तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
प्रकाशेत इति ॥१०॥
१० श्रीतन्त्रालोकः ।
तदभावे भवेद्विश्वं
जडत्वादप्रकाशकम् ॥१०॥
किं नु युक्तिभिरिति-बह्वीभिर्युक्तिभिर्न किंचित्प्र-
योजनमित्याह, एकैव हि युक्तिरियं सर्वातिशायिनी-
यत्संविदः स्वप्रकाशत्वं यदि न स्यात्, न किंचिदपि
प्रकाशेत इति ॥१०॥
ननु यदि नाम अत्र न बाह्यः क्रियादिः प्रग-
ल्भते तदा गुरुज्ञानादि उपायतां भजताम् ? इत्या-
शंक्याह
यावानुपायो बाह्यः स्या-
दान्तरो वापि कश्चन ।
स सर्वस्तन्मुखप्रेक्षी
तत्रोपायत्वभाक्कथम् ॥११॥
यावानिति-नानाशास्त्रोपदिष्टः, सर्व इति-बाह्य
आन्तरो वा, तन्मुखप्रेक्षीति-संविदधीनसिद्धिरि-
त्यर्थः, यदपेक्ष्य हि यस्य सिद्धिरेवं भवति स कथं
तस्य उपायतां यायादिति भावः ॥११॥
पं० १६ क० घ० पु० यदपेक्षा हि यस्य सिद्धिरेव भवेत्स कथमिति पाठः।
श्लोक १३ ] द्वितीयमाह्निकम् । ११
अत एवाह
त्यजावधानानि ननु क्व नाम
धत्सेऽवधानं विचिनु स्वयं तत् ।
पूर्णोऽवधानं न हि नाम युक्तं
नापूर्णामभ्येति च सत्यभावम् ॥१२॥
इह उपदिश्यमानेन स्वयमेव तावदवधातव्यम्
इति परामर्शनीयम्, किं पूर्णे रूपे उतापूर्णे ? तत्र
तावत्पूर्णे रूपेऽवधानं न युक्तम्, अवधानं खलु-
प्रतिनियतावधेयविषयनिष्ठम् एकाग्र्यम्, अतश्च
भेदप्रधानं न किंचित्फलमादातुं समर्थम् ॥१२॥
तस्मादसामर्थ्यवैयर्थ्योपहतत्वादवधानस्यापि यत्र
नास्ति उपायभावस्तत्र का वार्ता तदनुप्राणि-
तस्य भावनादेः ? इत्याह
तेनावधानप्राणस्य
भावनादेः परे पथि ।
भैरवीये कथंकारं
भवेत्साक्षादुपायता ॥१३॥
पं० ३ ख० पु० धर्मेऽवधानमिति पाठः ।
पं० ८ क० पु० अवधानं खलु अप्रतिनियतेति पाठः ।
१२ श्रीतन्त्रालोकः ।
भैरवीये इति-पूर्णे ॥१३॥
ये पुनरनेनापि उपायेनानुपायं परं तत्त्वमनुसरन्ति
तान्प्रति किमुच्यते ? इत्याह
येऽपि साक्षादुपायेन
तद्रूपं प्राविविक्षते ।
नूनं ते सूर्यसंवित्त्यै
खद्योताधित्सवो जडाः ॥१४॥
तदुक्तम्
‘अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते ।
यैरूपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥’
इति ॥ १४ ॥
अत्रैव निमित्तान्तरमप्याह
किं च यावदिदं बाह्य-
मान्तरोपायसंमतम् ।
तत्प्रकाशात्मतामात्रं
शिवस्यैव निजं वपुः ॥१५॥
पं० २ क० पु० तत्त्वमनुविशन्तीति पाठः ।
पं० ७ क० पु० खद्योतं लिप्सव इति पाठः ।
पं० ६ क० पु० प्रकटोदिते इति पाठः ।
पं० १६ क० पु० परं वपुः इति पाठः ।
प्रकाशमानं चेत् प्रकाशात्मा शिव एवावस्थितः,
श्लोक १७ ] द्वितीयमाह्निकम् । १३
इह खलु यत्किंचन उपायत्वेनाभीष्टं तदप्रकाश-
मानं प्रकाशमानं वा ? अप्रकाशमानं चेत् तस्य न
किंचिदपि रूपं स्यात्, इति किं नाम उपायतां भजतां,
प्रकाशमानं चेत् प्रकाशात्मा शिव एवावस्थितः,
नहि तदतिरिक्तमन्यत्किंचिदुपपद्यते, इति - कस्यो-
पायभावः, उपायेन हि उपेयाद्व्यतिरिक्तेन भाव्यं,
तच्चात्र न युक्तम्, इति को नाम उपायोपेय-
भावार्थः ॥ १५ ॥
न केवलं भावनाद्येव उपायत्वेनाभीष्टमेवम्,
यावदन्यदपीत्याह
नीलं पीतं सुखमिति
प्रकाशः केवलः शिवः ।
अमुष्मिन्परमाद्वैते
प्रकाशात्मनि कोऽपरः ॥१६॥
उपायोपेयभावः स्या-
त्प्रकाशः केवलं हि सः ॥१७॥
भावनादेः सुप्रसिद्धेऽपि उपायत्वे निरस्ते अन्यस्य
पं० १७ क० पु० उपायत्वेन निरस्ते अन्यत्र इति पाठः ।
प्रकाशवपुरेवायं
१४ श्रीतन्त्रालोकः ।
कस्यचित्संभावनामात्रमपि माभूत्, इत्येवमुक्तं 'कोऽ
पर' इति, यत्र उपायत्वसंभावनापि स्यात् ॥१७॥
ननु यद्येवं तर्हि सर्वत्र प्रसिद्धोऽयं द्वैतव्य-
वहारः कथमपहूयते ? इत्याशङ्क्याह
इदं द्वैतमऽयं भेद
इदमद्वैतमित्यपि ।
प्रकाशवपुरेवायं
भासते परमेश्वरः ॥१८ ॥
द्वैतव्यवहारोऽपि प्रकाशमानत्वात्प्रकाशात्मैवेत्य-
भिप्रायः, एतच्च बहूनां वादिनां मतम् - इति द्योतयि-
तुम् 'अयं भेद' इति पुनरुपादानम्, यथा चाद्वैतप्रति-
भासे प्रकाशात्मा परमेश्वर एक एव प्रतिभासते तथा
द्वैतप्रतिभासेऽपि, इत्यर्थमौपम्यं कटाक्षयितुम् 'इदम-
द्वैतमित्यपि' इत्युपात्तम् ॥१८॥
ननु बाह्योऽर्थः प्रकाशमानत्वात्प्रकाशात्मैव इत्या-
स्ताम्, अन्योन्यं पुनरस्य भेदे किमायातम, इत्याप-
तितमेव द्वैतम् ? इत्याशङ्क्याह
पं० १३ क० पु० इत्युक्तमौपम्यमिति पाठः ।
पं० १६ क० पु० किमिदमापतितमिति पाठः ।
श्लोक १६ ] द्वितीयमाह्निकम् । १५
अस्यां भूमौ सुखं दुःखं
बन्धो मोक्षश्चितिर्जडः ।
घटकुम्भवदेकार्थाः
शब्दास्तेऽप्येकमेव च ॥१६॥
अस्यां भूमाविति - परमाद्वयदशायामित्यर्थः,
'एकार्था' इति - एकः प्रकाश एवार्थोऽभिधेयो येषां ते
तथा, सुखदुःखादीनां हि प्रकाशातिरेकेण प्राति-
स्विकं नियतं किंचन रूपं यदि स्यात् तदैवं संभाव-
नापि भवेदिति भावः, अत एव
'घटो मदात्मना वेत्ति वेद्म्यहं च घटात्मना।'
इत्यादिरन्यैरुक्तम् । ननु यद्येवं तर्हि तदभिधाय-
कत्वशब्दाभिप्रायेणापि द्वैतं स्यात् ? इत्याह 'शब्दा-
स्तेऽप्येकमेव च' इत, एकमिति - संवेद्यमानत्वात्सं-
वेदनमेवेत्यर्थः ॥१६॥
ननु यदि नीलसुखादि प्रकाशमानत्वात्प्रकाश
एव तर्हि तत्केन रूपेण प्रकाशते ? इत्याशंक्याह
पं० ६ क० पु० प्रकाशरूपोऽर्थोभिधेय इति पाठः ।
पं० ७ क० पु० प्रकाशव्यतिरेकेणेति पाठः ।
पं० १५ क० पु० नीलप्रकाशादि इति पाठः ।
प्रकाशे ह्यप्रकाशांशः
१६ श्रीमत्तन्त्रालोकः ।
प्रकाशे ह्यप्रकाशांशः
कथं नाम प्रकाशताम् ।
प्रकाशमाने तस्मिन्वा
तद्द्वैतास्तस्य लोपिताः ॥२०॥
अप्रकाशेऽथ तस्मिन्वा
वस्तुता कथमुच्यते ॥
न प्रकाशविशेषत्व-
मत एवोपपद्यते ॥२१॥
अप्रकाशांश इति-सुखादिजडोऽर्थः, कथं नामेति-
केन रूपेणेत्यर्थः, तत्र यदि प्रकाशात्मनैव प्रका-
शते तत्तस्य नीलसुखादेः स्वभावस्य दोषः स्यात्-
नियतेन नीलत्वादिना बाह्येन रूपेण न भायात्प्रकाश
एव शिष्येत इति यावत्, अथ अप्रकाशात्मना नियते-
नैव रूपेण प्रकाशते तत्तस्य सत्तानिश्चय एव न भवेत्,
नहि प्रकाशमन्तरेण नीलादीनां कदाचिदपि स्वरूपं
दृष्टम्, 'अप्रकाशात्मना रूपेण प्रकाशते' इति वाचो-
युक्तिश्च रिक्ता स्यात्, तदाह 'अप्रकाश' इत्यादि
पं० ४ ख० पु० तत्र लोपत इति पाठः ।
पं० १६ ग० पु० अप्रथात्मरूपेणेति पाठः ।
प्रकाशः पुनर्नीलादिपरिहारेणानीलादावपि प्रकाशते,
श्लोक २१ ] द्वितीयमाह्निकम् । १७
प्रकाशः पुनर्नीलादिपरिहारेणानीलादावपि प्रकाशते,
नीलादिर्हि उपाधिः, स च स्वस्वातन्त्र्यविजृम्भामा-
त्ररूपत्वान्न वास्तवः, इत्यखण्ड एक एव प्रकाश उज्जृ-
म्भते, यन्महिम्नैव इदं तत्तन्नीलाद्याभासात्म विश्वं
स्फुरेत्, अत एवाह 'न प्रकाशविशेषत्वमुपपद्यते' इति,
अत इति - एकस्यैव अखण्डस्य प्रकाशस्य तत्तदा-
भासात्मना स्फुरणात् । ननु 'नीलप्रकाशोऽन्यः, पीत-
प्रकाशश्चान्य' इत्यादिरस्त्येव एषां भेदः, इति किमुक्तं
'न प्रकाशविशेषत्वमुपपद्यते' इति? नैतत् - औपाधिको
ह्ययं भेदः, स च न वास्तवः - इत्युपपादितं बहुशः,
नीलादयो हि प्रकाशत्वात्प्रकाशात्मका एव इति किं
केन भेद्यम्, नहि स्वात्मनैव स्वात्मा भिद्यते इत्येत-
दुक्तम् 'न च प्रकाशैकरूपायां संविदि संविद्न्तरमस्ति'
एवं हि स्वरूपभेदकृते भेदव्यवहारे क्रियमाणे एकभेद-
पं० ४ क० पु० महिम्ना तत्तन्नीलानीलाभास इति पाठः ।
पं० १० क० पु० स एव वास्तव इति पाठः ।
पं० १२ क० पु० भेद्यते इत्येतद्युक्तमिति पाठः ।
पं० १३ क० पु० अस्ति ते एवमिति पाठः ।
पं० १४ क० पु० भेदवृते इति पाठः ।
३
प्रकाशरूपत्वमेवोक्तं भवेत् इति गजस्नानतुल्यत्वं
१८ : श्रीतन्त्रालोकः ।
प्रकाशरूपत्वमेवोक्तं भवेत् इति गजस्नानतुल्यत्वं
स्यात्, ततश्च पुनरपि 'एकैवाखण्डवित्' इत्येव पर्यव-
स्येत्, एवं च देशकालावपि प्रकाशदशामेवाधिशयानौ
प्रकाश्यत्वात्प्रकाशैकात्म्यमेवावगाहमानौ कथंकारं
प्रकाशस्य भेदाधायकौ स्याताम्, प्रकाशातिरेकाभ्यु-
पगमे वा अनयोरत्र नित्यत्वव्यापकत्वाभ्या भेदाधाने-
ऽसामर्थ्यम्, इत्येक एवाखण्डः प्रकाशः, इति - मता-
न्तरसिद्धिमभिवाञ्छन्तः परे परं निरस्ताः ॥२१॥
तदाह
अत एकप्रकाशोऽय-
मिति वादेऽत्र सुस्थिते ।
दूरादावारिताः सत्यं
विभिन्नज्ञानवादिनः ॥२२॥
ननु यदि ज्ञानानि विभिन्नानि न संभवन्ति, तत्
एकशब्दः किमपोहनायात्र प्रयुक्तः ? इत्याशंक्याह
पं० ६ क० पु० नित्यव्यापकाभ्यां भेदादावसामर्थ्यमिति पाठः ।
पं० ७ क० पु० इति सत्यानन्तरसिद्धिमिच्छन्तः परमिति पाठः ।
प्रकाशमात्रमुदित-
श्लोक २४ ] द्वितीयमाह्निकम् । १६
प्रकाशमात्रमुदित-
मप्रकाशनिषेधनात् ।
एकशब्दस्य न त्वर्थः
संख्या चिद्व्यक्तिभेदभाक् ॥२३॥
अप्रकाशः – प्रकाश्यो नीलादिर्बाह्योऽर्थस्तावन्नि-
षिद्धः, अतः 'प्रकाशः केवलोऽस्ति' इत्येकशब्दस्या-
त्रासहायाद्वृत्तिः, तदुक्तं 'एकशब्दस्यार्थः प्रकाशमा-
त्रमुदितम्' इति, न पुनः प्रकाशभेदभाक् इत्येकद्वि-
त्र्यादिलक्षणः संख्यार्थो, येन – मतान्तराण्यप्यपो-
ह्यतया संभावनीयानि स्युः ॥२३॥
अत एवात्र भेदागूरकं व्यवहारमात्रमपि न ज्ञायते,
इत्याह
नैष शक्तिर्महादेवी
न परत्राश्रितो यतः ।
पं० ३ क० पु० नन्वर्थ इति पाठः ।
पं० ६ क० पु० एकशब्दस्यासहाया वृत्तिरिति पाठः ।
पं० ७ ख० पु० शब्दस्यार्थः प्रकाशमानं तदितरदितरदिति न पुनरिति पाठः ।
पं० ८ क० पु० एकद्वित्वादिलक्षणसत्तानन्तराख्यान्यापोहतयेति पाठः ।
२० श्रीतन्त्रालोकः ।
न चैष शक्तिमान्देवो
न कस्याप्याश्रयो यतः ॥२४॥
नैष ध्येयो ध्यात्रभावा-
न्न ध्याता ध्येयवर्जनात् ।
न पूज्यः पूजकाभावा-
त्पूज्याभावान्न पूजकः ॥२५॥
न मन्त्रो न च मन्त्र्योऽसौ
न च मन्त्रयिता प्रभुः ।
न दीक्षा दीक्षको वापि
न दीक्षावान्महेश्वरः ॥२६॥
एष इति - व्याख्यातस्वरूपः परः प्रकाशः, शक्ति-
शक्तिमदादयो हि शब्दाः संबन्धिशब्दत्वान्नित्यसा-
पेक्षाः इत्यन्यागूरणमन्तरेण स्वार्थ एव विश्रान्तिं
लभन्ते, इति तैः क्रियमाणो व्यवहारो भेदनिष्ठ एव
स्यात्, न चात्र परप्रमात्रेकात्मनि प्रकाशे भेदः
कश्चिदस्ति, इत्येवं - व्यवहारमात्रतां कदाचिदपि स
पं० ५ क० पु० न पूजा पूजकेति पाठः ।
श्लोक २७ ] द्वितीयमाह्निकम् । २१
न यायात्, अतश्च नायं शक्तिः, सा हि परं शक्तिम-
न्तमाश्रित्यैव वर्तते इत्यनपेक्षत्वाद्भेदाविर्भावे प्रकाश
एवैकः, इति प्रतिज्ञाया हानिः स्यात्, एवं शक्तिमच्छ-
ब्दव्यवहारोऽपि नायं, सोऽपि हि परं शक्तिलक्षण-
मर्थमुररीकृत्यैव वर्तते, इति भेद एवापतेत्, एवं
ध्येयादावपि ज्ञेयं, मन्त्र इति मन्त्रस्य प्रणवादेर्वा-
च्यः, मन्त्रयिता मन्त्राणां पाठकः, न दीक्षेति कर्तृ-
कर्मापेक्षित्वात्, अत्र च माहेश्वर्ये प्रभुत्वं हेतुः
॥ २४-२५-२६ ॥
अत एव यत्किंचन भेदाधायकं तदत्र नास्ति,
इत्याह
स्थानासननिरोधार्घ-
संधानावाहनादिकम् ।
विसर्जनान्तं नास्त्यत्र
कर्तृकर्मक्रियोज्झिते ॥२७॥
पं० २ ग० पु० इत्यनाक्षेपादिति पाठः ।
पं० ४ क० ख० पु० सोऽपि स्वशक्तिलक्षणमुररीकृत्य इति पाठः ।
पं० ६ ख० पु० मन्त्र्य इति मन्त्रस्यास्येति पाठः ।
२२ श्रीतन्त्रालोकः ।
स्थानं-स्थापनमुद्रया भगवतोऽवस्थानम्, आसनं-
संनिधानमुद्रया पूजां प्रति औन्मुख्यं, निरोधः-तत्रै-
वाविचलत्त्वेनावस्थानम्, अर्घोऽष्टाङ्गः, संधानं मन्त्रा-
दिविषयम्, आवाहनं-अनभिमुखस्याभिमुखीकरणं,
विसर्जनम् - अभिमुखीभूतस्यानभिमुखीकरणम्,
एषामावाहनादिविसर्जनान्तानामसत्त्वे हेतुगर्भं विशे-
षणं - 'कर्तृ इत्यादि' कर्त्रादीनां हि विकल्पैकपरमार्थ-
त्वात्, प्रकाशस्य च परप्रमात्रेकात्मकत्वेनाविकल्प्य-
त्वात् न केनचिदपि व्यपदेशेन व्यपदेष्टुं शक्यते, इति
'नैष शक्तिः' इत्यायुक्तम् ॥२७॥
न चैतद्युक्तिमात्रशरणम्, अपि त्वागमेनापि
सिद्धम्, इति श्रीभर्गशिखां संवादयति ।
न सन्न चासत्सदस-
न्न च तन्नोभयोज्झितम् ।
दुर्विज्ञेया हि सावस्था
किमप्येतदनुत्तरम् ॥२८॥
पं० २ ख० पु० पूज्यं प्रति इति पाठः ।
पं० ७ ख० पु० कर्त्रादयो हि इति पाठः, तदनुसारेण शक्यन्ते इति च समु-
चितः प्रतिभाति ।
प्रकाश एव सर्वभावानां परा सत्ता इत्यसत्त्वं
श्लोक ३०] द्वितीयमाह्निकम्। २३
अयमित्यवभासो हि
यो भावोऽवच्छिदात्मकः।
स एव घटवल्लोके
संस्तथा नैष भैरवः ॥२६॥
लोके हि सजातीयव्यावृत्तौ यः कश्चिदर्थः
'अयमिति' पुरोवर्तित्वेनावभासते भावः, स एव
'सत्' इत्यभिधीयते, यथा - घट इति, समनन्तरव्या-
ख्यातस्वरूपः प्रकाशः पुनरनन्तभावनिर्भरो न तथा-
महासत्तात्मत्वेनानवच्छिन्नत्वात् नैवंरूपः - सच्छब्द-
व्यवहार्यो न भवति, इति यावत् ॥२८-२६॥
एवं तर्ह्यसच्छब्दव्यवहार्यो भवेत् ? इत्याशंक्याह
असत्त्वं चाप्रकाशत्वं
न कुत्राप्युपयोगिता ।
प्रकाश एव सर्वभावानां परा सत्ता इत्यसत्त्वं
नामाप्रकाशत्वमकिंचिद्रूपत्वमुच्यते, यथा - शशवि-
पं० २ क० पु० यो भावो वा चिदात्मक इति पाठः ।
पं० ५ क० पु० व्यावृत्ततायाः कश्चनार्थ इति पाठः ।
पं० ८ क० ख० पु० पुनरन्तर्भावेति पाठः ।
पं० ६ क० पु० महासत्तात्मत्वान्नैवमिति पाठः ।
पं० १२ ग० पु० असत्यं चाप्रकाशस्येति पाठः ।
प्रकाशः पुनर्न तथा इत्याह
२४ श्रीतन्त्रालोकः ।
षाणादेः, अत एव च तन्न कुत्रापि कस्यांचिदपि
अर्थक्रियायामुपयुक्तम् - न कांचिदप्यर्थक्रियां करो-
ति, इति यावत् ॥
प्रकाशः पुनर्न तथा इत्याह
विश्वस्य जीवितं सत्यं
प्रकाशैकात्मकश्च सः ॥३०॥
विश्वस्य - चेतनाचेतनात्मनः सर्वस्य, पारमार्थिकं
जीवितं - स्फुरत्तात्मकत्वेन अनुप्राणकं, नहि तेन
विना किंचिदपीदं प्रकाशते, इत्युक्तम् 'प्रकाशैकात्म-
कश्च' इति - एवमनेकरूपत्वादसच्छब्दव्यवहार्योऽपि,
न भवेदिति भावः ॥३०॥
अत एव सदसदात्मापि न, इत्याह
आभ्यामेव तु हेतुभ्यां
न द्वयात्मा न द्वयोज्झितः ।
सर्वात्मना हि भात्येष
केन रूपेण मन्त्यताम् ॥३१॥
आभ्यां - समनन्तरोक्ताभ्यामनवच्छिन्नत्वप्रका-
श्लोक ३१ ] द्वितीयमाह्निकम् । २५
शमानत्वलक्षणाभ्याम्, ननु यद्येवं तर्हि सदसदात्म-
करूषद्वयोत्तीर्णः स्यात् ? इत्याशंक्याह ‘न द्वयेत्यादि’
भावाभावावभासकालेऽपि स एव हि परमवभासते,
इति कथं सदसद्भ्यामप्युज्झितः स्यात् ? अत आह
‘सर्वात्मना हि भात्येष’ इति, — एवमेतत्परप्रमात्रे-
कात्म भवत्येव अन्यथा ह्यनवच्छिन्नरूपत्वात्कदाचि-
दपि विकल्पतां न यायात् इति तात्पर्यार्थः, यदुक्तम्
‘सतोऽवश्यं परमसत्सत्त्व तस्मात्परं विभो ।
त्वं चासतः सतश्चान्यस्तेनासि सद्सन्मयः ॥’
इति । तथा
‘न शान्तमुदितं वापि तव रूपं न मध्यमम् ।
रूपं रूपं तव हरे यन्न केनचिदुच्यते ॥’
इति, अतश्च केन तावत्कल्पितेन रूपेण एत-
दुच्यते इति न जानीमः, इयं हि दशा विकल्पोपहत-
बुद्धीनां मायाप्रमातृणां दुर्विज्ञेया — यथोक्तयुक्त्या
ज्ञातुमशक्यैवेत्यर्थः, साक्षात्कृतपरमात्मतत्त्वानामामवि-
पं० ५ क० पु० परप्रमाणको भवतीति पाठः ।
पं० १४ क० पु० केन तावत्क्रियते केनेति पाठः ।
४
२६ श्रीतन्त्रालोकः ।
कल्पवृत्तीनां पुनरेतत्स्वानुभूतिमात्ररूपपरानन्दच-
मत्कारघनत्वेन सर्वातिशायि भासते एव, इत्युक्तं
'किमप्येतदनुत्तरम्' इति ॥ ३१ ॥
न केवलमेतदत्रैवोक्तं यावदन्यत्रापि, इत्याह
श्रीमत्त्रिशिरसि प्रोक्तं
परज्ञानस्वरूपकम् ।
शक्त्या गर्भान्तर्वर्तिन्या
शक्तिगर्भं परं पदम् ॥३२॥
'परं ज्ञानं कथं देव' इति देवीप्रश्ननिर्णयार्थं ह्येत-
दत्र परज्ञानरूपं भगवतोक्तमित्याशयः, तदेव पठति
'शक्त्या' इत्यादि, यदेतत्परं पदं तच्छक्तिगर्भं, शक्ति-
रेव स्वातन्त्र्यविमर्शादिपदाभिधेया गर्भः सारं यस्य
तत्, सा च न तदतिरेकिणी, इत्याह 'शक्त्या गर्भा-
न्तर्वर्तिन्या' इति, यतस्तयैव स्वातन्त्र्याख्यया शक्त्या
गर्भोऽन्तरं प्रमात्रैकात्म्यं तस्यान्तः परा काष्ठा तेन
वर्तते तच्छीला-तया स्वस्वभावरूपयोपलक्षित-
मित्यर्थः, अन्यथा ह्यस्य परत्वमेव न स्यात्, यदुक्तम्
पं० ७ क० पु० गर्भान्तवासिन्या इति पाठः ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥'
श्लोक ३३ ] द्वितीयमाह्निकम् । २७
'स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥'
इति, अत एव शक्तौ स्वातन्त्र्यात्मनि स्वभाव
एव तिष्ठति-सदैव ताद्रूप्येण वर्तत इत्यर्थः, अत
एव शक्तिगर्भ-स्वातन्त्र्यशक्तिमन्तरेण नास्यान्याः
शक्तयो विद्यन्ते इत्यर्थः, सैव हि तत्तदेषणीयाद्यर्थो-
पाधिवशान्नानात्वेन व्यवह्रियत इति भावः, यदुक्तम्
'तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।
बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥'
इति, तेन 'स्वतन्त्रो बोधः परमार्थः' इत्याद्युक्तनी-
त्यानवच्छिन्नस्वरूपः स्वातन्त्र्यशाल्यविकल्पकः प्र-
काश एव परं तत्त्वम्, इति तात्पर्यम् ॥ ३२ ॥
अत एव च नियतव्यवच्छेदासहिष्णुत्वादेतद्विक-
ल्प्यतां नैति, इत्याह
न भावो नाप्यभावो न
द्वयं वाचामगोचरात् ।
अकथ्यपदवीरूढं
शक्तिस्थं शक्तिवर्जितम् ॥ ३३ ॥
२८ श्रीतन्त्रालोकः ।
अगोचरादिति भावप्रधानो निर्देशः, तेन वाचा-
मगोचरत्वादकथ्यपदवीरूढमित्यर्थः । एतच्च सर्वमस-
कृत्स्वेनैव व्याख्यातम्, इति न पुनरायस्तम् ॥३३॥
ये चातोऽवहितास्त एव परं कृतकृत्याः, इत्याह
इति ये रूढसंवित्ति-
परमार्थपवित्रिताः ।
अनुत्तरपथे रूढा-
स्तेऽभ्युपायानियन्त्रिताः ॥ ३४ ॥
इति - उक्तेन गुरूपदेशादिना, रूढा - तदैकात्म्य-
लाभादापादितप्ररोहा, या संवित्तिः, तस्या यः पर-
मार्थः - सर्वसर्वात्मत्वेन स्फुरणं, तेन पवित्रिताः - भेद-
विकारकालुष्यापनयनेन परमाद्वयपात्रतामापादिताः,
अत एव ते व्यतिरिक्तेन बाह्येनाभ्यन्तरेण वाभ्युपायेन
अनियन्त्रिताः - तन्निरपेक्षाः सन्तः, अनुत्तरपथे -
पूर्णानन्दचमत्कारघनतया सर्वातिशायिनि चिद्विका-
पं० १२ क० पु० विकारकारककालुष्यापनयेनेति पाठः ।
पं० १३ क० पु० तेनाभ्यतिरिक्तेनेति पाठः ।
श्लोक ३५ ] द्वितीयमाह्निकम् । २६
सात्मवृत्तिमार्गे विश्रान्ताः - स्वरसावस्थानेनैव लब्ध-
तत्सामरस्या इत्यर्थः, तदुक्तम्,
'यथा स्थितस्तथैवास्स्व मा गा बाह्यमथान्तरम् ।
केवलं चिद्विकासेन विकारनिकराञ्जहि ॥'
इति । तथा
'आनन्दशक्तिविश्रान्तो योगी समरसो भवेत् ।'
इति । तथा
'उपायो नापरः कश्चित्त्वसत्तावगमादृते ।
तामेवानुसरन्योगी स्वस्थो यः स सुखी भवेत् ॥'
इति ॥३४॥
ततश्च किम् ? इत्याह
तेषामिदं समाभाति
सर्वतो भावमण्डलम् ।
पुरःस्थमेव संवित्ति-
भैरवाग्निविलापितम् ॥३५॥
तेषाम् - अनुपायसमावेशशालिनां, देहाद्यपेक्षया
पुरोऽवभासमानमपि इदं सर्वं भावमण्डलं
'मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् ।
मदभिन्नमिदं च ................. ॥'
पं० ४ क० पु० केनचिच्चिद्विकासेनेति पाठः ।
पं० ६ क० पु० योगी स परम इति पाठः ।