तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 339, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २१ ] द्वितीयमाह्निकम् । १७
प्रकाशः पुनर्नीलादिपरिहारेणानीलादावपि प्रकाशते,
नीलादिर्हि उपाधिः, स च स्वस्वातन्त्र्यविजृम्भामा-
त्ररूपत्वान्न वास्तवः, इत्यखण्ड एक एव प्रकाश उज्जृ-
म्भते, यन्महिम्नैव इदं तत्तन्नीलाद्याभासात्म विश्वं
स्फुरेत्, अत एवाह 'न प्रकाशविशेषत्वमुपपद्यते' इति,
अत इति - एकस्यैव अखण्डस्य प्रकाशस्य तत्तदा-
भासात्मना स्फुरणात् । ननु 'नीलप्रकाशोऽन्यः, पीत-
प्रकाशश्चान्य' इत्यादिरस्त्येव एषां भेदः, इति किमुक्तं
'न प्रकाशविशेषत्वमुपपद्यते' इति? नैतत् - औपाधिको
ह्ययं भेदः, स च न वास्तवः - इत्युपपादितं बहुशः,
नीलादयो हि प्रकाशत्वात्प्रकाशात्मका एव इति किं
केन भेद्यम्, नहि स्वात्मनैव स्वात्मा भिद्यते इत्येत-
दुक्तम् 'न च प्रकाशैकरूपायां संविदि संविद्न्तरमस्ति'
एवं हि स्वरूपभेदकृते भेदव्यवहारे क्रियमाणे एकभेद-
पं० ४ क० पु० महिम्ना तत्तन्नीलानीलाभास इति पाठः ।
पं० १० क० पु० स एव वास्तव इति पाठः ।
पं० १२ क० पु० भेद्यते इत्येतद्युक्तमिति पाठः ।
पं० १३ क० पु० अस्ति ते एवमिति पाठः ।
पं० १४ क० पु० भेदवृते इति पाठः ।
३