सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 340, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 340

१८ : श्रीतन्त्रालोकः ।
प्रकाशरूपत्वमेवोक्तं भवेत् इति गजस्नानतुल्यत्वं
स्यात्, ततश्च पुनरपि 'एकैवाखण्डवित्' इत्येव पर्यव-
स्येत्, एवं च देशकालावपि प्रकाशदशामेवाधिशयानौ
प्रकाश्यत्वात्प्रकाशैकात्म्यमेवावगाहमानौ कथंकारं
प्रकाशस्य भेदाधायकौ स्याताम्, प्रकाशातिरेकाभ्यु-
पगमे वा अनयोरत्र नित्यत्वव्यापकत्वाभ्या भेदाधाने-
ऽसामर्थ्यम्, इत्येक एवाखण्डः प्रकाशः, इति - मता-
न्तरसिद्धिमभिवाञ्छन्तः परे परं निरस्ताः ॥२१॥
तदाह
अत एकप्रकाशोऽय-
मिति वादेऽत्र सुस्थिते ।
दूरादावारिताः सत्यं
विभिन्नज्ञानवादिनः ॥२२॥
ननु यदि ज्ञानानि विभिन्नानि न संभवन्ति, तत्
एकशब्दः किमपोहनायात्र प्रयुक्तः ? इत्याशंक्याह


पं० ६ क० पु० नित्यव्यापकाभ्यां भेदादावसामर्थ्यमिति पाठः ।
पं० ७ क० पु० इति सत्यानन्तरसिद्धिमिच्छन्तः परमिति पाठः ।