सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

२८ श्रीतन्त्रालोकः ।
कैलासाद्रौ भ्रमन्देवो मूर्त्या श्रीकण्ठरूपया ।
अनुग्रहायावतीर्णश्चोदयामास भूतले ॥
मुनिं दुर्वाससं नाम भगवानूर्ध्वरेतसम् ।
नोच्छिद्यते यथा शास्त्रं रहस्यं कुरु तादृशम् ॥
ततः स भगवान्देवादादेशं प्राप्य यत्नतः ।
ससर्ज मानसं पुत्रं त्र्यम्बकादित्यनामकम् ॥'
इत्याद्युक्त्या कलिकालुष्याद्विच्छिन्नस्य निखिल-
शास्त्रोपनिषद्भूतस्य षडर्धक्रमविज्ञानस्य त्रैयम्बक-
सन्तानद्वारेण अवतारकत्वादाद्यं कैलासस्थं श्रीश्री-
कण्ठनाथाख्यं गुरुं प्रसङ्गात् मठिकान्तरगुरूंश्चो-
त्कर्षयति
जयति गुरुरेक एव
श्रीश्रीकण्ठो भुवि प्रथितः ।
तदपरमूर्तिर्भगवान्
महेश्वरो भूतिराजश्च ॥ ६ ॥
'एक एव गुरुः' इत्यनेन अस्य अवतारकत्वं
सूचितम् । 'महेश्वर' इति यः श्रीसन्तत्यर्धत्रैयम्बका-
पं० ४ क० पु० न च्छिद्यते इति पाठः ।
पं० ५ क० पु० प्राप्य तत्त्वतः इति पाठः ।

श्लो० ९ ] प्रथममाह्निकम् । २९
ख्यमठिकयोर्गुरुतया अनेन अन्यत्रोक्तः परमेश इति
ईश इति च । यदाह
‘भट्टारिकादिभूत्यन्तः श्रीमान्सिद्धोदयक्रमः ।
भट्टादिपरमेशान्तः श्रीसन्तानोदयक्रमः ॥
श्रीमान्भट्टादिरीशान्तः परमोऽथ गुरुकमः ।
त्रिकरूपत्त्रिकार्थे मे धियं वर्धयतांतराम् ॥’
इति । ‘तदपरमूर्तिः’ इत्यनयोर्भगवदावेशमयत्वं
दर्शितम् । यद्यपि
‘यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुः.........।’
इति वक्ष्यमाणनीत्या मठिकान्तरगुरूणां त्रिकार्थे
गुरुत्वाभावात् इह नमस्काराप्रस्ताव एव । तथापि
‘तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ।’
इत्यादृिशा सर्वत्रैव गुरूपदेशस्य भावात् आत्मनि
भूयोविद्यत्वं दर्शयता ग्रन्थकृता अस्य ग्रन्थस्यापि
निखिलशास्त्रान्तरसारसंग्रहाभिप्रायत्वं प्रकाशितम् ।
यद्वक्ष्यति
पं० ५ ख० पु० श्रीमद्भट्टादिरिति शोधितः पाठः ।
पं० ६ क० पु० त्रिकार्थो मे इति पाठः ।
पं० ११ ख० तथापि इति वाक्यं नास्ति ।

३० श्रीतन्त्रालोकः ।
'अध्युष्टसन्ततिस्रोतःसारभूतरसाहृतिम् ।
विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्रसान् ॥'
इति ॥ ६ ॥
'पूर्वे जयन्ति गुरवः' इति सामान्येन कृतेऽपि
नमस्कारे योगाङ्गत्वेन समानेऽपि
‘..................‘तर्को योगाङ्गमुत्तमम् ।’
इत्याद्युक्त्या परमोपादेयस्वप्रकाशस्वात्मेश्वरप्रत्य-
भिज्ञापनपरस्य तर्कस्य कर्तारो व्याख्यातारश्च परं
नमस्कर्तव्याः इति विशेषप्रयोजकीकारेण गुरु-परम-
गुरु-परमेष्ठिनः पुनरपि पराम्रष्टुमाह
श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः ।
जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः ॥१०॥
तदास्वादभरावेशबृंहितां मतिषट्पदीम् ।
गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः ॥११॥


पं० १ क० पु० रसान्वितम् इति, ख० पु० रसाहृतमिति पाठः ।
पं० ७ क० पु० प्रत्यभिज्ञापरस्येति पाठः ।

श्लो० १३ ] प्रथममाह्निकम्। ३१
इदानीम्
‘उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता।’
इत्याद्युक्त्या तस्याचार्यादपि गौरवातिरेकस्मृते-
र्निजमपि पितरमाशीर्वादमुखेन परामृशति
यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः।
स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः १२॥
‘चुखुलक’ इति लोकप्रसिद्धमस्य नामान्तरम्।
‘गुरुत्तम’ इति उत्तमत्वस्य आचार्यगौरवातिरेक-
स्मृतिरेव निमित्तम्, अत एव अन्यत्रापि
‘गुरुभ्योऽपि गरीयांसं जनकं चुखुलाभिधम्।’
इत्याद्युक्तम्॥ १२॥
एवं च तन्त्रप्रक्रियोपासन्नगुर्वभिमुखीकरणानन्तरं
विश्रान्तिस्थानतया कुलप्रक्रियागुरुमपि उत्कर्षयति
जयताज्जगदुद्धृतिक्षमोऽसौ
भगवत्या सह शंभुनाथ एकः।
यदुदीरितशासनांशुभिर्मे
प्रकटोऽयं गहनोऽपि शास्त्रमार्गः॥ १३॥
पं० २ उपाध्यायादिति पद्यस्य 'सहस्रं तु पितुर्माता गौरवेणातिरिच्यते।' इति
उत्तरार्धं ग० पु० अधिकं वर्तते।

३२ श्रीतन्त्रालोकः ।
भगवत्याख्या अस्य दूती, कुलप्रक्रियायां हि दूती-
मन्तरेण क्वचिदपि कर्मणि नाधिकारः इत्यतस्त-
त्सहभावोपनिबन्धः ।
‘योक्ता संवत्सरात्सिद्धिरीह पुंसां भयात्मनाम् ।
सा सिद्धिस्तत्त्वनिष्ठानां स्त्रीणां द्वादशभिर्दिनैः ॥
अतः सुरूपां सुभगां सरूपां भाविताशयाम् ।
आदाय योषितं कुर्यादर्चनं यजनं हुतम् ॥’
इति । ‘शास्त्रमार्गो’ विमलो जातः इत्यनेनास्य
त्रिकाद्यागमव्याख्यातृत्वमपि प्रकाशितम् । यदुक्त-
मनेनैव
‘इत्यागमं सकलशास्त्रमहानिधाना-
च्छ्रीशंभुनाथवदनादधिगम्य सम्यक् ।
शास्त्रे रहस्यरससंततिसुन्दरेऽस्मिन्
गम्भीरवाचि रचिता विवृतिर्मयैयम् ॥’
इति ॥ १३ ॥
इदानीं स्वप्रवृत्तिप्रयोजनादि आचक्षाणो ग्रन्थ-
कारो ग्रन्थकरणं प्रतिजानीते
पं० ६ ख० पु० सुरूपां भाविताशयामिति पाठः

श्लो० १६ ] प्रथमाह्निकम् । ३३
सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा ।
अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥ १४ ॥
न चात्र अन्यथा संभाव्यम् – इत्यात्मन्याप्तत्वं
प्रख्यापयन्नेवं प्रतिज्ञाकरणे सामर्थ्यं दर्शयति
इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः ।
अर्थितो रचये स्पष्टां पूर्णार्थां प्रक्रियामिमाम् १५
श्रीभट्टनाथचरणाब्जयुगात्तथा श्री-
भट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या ।
बोधान्यपाशविषनुत्तदुपासनोत्थ-
बोधोज्ज्वलोऽभिनवगुप्त इदं करोति ॥ १६ ॥
तस्य गुरुपरम्परागतस्य ज्ञानस्य 'उपासनं' पुनः
पुनः चेतसि विनिवेशनं तत उत्थितो योऽसावुप-
देष्टव्यविषयो 'बोधः' साक्षात्कारस्तेन 'उज्ज्वलः'
सम्यगवगतधर्मा सन् 'इदं' गुरूपदेशात्संशयविपर्या-
सादिरहितत्वेनाधिगतमनुत्तरत्रिकार्थप्रक्रियालक्षणं
पं० ३ क० ख० पु० न चान्यथेति पाठः ।
पं० ५ क० पु० 'इत्यहं' इति पद्यं नास्त्येव । ख० पु० इत्यलं बहुश इति पाठः ।
पं० १५ क० पु० त्रिकार्थं प्रक्रियाजच्चयगलितमिति पाठः ।
५

३४ श्रीतन्त्रालोकः ।
परान्प्रति चिख्यापयिषया 'करोति' उपदिशति
इत्यर्थः । 'अभिनवगुप्त' इति सकललोकप्रसिद्धना-
मोदीरणेनापि आप्तत्वमेव उपोद्बलितम् । उक्तं हि
'साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त
उपदेष्टा चाप्तः ।'
इति । तच्छब्दपरामृष्टं व्याचष्टे 'या गुरुसन्ततिः'
इति, 'गुरुसन्ततिः' गुरुपारम्पर्यमविच्छिन्नतया स्थितं
तदुपदिष्टं ज्ञानमित्यर्थः, सा च कीदृक् ? इत्युक्तं-
'बोधान्यपाशविषनुत्' इति
'यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् ।
पराच्छिवाद्रुकरूपादन्धत्तत्पाश उच्यते ॥'
इत्यादिवक्ष्यमाणनीत्या 'बोधात्' पराच्छिवाद्यद-
ख्यात्यात्म भेदप्रथात्मकम् 'अन्यत्' तदेव 'पाशः'
स एव मोहकत्वात् 'विषं' तत् नुदति या सा । तथा
'श्रीभट्टनाथ' इति श्रीशंभुनाथः । 'श्रीभट्टारिका'
इति भगवत्याख्या अस्य दूती । यदुक्तमनेनैव
'भट्टं भट्टारिकानाथं श्रीकण्ठं दृष्टभैरवम् ।
भूतिकलाश्रिया युक्तं नृसिंहं वीरमुत्कटम् ॥
नानाभिधानमाद्यन्तं वन्दे शंभुं महागुरुम् ।'
पं० १२ ख० पु० यदनाख्यात्मभेदप्रथेति पाठः ।
पं० १८ क० पु० कलाश्रया इति पाठः ।

श्लो० १८ ] प्रथमाह्निकम् । ३५
इति ।
'स्त्रीमुखे निक्षिपेत्प्राज्ञः स्त्रीमुखाद्ग्राहयेत्पुनः ।'
इत्याद्युक्तेः कुलप्रक्रियायां दूतीमुखेनैव शिष्यस्य
ज्ञानप्रतिपादनाम्नायात् इह गुरुतद्दूत्योः समस्कन्ध-
तया उपादानम् ॥ १६ ॥
ननु सामान्येन त्रिकदर्शनप्रक्रियाकरणं प्रतिज्ञाय,
संभवत्यपि तदर्थाभिधायिनि शास्त्रजाते किमिति
श्रीमालिनीविजयोत्तरमेवाधिकृत्य तन्निर्वाहयिष्यते
इत्याशङ्क्याह
न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे ।
देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥१७॥
'श्रीमालिनीविजयोत्तरे' इति नादि-फान्ताया
मालिन्या 'विजयेन' सर्वोत्कर्षेण उत्तरति सर्वस्रोतो-
भ्यः प्लवते, सारभूतत्वात्सर्वशास्त्राणाम् ॥ १७ ॥
एतदेवाह
दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः ।
तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम्॥१८॥
पं० ६ क० पु० सामान्येनेति पाठः ।

उल्लासित एको भेदः, ईश-तत्पुरुषौ ईश-सद्योजातौ

३६ श्रीतन्त्रालोकः ।
इह खलु परपरामर्शसारबोधात्मिकायां परस्यां
वाचि सर्वभावनिर्भरत्वात्सर्वं शास्त्रं परबोधात्मकत-
यैव उज्जृम्भमाणं सत्, पश्यन्तीदशायां वाच्यवाचका-
विभागस्वभावत्वेन असाधारणतया अहंप्रत्यवम-
र्शात्मा अन्तरुदेति, अत एव हि तत्र प्रत्यवमर्शकेन
प्रमात्रा परामृश्यमानो वाच्योऽर्थोऽहन्ताच्छादित
एव स्फुरति, तदनु तदेव मध्यमाभूमिकायामान्त-
रेव वेद्यवेदकप्रपञ्चोदयाद्भिन्नवाच्यवाचकस्वभावतया
उल्लसति । तत्र हि परमेश्वर एव चिदानन्देच्छाज्ञान-
क्रियात्मकवक्त्रपञ्चकासूत्रणेन सदाशिवेश्वरदशाम-
धिशयानस्तद्वक्त्रपञ्चकमेलनया पञ्चस्रोतोमयम् अभे-
द-भेदाभेद-भेददशोट्टङ्कनेन तत्तद्भेदप्रभेदवैचित्र्यात्म
निखिलं शास्त्रमवतारयति, यद्बहिर्वैखरीदशायां स्फुट-
तामियात् । तथाहि – प्रथममीशानतत्पुरुषसद्यो-
जातैरेकैकस्य उद्बुभूषुभिः सद्भिर्भेदत्रयमुल्लासितम्
उद्भूतैश्च – इत्येकैकभेदाः षट्, त्रिभिरप्येभिः संभूय
उल्लासित एको भेदः, ईश-तत्पुरुषौ ईश-सद्योजातौ

२ पं० ख० पु० परविबोधेति पाठः ।
पं० १७ क० पु० ईशानतत्पुरुषाविति पाठः।

श्लो० १८] प्रथमाह्निकम् । ३७
सद्योजात-तत्पुरुषौ इति द्व्यात्मना संभूयापि एभिः
त्रिभिर्भेदत्रयं समुल्लासितम् - इत्येते भेदप्रधाना
दश शिवभेदाः । तदुक्तम्
'ईशतत्पुरुषाजातैरुद्भूतैरुद्बुभूषुभिः ।
एककैः षड्भिरेकेन त्रिकेण द्व्यात्मकैस्त्रिभिः ॥
तदित्थं शिवभेदानां दशानामभवत्स्थितिः।'
इति । एषामेव च वामदेवाघोरमेलनया अष्टादश
रुद्रभेदा भवन्ति । तथा च तत्रैककेन वामदेवा-
घोरात्मभेदेन भेदद्वयमेव, पञ्चविधत्वेऽपि ईशा-
देर्वक्त्रत्रयस्य शिवभेदेषु उक्तत्वात् उक्तस्य च पुनर्व-
चनानुपपत्तेः, तथा द्व्यात्मकत्वेन भेदत्रयस्य, तेन
पञ्चानां त्र्यात्मकत्वेन भेदत्रयस्य शिवभेदेषु
उक्तत्वात् । तत्पुरुष-सद्योजातयोस्तु एवं स्वभावा-
भावात्, ताभ्यां सह असङ्गतेर्भेदचतुष्टयाभावादीश-
पं० ६ क० पु० उभयस्थितिरिति पाठः ।
पं० ८ क० पु० एकैकेनेति पाठः ।
पं० ११ क० पु० नुपपत्तेरित्यनन्तरं 'तथा द्व्यात्मकत्वेन भेदत्रयस्य, इति वाक्यं
नास्ति ।
पं० १३ क० पु० स्वभावभावादिति पाठः ।

३८ श्रीतन्त्रालोकः ।
वामौ, ईशाघोरौ, अघोर-वामौ - इति द्व्यात्मकं
भेदत्रयमेव अवशिष्यत - इति त्रयो द्विकभेदाः ।
तथा पञ्चानामपि ईश-तत्पुरुषाजातवामाघोराणां
त्र्यात्मकत्वेन संमीलनायामीशानस्य क्रमेण इतर-
वक्त्रसंभेदे षट्, तत्पुरुषस्य त्रयः, तथा सद्योजातस्य
तदवशिष्टवक्त्रसंभेदेऽपि एक एव - इति दशविधत्वे-
ऽपि ईश-तत्पुरुष-सद्योजातात्मनः प्रथमत्रिकस्य
शिवभेदेषु उक्तत्वात् ईश-वामाघोरात्मनः शिष्टस्य
त्रिकस्य व्यापारान्तरेण नियोक्ष्यमाणत्वाच्च त्र्यात्मक-
भेदाष्टकमेवावशिष्यते - इत्यष्टावेव त्रिकभेदाः ।
अत एव एकककथनं चिन्त्यमिति न वाच्यम्,-
तत्पुरुषाजात-वामाघोराणां हि द्व्यात्मकतया चतुरा-
त्मकतया वा ज्ञानजनने संयोगनिषेधो विवक्षितः,
त्र्यात्मकतायामपि तथाभावे हि बहूनां भेदानां
निषेधः प्रसज्यते - इति भेदसप्तककथनमपि न्याय्यं
पं० १ क० पु० द्व्यात्मकभेदत्रयमिति समस्तः पाठः ।
पं० ७ ख० पु० जातात्मान इति पाठः ।
पं० ८ ख० पु० घोरात्मान इति पाठः ।
पं० ११ क० पु० अत एव एकैककथनमिति पाठः ।

श्लो० १८ ] प्रथमाह्निकम् । ३९
न स्यात् – इत्यलं बहुना । तथा पञ्चानामप्येषां
चतुरात्मकत्वेन संमीलनायां पञ्चविधत्वेऽपि नराजाता-
वामाघोराणामुक्तयुक्त्या संगत्यभावाच्चत्वारश्चतु-
र्भेदाः, सर्वेषामप्येषां संमीलनायां पञ्चकभेद एक
एव – इत्येवम् ‘अष्टादश’ भेदाभेदप्रधाना रुद्रभेदाः ।
तदुक्तं
‘यदा त्रयाणां वक्त्राणां वामदक्षिणसंगतिः ।
तदा सप्त द्विकभेदा अष्टौ चैव त्रिकात्मकाः ॥
चतुष्काश्चापि चत्वारः पञ्चकस्त्वेकरूपकः ।
इति विंशतिमध्यात्तु नराजातावसंगतिम् ॥
वामाघोरद्वये यातः स्वातन्त्र्यात्पूर्वपश्चिमौ ।
ज्ञानं भजेते नैवेति भेदषोडशकं स्थितम् ॥
तत्रापि वामदेवीयमेकं तदुपरि स्थितम् ।
स्वरूपं भैरवीयं च तेनाष्टादशधा स्थितिः ॥
रुद्रभेदस्य शास्त्रेषु शिवेनैवं निरूपिता ।’
इति । एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्त-
रत उक्तं, तद्यथा
पं० ८ क० पु० सप्तद्विका भेदा इति पाठः ।
पं० १० ख० पु० विंशकमध्यान्तर इति पाठः ।
पं० १७ क० पु० उक्तमित्यनन्तरं ‘तद्यथा’ इति वाक्यं नास्ति ।

४० श्रीतन्त्रालोकः ।
'स्रोतस्यूर्ध्वं भवेज्ज्ञानं शिवरुद्राभिधं द्विधा ।
कामजं योगजं चिन्त्यं मौकुटं चांशुमत्पुनः ॥
दीप्तं······································न्तरं पुनः ।
शिवभेदाः समाख्याता रुद्रभेदांस्त्वमाञ्छृणु ॥
विजयं चैव निःश्वासं मद्गीतं पारमेश्वरम् ।
मुखबिम्बं च सिद्धं च सन्तानं नारसिंहकम् ॥
चन्द्रांशुं वीरभद्रं च आग्नेयं च स्वयम्भुवम् ।
विसरं रौरवाः पञ्च विमलं किरणं तथा ॥
ललितं सौरभेयं च तन्त्राण्याहुर्महेश्वरि ।
अष्टाविंशतिरित्येवमूर्ध्वस्रोतोविनिर्गताः ॥'
अत्र चानेनैव
'············शिवैरुक्तः शिवाभिधः ।
भेदो रुद्रैश्च रुद्राख्य इति भेदो निरूपितः ॥'
'वसुभिः' अष्टभिर्गुणिता 'अष्टौ' चतुःषष्टिर्भैरव-
भेदाः । तथा च अद्वयस्वभावे स्वरूपे शिवशक्ति-
तत्संघट्टाख्ययोगिनीवक्त्रात्मनि दक्षिणवक्त्रे प्रत्येक-
मुहुभूषूद्गत-तिरोधित्सु-तिरोहितात्मकतया चतु-
पं० ४ क० ख० पु० भेदाञ्छृणु प्रिये इत्येवंविधः पाठः ।
पं० ५ ख० पु० सद्गीतमिति पाठः ।
पं० ६ ख० पु० नारसिंहिकमिति पाठः ।
पं० १२ ख० पु० स्वरूपशिवशक्तीति समस्तः पाठः

श्लो० १८ ] प्रथमाह्निकम् । ४१
रूपत्वेन भेदषोडशात्मकमितरद्वक्त्रचतुष्टयं यदा
युगपदन्तर्लीनतामेति तदैषां परस्परमेलनया चतुः-
षष्टिरद्वयप्रधाना भैरवभेदाः । तदुक्तं
'यच्चान्ते दक्षिणं हार्दं लिङ्गं हृत्परमं मतम् ।
तदप्यन्तःकृताशेषस्प[सृ]ष्टभावसुनिर्भरम् ॥
सर्वसंहारकत्वाच्च कृष्णं तिमिररूपधृत् ।
भेदभावकमायीयतेजोऽशग्रसनात्मकम् ॥
तत्रान्तर्लीनतां याति यावद्वक्त्रचतुष्टयम् ।
उद्बुभूषु तथोद्भूतं तिरोधित्सु तिरोहितम् ॥
इत्थं युगपदेवैतद्भेदषोडशकात्मकम् ।
दक्षे वैसर्गिके हार्दे स्वतन्त्रेऽथ शिवे विशत् ॥
अष्टाष्टकात्म तच्छास्त्रं युगपद्भैरवाभिधम्।'
इति। एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्त-
रत उक्तम्। तद्यथा
'अन्यत्संक्षेपतो वक्ष्ये गीतं यत्परमेष्ठिना ।
तच्च भेदैः प्रवक्ष्यामि चतुःषष्टिं विभागशः ॥
पं० ३ ग० पु० उक्तंच इत्येवंविधः पाठः ।
पं० १२ ग० पु० अष्टाष्टकात्मकं शास्त्रमिति पाठः ।
पं० १४ ग० पु० तथाहीति पाठः ।
पं० १६ क० पु० चतुःषष्टिविभागश इति पाठः ।
६

४२ श्रीतन्त्रालोकः ।
भैरवं यामलं चैव मताख्यं मङ्गलं तथा ।
चक्राष्टकं शिखाष्टकं बहुरूपं च सप्तमम् ॥
वागीशं चाष्टमं प्रोक्तमित्यष्टौ वीरवन्दिते ।
एतत्सादशिवं चक्रं कथयामि समासतः ॥
स्वच्छन्दो भैरवश्चण्डः क्रोध उन्मत्तभैरवः ।
असिताङ्गो महोच्छुष्मः कपालीशास्तथैव च ॥
एते स्वच्छन्दरूपास्तु बहुरूपेण भाषिताः ।
ब्रह्मयामळमित्युक्तं विष्णुयामळकं तथा ॥
स्वच्छन्दश्च रुरुश्चैव षष्ठं चाथर्वणं स्मृतम् ।
सप्तमं रुद्रमित्युक्तं वेतालं चाष्टमं स्मृतम् ॥
अतः परं महादेवि मतभेदाञ्छृणुष्व मे ।
रक्ताख्यं लम्पटाख्यं च मतं लक्ष्म्यास्तथैव च ॥
पञ्चमं चालिका चैव पिङ्गलाद्यं च षष्ठकम् ।
उत्फुल्लकं मतं चान्यद्विश्वाद्यं चाष्टमं स्मृतम् ॥
चण्डभेदाः स्मृता ह्येते भैरवे वीरवन्दिते ।
भैरवी प्रथमा प्रोक्ता पिचुतन्त्रसमुद्भवा ॥
सा द्विधा भेदतः ख्याता तृतीया तत उच्यते ।
ब्राह्मी कला चतुर्थी तु विजयाख्या च पञ्चमी ॥
पं० १२ ख० पु० लम्पटाद्यं च इति पाठः ।
पं० १३ ख० पु० पञ्च पञ्चालिका इति पाठः ।
पं० १४ ख० पु० उत्फुल्लकमतमिति समस्तः पाठः ।
पं० १५ ख० पु० वीरवत्सले इति पाठः ।

श्लो० १८ ] प्रथमाह्निकम् । ४३
चन्द्राख्या चैव षष्ठी तु मङ्गला सर्वमङ्गला ।
एष मङ्गलभेदोऽयं क्रोधेशेन तु भाषितः ॥
प्रथमं मन्त्रचक्रं तु वर्णचक्रं द्वितीयकम् ।
तृतीयं शक्तिचक्रं तु कलाचक्रं चतुर्थकम् ॥
पञ्चमं बिन्दुचक्रं तु षष्ठं वै नादसंज्ञकम् ।
सप्तमं गुह्यचक्रं च खचक्रं चाष्टमं स्मृतम् ॥
एष वै चक्रभेदोऽयमसिताङ्गेन भाषितः ।
अन्धकं रुरुभेदं च अजाख्यं मूलसंज्ञकम् ॥
वर्णभण्ठं विडङ्गं च ज्वालिनं मातृरोदनम् ।
कीर्त्तिताः परमेशेन रुरुणा परमेश्वरि ॥
भैरवी चित्रिका चैव हंसाख्या च कदम्बिका ।
हृल्लेखा चन्द्रलेखा च विद्युल्लेखा च विद्युमान् ॥
एते वागीशभेदास्तु कपालीशेन भाषिताः ।
भैरवी तु शिखा प्रोक्ता वीणा चैव द्वितीयिका ॥
वीणामखिस्तृतीया तु संमोहं तु चतुर्थकम् ।
पञ्चमं डामरं नाम षष्ठं चैवाप्यथर्वकम् ॥
कबन्धं सप्तमं ख्यातं शिरश्छेदोऽष्टमः स्मृतः ।
एते देवि शिखाभेदा उन्मत्तेन च भाषिताः ॥
एतत्सादशिवं चक्रमष्टाष्टकविभेदतः ॥'
पं० ८ क० पु० अजाद्यमिति पाठः ।
पं० ९ ख० पु० वर्णामठम् इति पाठः ।
पं० १६ क० पु० प्यवर्धकम् इति पाठः ।

४४ श्रीतन्त्रालोकः ।
इति । तैर्भिन्नं भेदोपभेदवैचित्र्यात्मना नानाप्रकार-
मित्यर्थः । यत्तु श्रीश्रीकण्ठ्यां तत्पुरुषवक्त्रमुद्दिश्य
'अष्टाविंशतिभेदैस्तु गारुडं हृदयं पुरा ।'
इत्यादि । तथा
'पश्चिमे भूततन्त्राणि....................।'
तथा
'दक्षिणे दक्षिणो मार्गश्चतुर्विंशतिभेदतः ।'
इत्यादि । तथा
'वामदेवात्तु यज्जातमन्यत्तत्साम्प्र [म्प्र]तं शृणु ।'
इत्यादि अन्यभेदोपभेदवैचित्र्यमुक्तं, तदेकैकस्य
वक्त्रस्य पञ्चवक्त्रात्मकत्वात् एतद्भेदजातोपभेदा-
त्मकमेव — इति तत एव संगृहीतम् इति न पृथगिह
आयस्तम् । तदुक्तं
'एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात्प्रगीयते ।
दशाष्टादशभेदस्य ततो भेदेष्वसंख्यता ॥'
पं० १ क० पु० भेदोपभेदनानावैचित्र्येत्यादिपाठः ।
पं० १० क० पु० एकैकवक्त्रस्येति समस्तः पाठः ।
पं० १२ क० पु० पृथगिह नायस्तमित्येवंविधः पाठः ।

श्लो० १८ ] प्रथमाह्निकम् । ४५
इति । अतश्च भेद-भेदाभेदाभेदप्रतिपादकं शिवरु-
द्रभैरवाख्यं त्रिधैवेदं शास्त्रमुद्भूतम् इति सिद्धान्तः ।
तदुक्तं
'तन्त्रं जज्ञे रुद्रशिवभैरवाख्यमिदं त्रिधा ।
वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ॥
भेदेन भेदाभेदेन तथैवाभेदभागिना ।'
इति । एवं च भेदाद्यात्मकमपीदं शास्त्रं परमेश्वरेश-
वामाघोरात्मकं षष्ठं त्रिकं परादिदेवीत्रयविश्रान्ति-
धामतया क्रोडीकृत्य,
'पुष्पे गन्धस्तिले तैलं देहे जीवो जले रसः ।
यथा तथैव शास्त्राणां कुलमन्तःप्रतिष्ठितम् ॥'
इत्याद्युक्त्या परमाद्वयामृतपरिप्लावितं विदध्यात्,
अन्यथा ह्यस्य परपदप्राप्तिनिमित्तत्वं न स्यात् । तदुक्तं


पं० ७ ख० पु० द्वयात्मकमप्येतदिति पाठः ।
पं० ८ ख० पु० षष्ठत्रिकमिति समस्तः पाठः ।
पं० १० क० पु० जलेऽमृतम् इति, ख० पु० जले घृतमिति पाठः ।
पं० १२ क० पु० परिप्लुतमिति पाठः । अन्यथा हत्यतो न स्यादित्यन्तः
वाक्यपाठः
क० ग० पुस्तकेयोर्नास्ति ।

४६ श्रीतन्त्रालोकः ।
‘ततोऽपि संहृताशेषभावोपाधिसुनिर्भरः ।
भैरवः परमार्थौघद्रुवबृंहितशक्तिकः ॥
ईशान-वाम-दक्षासु तासु शक्तित्रयं क्रमात् ।
अपरादिपराप्रान्तं क्रोडीकृत्य त्रिकं स्थितः ॥
ऊर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च ।
तद्द्वाराप्रान्तरूढानि प्रापय्याभेदभूमिकाम् ॥’
इति। ननु एवंविधा श्रुतिर्न काचिदुपलभ्यत इति किं
प्रमाणम् । ननु अत्र उक्तमेवानेन गुरुपारम्पर्यलक्षणं
प्रमाणम् । यदाह
‘इत्थं मध्ये विभिन्नं तत्त्रिकमेव तथा तथा ।
शास्त्रमस्मद्गुरुगृहे संप्रदायक्रमात्स्थितम् ॥’
इति । ननु यदेवात्र पुंबुद्धिप्रभवत्वं चोद्यं तदेवो-
त्तरीकृतम् — इत्यपूर्वमिदं पाण्डित्यं, तेनागमः कश्चन
संवादनीयो येनैतत्समाहितं स्यात्, नैतत् अविगीतैव
हि प्रसिद्धिरागमः इत्युच्यते, यदुक्तं
पं० १ ख० पु० भावोपाधिषु निर्भर इति पाठः ।
पं० २ ख० पु० परमार्थौद्यध्रुवेति पाठः ।
पं० ४ क० पु० पराक्रान्तमिति पाठः ।
पं० ६ क० पु० उद्धारप्रान्तेति, क० पु० भेदभूमिकाः इति च पाठः ।
पं० ८ ग० पु० न तूक्तमेवात्रानेनेति पाठः ।
पं० १२ क० पु० चोद्यं तत्कृतमितीति पाठः ।
पं० १४ क० पु० सामाहित्यं स्यादिति पाठः ।

श्लो० १८] प्रथमाह्निकम् । ४७
'प्रसिद्धिरागमो लोके युक्तिमानथवेतरः ।
विद्यायामप्यविद्यायां प्रमाणमविगानतः ॥
प्रसिद्धिरवगीता हि सत्या वागैश्वरी मता ।
तथा यत्र यथा सिद्धं तद्ग्राह्यमविशङ्कितैः ॥'
इति । सा चात्र विद्यत एवाविगानेन महा-
त्मनां महागुरूणाम् इति किमत्र प्रमाणान्त-
रान्वेषणेन । यदि चार्वाग्दृशां भवादृशामेवंविधा
श्रुतिः कर्णगोचरं न गता- तावतैव एतन्नोपपद्यते,
इति न वक्तुं शक्यं, नहि प्रमाणाभावात्प्रमेयस्याप्य-
भावः स्यात् । न चैते विप्रलम्भका येनैवमन्यथोप-
दिशेयुः, एतदुपदेशमूलतयैव निखिलस्य शैवशास्त्राग-
मार्थस्य प्रयोगदर्शनात् । तेन यथा मन्वादिस्मृतौ
उत्सन्नशाखामूलत्वादष्टकादियागानां मूलभूता श्रुतिः
कल्प्यते तथा इहापि ज्ञेयम् । नह्येवंविधां श्रुतिम-
दृष्ट्वा साक्षात्कृतनिखिलशैवागमसतत्त्वास्त एवमु-
पं० १ क० पु० अथ नेतर इति पाठः ।
पं० ३ ग० पु० वागीश्वरी इति पाठः ।
पं० १२ ख० पु० प्रयोगप्रदर्शनादिति पाठः ।
पं० १३ क० पु० उत्पन्नशाखामूलेति च पाठः ।