
तिमिराम्रातकञ्चैव षोडशानूपजाः स्मृताः ॥ ११
उत्तम' विंशतिर्हस्ता मध्यम' षोडशान्तरम् ।
स्थानात् स्थानान्तर' कार्य्यं वृक्षाणां द्वादशावरम् ॥ १२ ¹
अभ्याशजातास्तरवः संस्पृशन्तः परस्परम् ।
मिश्रैर्मूलैश्च न फलं सम्यग् यच्छन्ति पीडिताः ॥ १३
शीतवातातपै रोगो जायते पाण्डुपत्रता ।
अवृद्धिश्च प्रवालानां शाखाशोषो रसस्रुतिः ॥ १४
चिकित्सितमथैतेषां शस्त्रेणादौ विशोधनम् ।
विडङ्गघृतपङ्काक्तान् सेचयेत् क्षीरवारिणा ॥ १५²
फलनाशो कुलत्थैश्च माषैर्मुद्गै स्तिलैर्यवैः ।
शृतशीतपयःसेकः फलपुष्पाभिवृद्धये ॥ १६³
अविकाऽजशकृच्चूर्णस्याढके द्वे तिलाढ़कम् ।
सक्तुप्रस्थो जलद्रोणो गोमांसन्तुलयासह ॥ १७
1 तथा च काश्यपः—अन्तर' विंशतिर्हस्ता वृक्षाणामुत्तमं स्मृतम् ।
मध्यमं षोड़श ज्ञेयमधमं द्वादश स्मृतम् ॥
,, ,, अग्निपुराणे—उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ।
स्थानात् स्थानान्तर' कार्य्यं वृक्षाणां द्वादशान्तरम् ॥ ८-९
2 तथा च काश्यपः—शाखाविटपपत्रैश्च छायया पिहिताश्च ये ।
येऽपि पर्णफलैर्हीना रूक्षाः पत्रैश्च पाण्डुरैः ॥
शीतोष्णवर्षवाताद्यैर्मूलैरन्योऽन्यमिश्रितैरपि ।
शाखिनां तु भवेद्रोगो द्विपानां लेखनेन च ॥
चिकित्सित्तेषु कर्त्तव्या ये च भूयः पुनर्नवाः ।
शोधयेत् प्रथमं शस्त्रैः प्रलेपं दापयेत्ततः ॥
कर्दमेन विड़ङ्गैश्च घृतमिश्रैश्च लेपयेत् ।
क्षीरतोयेन सेकः स्याद्रोघ्नं सर्वशाखिनाम् ॥
तथा च अग्निपुराणे—विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् ।
विडङ्गघृतपङ्काक्तान् सेचयेत्क्षीरवारिणा ॥ ९-१०
3 ,, ,, ,, फलनाशे कुलत्थैश्च माषैर्मुद्गै र्यवैस्तिलैः ।
घृतशीतपयःसेक फलपुष्पाय सर्व्वदा ॥ १०-११