तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 351, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ३५ ] द्वितीयमाह्निकम् । २६
सात्मवृत्तिमार्गे विश्रान्ताः - स्वरसावस्थानेनैव लब्ध-
तत्सामरस्या इत्यर्थः, तदुक्तम्,
'यथा स्थितस्तथैवास्स्व मा गा बाह्यमथान्तरम् ।
केवलं चिद्विकासेन विकारनिकराञ्जहि ॥'
इति । तथा
'आनन्दशक्तिविश्रान्तो योगी समरसो भवेत् ।'
इति । तथा
'उपायो नापरः कश्चित्त्वसत्तावगमादृते ।
तामेवानुसरन्योगी स्वस्थो यः स सुखी भवेत् ॥'
इति ॥३४॥
ततश्च किम् ? इत्याह
तेषामिदं समाभाति
सर्वतो भावमण्डलम् ।
पुरःस्थमेव संवित्ति-
भैरवाग्निविलापितम् ॥३५॥
तेषाम् - अनुपायसमावेशशालिनां, देहाद्यपेक्षया
पुरोऽवभासमानमपि इदं सर्वं भावमण्डलं
'मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् ।
मदभिन्नमिदं च ................. ॥'
पं० ४ क० पु० केनचिच्चिद्विकासेनेति पाठः ।
पं० ६ क० पु० योगी स परम इति पाठः ।