सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 334, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 334

१२ श्रीतन्त्रालोकः ।
भैरवीये इति-पूर्णे ॥१३॥
ये पुनरनेनापि उपायेनानुपायं परं तत्त्वमनुसरन्ति
तान्प्रति किमुच्यते ? इत्याह
येऽपि साक्षादुपायेन
तद्रूपं प्राविविक्षते ।
नूनं ते सूर्यसंवित्त्यै
खद्योताधित्सवो जडाः ॥१४॥
तदुक्तम्
‘अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते ।
यैरूपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥’
इति ॥ १४ ॥
अत्रैव निमित्तान्तरमप्याह
किं च यावदिदं बाह्य-
मान्तरोपायसंमतम् ।
तत्प्रकाशात्मतामात्रं
शिवस्यैव निजं वपुः ॥१५॥
पं० २ क० पु० तत्त्वमनुविशन्तीति पाठः ।
पं० ७ क० पु० खद्योतं लिप्सव इति पाठः ।
पं० ६ क० पु० प्रकटोदिते इति पाठः ।
पं० १६ क० पु० परं वपुः इति पाठः ।