तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 50, कुल 368 में से
संदर्भ में पढ़ें४० श्रीतन्त्रालोकः ।
'स्रोतस्यूर्ध्वं भवेज्ज्ञानं शिवरुद्राभिधं द्विधा ।
कामजं योगजं चिन्त्यं मौकुटं चांशुमत्पुनः ॥
दीप्तं······································न्तरं पुनः ।
शिवभेदाः समाख्याता रुद्रभेदांस्त्वमाञ्छृणु ॥
विजयं चैव निःश्वासं मद्गीतं पारमेश्वरम् ।
मुखबिम्बं च सिद्धं च सन्तानं नारसिंहकम् ॥
चन्द्रांशुं वीरभद्रं च आग्नेयं च स्वयम्भुवम् ।
विसरं रौरवाः पञ्च विमलं किरणं तथा ॥
ललितं सौरभेयं च तन्त्राण्याहुर्महेश्वरि ।
अष्टाविंशतिरित्येवमूर्ध्वस्रोतोविनिर्गताः ॥'
अत्र चानेनैव
'············शिवैरुक्तः शिवाभिधः ।
भेदो रुद्रैश्च रुद्राख्य इति भेदो निरूपितः ॥'
'वसुभिः' अष्टभिर्गुणिता 'अष्टौ' चतुःषष्टिर्भैरव-
भेदाः । तथा च अद्वयस्वभावे स्वरूपे शिवशक्ति-
तत्संघट्टाख्ययोगिनीवक्त्रात्मनि दक्षिणवक्त्रे प्रत्येक-
मुहुभूषूद्गत-तिरोधित्सु-तिरोहितात्मकतया चतु-
पं० ४ क० ख० पु० भेदाञ्छृणु प्रिये इत्येवंविधः पाठः ।
पं० ५ ख० पु० सद्गीतमिति पाठः ।
पं० ६ ख० पु० नारसिंहिकमिति पाठः ।
पं० १२ ख० पु० स्वरूपशिवशक्तीति समस्तः पाठः