तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 45, कुल 368 में से
संदर्भ में पढ़ेंश्लो० १८ ] प्रथमाह्निकम् । ३५
इति ।
'स्त्रीमुखे निक्षिपेत्प्राज्ञः स्त्रीमुखाद्ग्राहयेत्पुनः ।'
इत्याद्युक्तेः कुलप्रक्रियायां दूतीमुखेनैव शिष्यस्य
ज्ञानप्रतिपादनाम्नायात् इह गुरुतद्दूत्योः समस्कन्ध-
तया उपादानम् ॥ १६ ॥
ननु सामान्येन त्रिकदर्शनप्रक्रियाकरणं प्रतिज्ञाय,
संभवत्यपि तदर्थाभिधायिनि शास्त्रजाते किमिति
श्रीमालिनीविजयोत्तरमेवाधिकृत्य तन्निर्वाहयिष्यते
इत्याशङ्क्याह
न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे ।
देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥१७॥
'श्रीमालिनीविजयोत्तरे' इति नादि-फान्ताया
मालिन्या 'विजयेन' सर्वोत्कर्षेण उत्तरति सर्वस्रोतो-
भ्यः प्लवते, सारभूतत्वात्सर्वशास्त्राणाम् ॥ १७ ॥
एतदेवाह
दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः ।
तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम्॥१८॥
पं० ६ क० पु० सामान्येनेति पाठः ।