सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 39, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 39

श्लो० ९ ] प्रथममाह्निकम् । २९
ख्यमठिकयोर्गुरुतया अनेन अन्यत्रोक्तः परमेश इति
ईश इति च । यदाह
‘भट्टारिकादिभूत्यन्तः श्रीमान्सिद्धोदयक्रमः ।
भट्टादिपरमेशान्तः श्रीसन्तानोदयक्रमः ॥
श्रीमान्भट्टादिरीशान्तः परमोऽथ गुरुकमः ।
त्रिकरूपत्त्रिकार्थे मे धियं वर्धयतांतराम् ॥’
इति । ‘तदपरमूर्तिः’ इत्यनयोर्भगवदावेशमयत्वं
दर्शितम् । यद्यपि
‘यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुः.........।’
इति वक्ष्यमाणनीत्या मठिकान्तरगुरूणां त्रिकार्थे
गुरुत्वाभावात् इह नमस्काराप्रस्ताव एव । तथापि
‘तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ।’
इत्यादृिशा सर्वत्रैव गुरूपदेशस्य भावात् आत्मनि
भूयोविद्यत्वं दर्शयता ग्रन्थकृता अस्य ग्रन्थस्यापि
निखिलशास्त्रान्तरसारसंग्रहाभिप्रायत्वं प्रकाशितम् ।
यद्वक्ष्यति
पं० ५ ख० पु० श्रीमद्भट्टादिरिति शोधितः पाठः ।
पं० ६ क० पु० त्रिकार्थो मे इति पाठः ।
पं० ११ ख० तथापि इति वाक्यं नास्ति ।