तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
श्लोकः ३३० ] प्रथमाह्निकम् । ३०३
‘रागाद्यकलुषोऽस्म्यन्तः शून्योऽहं कर्तृताज्झितः ।’
इत्याद्युक्तयुक्त्या चित्रस्वभावस्य, यद्वा
‘तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः ।
अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥’
इत्यादिनीत्या चित्राकारस्य
‘अतः कंचित्प्रमातारं प्रति प्रथयते प्रभुः ।
पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥’
इत्याद्युक्त्या चित्रः शाम्भवाद्यावेशात्मा प्रकटितः,
इह इति – अस्मिन्नाह्निके । ययोर्बन्धमोक्षयोः संग्रहेण
संक्षेपेण एषोऽर्थः प्रकटितः इत्यनेनैव संबन्धः ॥३३०॥
ननु आत्मनः स्वरूपप्रथनमेव ‘मोक्षः’ इत्युक्तम्,
आत्मा चैक एव अखण्डः इति तत्प्रथात्मनो
मोक्षस्यापि वैचित्र्यं कुतस्त्यम् ? इत्याशङ्क्याह
मिथ्याज्ञानं तिमिरमसमान्
दृष्टिदोषान्प्रसूते
पं० ३ क० पु० तेनाजडविभागस्येति, संज्ञित इति च पाठः ।
पं० ५ ख० पु० चित्रस्वभावस्य इति पाठः ।
पं० ८ क० पु० इत्याद्युक्तयुक्त्या इति पाठः ।
३०४ श्रीतन्त्रालोकः ।
तत्सद्भावाद्द्विमलमपि त-
द्भाति मालिन्यधाम ।
यत्तु प्रेक्ष्यं दृशि परिगतं
तैमिरं दोषमुद्रां
दूरं रुन्द्धेत्प्रभवतु कथं
तत्र मालिन्यशङ्का ॥ ३३१ ॥
तिमिरम् - आणवमलमेव मिथ्याज्ञानं भेदप्रथात्म-
कम् अपूर्णं वेदनं, दृष्टेः पूर्णायाः संवित्तेः, असमान् -
आत्मनि अनात्माभिमानादिरूपान् दोषान् जनयति
इति मिथ्याज्ञानसद्भावात् विमलं पूर्णमपि तत् ज्ञानं
मालिन्यधाम भाति - स्वस्वातन्त्र्यादपूर्णेन आत्म-
ना परिस्फुरति इत्येतावानर्थः इति व्यवह्रियते, यत्
पुनरुपेयत्वेन प्रेक्षणीयम् - अवश्यज्ञातव्यं परप्रमात्रे-
कात्म पूर्णं ज्ञानं
‘नाहं प्राणो नैव शरीरं न मनोऽहं
नाहं बुद्धिर्नाहमहङ्कारधियौ च ।
योऽत्र ज्ञांशः सोऽस्म्यहमेव ............।’
पं० १३ क० पु० पुनरुपमेयत्वेनेति पाठः ।
श्लोक ३३१ ] प्रथमाह्निकम् । ३०५
इत्यादिनीत्या उद्वेष्टनक्रमेण विमर्शपदवीमारूढं सत्,
मिथ्याज्ञानसमुत्थाम् अनात्मनि आत्माभिमानरूपां
दोषमुद्रां दूरं रुन्ध्येत् - आत्मन्येव आत्माभिमानेन
तिरस्कुर्यात्, तत्र का नाम मालिन्यशङ्का तत्र सं-
भावनापि न भवेत् इति वस्तुवृत्तेन बन्धो मोक्षो
वापि न नाम कश्चिदस्ति इति का वा नाम तत्र वै-
चित्र्यसंभावना स्यात् । अनेन चाभिप्रायेण
'संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का
बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया ।
मिथ्यामोहकृदेष रज्जुभुजगच्छ्छायापिशाचभ्रमो
मा किंचित्त्यज मा गृहाण विरम स्वस्थो यथावस्थितः ॥'
इत्यादि अन्यत्र उक्तम् । अथ च तिमिरेण नेत्ररो-
गविशेषेण दृष्टौ अन्यथाज्ञानात्मदोषजातमुत्पादितं
प्रेक्ष्येण अञ्जनादिस्थानीयेन रोध्यते इति तत्र
मालिन्यशङ्कापि न भवति इति औपम्यं ध्वनि-
तम् ॥३३१॥
इदानीमस्य शास्त्रस्य परं गाम्भीर्यं मन्यमानो
ग्रन्थकृत्, एतदर्थसतत्त्वमजानानैरपि अन्यैरन्यथा-
पं० ४ ख० पु० का नाम अग्रिमान्न संभावना न प्रभवेत् इति पाठः ।
३६
३०६ श्रीतन्त्रालोकः ।
बोधेन यत्किंचित् उत्तानमेव अन्यथा उच्यते,
तान्प्रति अप्रस्तुतप्रशंसया उपहसितुमाह
भावव्रात ? हठाज्जनस्य हृदया-
न्याक्रम्य यन्नर्तयन्
भङ्गीभिर्विविधाभिरात्महृदयं
प्रच्छाद्य संक्रीडसे ।
यस्त्वामाह जडं जडः सहृदयं-
मन्यत्वदुःशिक्षितो
मन्येऽमुष्य जडात्मता स्तुतिपदं
त्वत्साम्यसंभावनात् ॥३३२॥
हे भावव्रात-नीलाद्यर्थ ? आत्मनो हृदयं तेन
आत्मतथ्यं रूपं गोपयित्वा जनस्य सर्वस्यैव वादिनो
हृदयानि आशयान् बलात्कारेण आक्रम्य
‘अद्यास्मानसत: करिष्यति सतः किं नु द्विधा वाप्ययं
किं स्थास्नुनुत नश्वरानुत मिथोभिन्नानभिन्नानुत ।
इत्थं सद्गदनावलोकनपरैर्भावैर्जगद्गर्तिभि-
र्मन्ये मौननिरुद्धमानहृदयैर्दुःखेन तैः स्थीयते ॥’
पं० ७ ग० पु० सहृदयमन्योऽत्र दुःशिक्षित इति पाठः ।
पं० १७ ग० पु० दुःखमतः स्थीयते इति पाठः ।
श्लोक ३३२ ] प्रथमाह्निकम् । ३०७
इत्यादिस्थित्या विविधाभिर्भङ्गीभिः नर्तयन् यत्
संक्रीडसे - नटवत् अतात्त्विकेन रूपेण समुल्लससि,
अतः स सर्वो वादी असहृदयमपि आत्मानं सहृदय-
त्वेन मन्यमानोऽत एव दुःशिक्षितो मिथ्याभिमानात्
अकिंचिज्ज्ञः, त्वां भावव्रातं, जडम् - अचेतनम् आह,
अतोऽस्माभिरुत्प्रेक्ष्यते - यत् अमुष्य वादिनो वस्तुत-
श्चैतन्यस्वभावेन भवता यत् साम्यं तस्य संभावनात्
भाववत्त्वमेव जडात्मा इति यद्युच्यते सा अस्य निन्दा-
स्थाने स्तुतिः । भावानां हि वस्तुतश्चैतन्यमेव रूपम्
अचेत्यमानत्वे हि तेषां न किंचिद्रूपं स्यात्, अत-
स्तदेव ये न जानते ते जडेभ्योऽपि जडाः इति कथं
च तेषां चेतनात्मकैर्भावैः निन्दापर्यवसायि साम्यं
स्यात् इति भावः । एवं प्रकृतेऽपि अस्य ग्रन्थस्य
यस्तत्त्वं न जानाति मा ज्ञासीत्, प्रत्युत अन्यथापि
यत्किंचन वक्ति इत्यसावेव जडो, न पुनरस्य
ग्रन्थस्य कश्चिद्दोषः इत्यर्थः ॥३३२॥
ननु यद्येवं तर्हि एतच्छास्त्राधिगमाय केषांचन
पं० ६ क० पु० भावानां हि भावना वस्तुत इति पाठः ।
३०८ श्रीतन्त्रालोकः ।
परेषां विदुषामभ्यर्थना क्रियतां, यदत्र यथावस्त्वेव
बुद्ध्वा द्वेषो मा कार्यः ? इत्याशङ्क्याह
इह गलितमलाः परावरज्ञाः
शिवसद्भावमया अधिक्रियन्ते ।
गुरवः प्रविचारणे यतस्तद्-
विफला द्वेषकलंकहानियाच्ञा ॥३३३॥
इह द्वये पुरुषाः सन्ति - अनायातशक्तिपाता आ-
यातशक्तिपाताश्च, तत्र पूर्वेषां शतशोऽभ्यर्थिता-
नाम् एतदधिगमाय मनोऽपि न प्रसरति, इत्यत्र
अवधातव्यम्, द्वेषो माकार्यः इत्यभ्यर्थनाया असा-
मर्थ्यम् । अपरे च अनभ्यर्थिता अपि स्वयमेव एत-
दधिगमाय प्रवर्तन्ते इति तत्रापि एवमभ्यर्थनाया
वैयर्थ्यम् । तदाह 'द्वेषकलङ्कहानियाच्ञा' इति । आया-
तशक्तिपाताश्च कीदृशाः ? इत्याह गलितमलाः
इति, गलितं मलम् - अज्ञानं येषां ते तथाविधाः,
अत एव च परम् आदिमम् अनुत्तरम् अवरम् अन्त्यं
विसर्गं च ये जानते ते पराहंपरामर्शात्मकमन्त्रवी-
पं० ५ ग० पु० प्रविचारणे धियस्तदिति च पाठः ।
आह्निकार्थमुपसंहरति
श्लोक ३३३ ] प्रथमाह्निकम् । ३०६
र्यज्ञाः इत्यर्थः, अत एव शिवसद्भावमयाः - परप्रमात्रे-
कात्मज्ञानशालिनः इति यावत्, अत एव च गुरवः-
तात्त्विकार्थोपदेशिनः इति - एतदधिगमाय त एव
परमाधिकारिणः इत्युक्तं यतः प्रविचारणेऽधिक्रि-
यन्ते इति, यद्वक्ष्यति
'गुरोर्लक्षणमेतावदादिमान्त्यं च वेद्ययेत् ।
पूज्यः सोऽहमिव ज्ञानी भैरवो देवतात्मकः ॥'
इति ॥३३३॥
इह आह्निकादाह्निकान्तरस्य संचयन्यायेन पर-
स्परमनुस्यूततां दर्शयितुम् एकेनैव श्लोकेन तत्पर्य-
न्तप्रारम्भयोरुपसंहारोपक्रमौ करोति, इति 'अस्य
ग्रन्थकारस्य शैली'-इति श्लोकस्य प्रथमार्धेन
आह्निकार्थमुपसंहरति
तन्त्रालोकेऽभिनवरचिते-
ऽमुत्र विज्ञानसत्ता-
भेदोद्गारप्रकटनपटा-
वाह्निकेऽस्मिन्समाप्तिः ।
पं० ३ क० पु० अधिगमाय अत एव परमाधिकारिण इति पाठः ।
पं० ६ ग० पु० आद्यमन्त्यं चेति पाठः ।
३१० श्रीतन्त्रालोकः ।
पटौ इति पाक्षिकः पुंवद्भावः । इति शिवम् ॥
श्रीशृङ्गाररथादवाप्य कृतिनो जन्मानवद्यक्रमं
श्रीमच्छङ्खधरात्परं परिचयं विद्यासु सर्वासपि ।
श्रीकल्याणतनोः शिवादधिगमं सर्वागमानामपि
व्याख्यातं प्रथमाह्निकं जयरथेनात्रावधेयं बुधैः ॥
—
इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते तन्त्रालोके
श्रीमद्राजानकजयरथकृतप्रकाशाख्यव्याख्योपेते विज्ञान-
भेदप्रकाशनं नाम प्रथममाह्निकं समाप्तिगमत् ॥
एतत्कश्मीरभूपालसंश्रितेन प्रकाशितम् ।
सता मुकुन्दरामेण सन्मुदे स्ताच्छिवेर्पितम् ॥
श्रीशिवार्पणमस्तु ॥
—
This page is blank and contains no text to transcribe.
(इस पृष्ठ पर कोई पाठ उपलब्ध नहीं है / यह पृष्ठ रिक्त है)
अथ
श्रीतन्त्रालोकस्य
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तपादविरचितस्य
श्रीमदाचार्यजयरथकृतप्रकाशाख्यव्याख्योपेतस्य
द्वितीयमाह्निकम्
जयतान्नतजनजयकृत्सञ्जयो रुद्रो विनाभ्युपायं यः ।
पूरयति कं न कामं कामं कामेश्वरत्वेन ॥१॥
इदानीं
'यो हि यस्माद् गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते।'
इति-स्थित्या आणवादीनां यथायथमुत्कर्षादिह पूर्व-
पूर्वमेवाभिधानमिष्यते इत्युपैयैकरूपत्वेन शांभवा-
पं० २ क० ख० पु० कः पूरयति किं न कामं कामं वागीश्वरत्वेनेति पाठः ।
पं० ६ क० पु० अभिधानं करिष्यते इति इत्युपायैकेति च पाठः ।
२ श्रीतन्त्रालोकः ।
दप्यनुपायस्योत्कृष्टत्वम्, इति - प्रथमं तत्स्वरूपमे-
वाभिधातुमाह्निकान्तरारम्भं द्वितीयार्धेन प्रतिजानीते
यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं
तन्निर्णेतुं प्रकरणमिदमारभेऽहं द्वितीयम् ॥१॥
तन्निर्णयमेवाह
अनुपायं हि यद्रूपं
कोऽर्थो देशनयात्र वै ।
सकृत्स्याद्देशना पश्चा-
दनुपायत्वमुच्यते ॥२॥
वै-शब्दोऽवधारणे, तेन नैव कश्चिदर्थः इत्यर्थः ।
अत्रैव समाधत्ते 'सकृत्स्यात्' इत्यादिना, देशना
इत्युपलक्षणं - तेन सिद्धदर्शनाद्यपि ग्राह्यं, यदुक्तम्
'सिद्धानां योगिनीनां च दर्शनं चरुभोजनम् ।
कथनं संक्रमः शास्त्रे साधनं गुरुसेवनम् ॥
इत्याद्यो निरुपायस्य संक्षेपोऽयं वरानने ।'
इति । सकृदिति - न पुनरुपायानुभवः पौनःपुन्ये-
नेत्यर्थः । अत एवाह 'पश्चादनुपायत्वमुच्यते' इति,
पं० ३ क० पु० यत्र त्वाद्यं परमशिवतानुत्तरेति, ख० पु० यत्तत्राद्यमिति पाठः ।
पं० ४ क० ख० पु० मिदं त्वारभेयं द्वितीयमिति पाठः ।
श्लोक ३ ] द्वितीयमाह्निकम् । ३
आणवादौ असकृद्भाव्यमानो हि देशनादि उपेय-
प्राप्तिं विदधाति इति तत्र तथात्वमुक्तम्, इह तु न
तथा इत्यनुपायत्वं, पर्युदासस्य 'अनुदरा कन्या'
इति वदल्पार्थत्वेऽपि भावात् अल्पोपायत्वमित्यर्थः-
प्राप्तव्ये हि प्राप्ते किं नाम निरर्थकैरायासकारि-
भिर्भावनादिभिरिति भावः, यदुक्तम्
'उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः ।
स एवाहं स्वप्रकाशो भासे विश्वस्वरूपकः ॥
इत्याकर्ण्य गुरोर्वाक्यं सकृत्केचन निश्चिताः ।
विना भूयोऽनुसंधानं भान्ति संविन्मयाः स्थिताः ॥'
इति ॥ २ ॥
नन्वत्र प्रसज्यप्रतिषेधपक्षावलम्बनेनाविद्यमानो-
पायत्वमेव, इति मुख्योऽर्थः कस्मान्न व्याख्यातः ?
इत्याशंक्याह
अनुपायमिदं तत्त्व-
मित्युपायं विना कुतः ।
स्वयं तु तेषां तत्तादृक्
किं ब्रूमः किल तान्प्रति ॥३॥
पं० १२ क० पु० नेन विद्यमानोपायमेवेति पाठः ।
४ श्रीतन्त्रालोकः ।
'इदमनुपायं तत्त्वम्' इत्याद्युपदेशादिना केनचि-
दुपायेनावश्यं भाव्यम्, अन्यथा लक्षणमुपायमन्तरेण
कथं सिद्ध्येत्, इत्युक्तम् 'इत्युपायं विना कुतः' तेन
सकृदुपदेशादिना केनचिदुपायेनावश्यं भाव्यम्,
अन्यथा ह्यनुपायपरतत्त्वज्ञप्तिरेव न स्यात् । ननु
स्वविमर्शबलात्स्वयमेव प्राप्तप्राप्तव्या अपि केचिद्
दृश्यन्ते, इति-किं सकृदुपदेशाद्यात्मना स्वल्पे-
नाव्युत्पन्नेन ? इत्याशंक्याह 'स्वयमित्यादिना' तदि-
त्यनुपायं परप्रकाशात्मकं रूपं, किं ब्रूम इति-नहि
तदधिकारेण शास्त्रस्यैव प्रवृत्तिर्भवेदिति भावः,
तदुक्तम्
'तत्त्वज्ञस्य तृणं शास्त्रं.........।'
इति । यदभिप्रायेणैव
'संसाराम्बुनिधिं यः स्यात्तितीर्षुः कश्चिदुत्तमः'
नात्यन्ततज्ज्ञो नो मूर्खः सोऽस्मिञ्छास्त्रेऽधिकारवान्' ।
इत्यादावत्यन्ततज्ज्ञस्य शास्त्रे नाधिकार उक्तः, तेन
वयमर्वाग्दर्शिनोऽप्यदृष्टेऽर्थे शास्त्रैकदिव्यचक्षुष आरु-
पं० २ ग० पु० उपायान्तरेण कथमिति पाठः ।
पं० ८ ग० पु० अव्युत्पन्नत्वेन इति पाठः ।
पं० १४ संसारेति पदद्वयं ग० पुस्तकात्पूरितमस्ति ।
श्लोक ४ ] द्वितीयमाह्निकम् । ५
रुज्जूनायातशक्तिपातान्प्रत्येव किंचन ब्रूमः—तेषां
ह्येवमुपायमन्तरेण न कदाचिदप्युपेयप्राप्तिर्भवेत् इत्ये-
वमुक्तम्, यद्वक्ष्यति
'नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ।'
इति ॥ ३ ॥
ननु यद्येवं तर्हि अल्प एव कश्चिदुपायोंशः समुप-
दिश्यतां येनोपदेश्यजनस्य सुखमेव उपेयप्राप्तिः
स्यात्, किं बह्वायासदायिभिरन्यैरुपायैः? इत्याशंक्याह
यच्चतुर्धोदितं रूपं
विज्ञानस्य विभोरसौ ।
स्वभाव एव मन्तव्यः
स हि नित्योदितो विभुः ॥४॥
यच्चतुर्धा-अनुपायादिभेदेन विज्ञानस्य रूपमुक्तं
तद्विभोः परमेश्वरस्यैव स्वातन्त्र्यं ज्ञेयम्, स एव हि
स्वस्वातन्त्र्यादतिनिर्हासतारतम्यादियोगाद्विचित्रेणो-
पदेश्यजनात्मना प्रस्फुरन् तदनुसारमेव तत्तदुपाय-
पं० ६ क० ख० पु० समुद्दिश्यतामिति पाठः ।
पं० १२ ग० पु० स हि संविन्मयः प्रभुरिति पाठः ।
पं० १५ क० पु० स्वातन्त्र्यात्तारतम्येति पाठः ।
६ श्रीतन्त्रालोकः ।
वैचित्र्यमप्याभासयेत्। नन्वेक एव विचित्रेण रूपेण च
स्फुरति, इति किमेतत् ? इत्याशंक्याह ‘स हीत्यादि’
नित्योदित इति – अप्रच्युतप्राच्यस्वरूपः, अत एव
‘विभुः’ व्यापकः – तत्तद्वैचित्र्यग्रहणकालेऽप्यनुगत
एवेत्यर्थः ॥ ४ ॥
अत एवाह
एतावद्भिरसंख्यातैः
स्वभावैर्यत्प्रकाशते ।
कोऽप्यंशांशिकया तेन
विशन्त्यन्ये निरंशतः ॥ ५ ॥
एतावद्भिरिति – चतुर्भिः, असंख्यातैरिति – तत्त-
दवान्तरभेदात्, तेनेति – अनेकेन स्वभावेन प्रकाश-
नात् ॥५॥
न केवलमत्रेयदेव वैचित्र्यं यावदन्यदप्यस्तीत्याह
तत्रापि चाभ्युपायादि-
सापेक्षान्यत्वयोगतः ।
उपायस्यापि नो वार्या
तदन्यत्वाद्विचित्रता ॥ ६ ॥
पं० १४ क० पु० सापेक्षत्वान्ययोगत इति पाठः ।
श्लोक ८ ] द्वितीयमाह्निकम् । ७
उपायस्यापीति अपिशब्दो भिन्नक्रमः, तेन नो वार्या
तदन्यत्वादपि, इति व्याख्येयम्, एतच्च प्रथमाह्निक
एव वितत्य निर्णीतम्, इति — नेह पुनरायस्तम् ॥६॥
एवमेतत् प्रसंगादभिधाय प्रकृतमेवाह
तत्र ये निर्मलात्मानो
भैरवीयां स्वसंविदम् ।
निरुपायामुपासीना-
स्तद्विधिः प्रणिगद्यते ॥७॥
ये केचन तीव्रतीव्रशक्तिपातानुविद्धा विकल्पक-
लंकान्मुक्ताः, भैरवीयां पूर्णाम्, अत एवानुपायम् —
अनपेक्षाम्, आत्मसंविदमाविष्टाः, तेषां विधिः —
पूर्णसंविदावेशक्रमात्मा प्रकारः, प्रकर्षेण निगद्यते —
युक्तियुक्तत्वेन भण्यते इत्यर्थः ॥ ७ ॥
तदेवाह
तत्र तावत्क्रियायोगो
नाभ्युपायत्वमर्हति ।
पं० ९ क० पु० शक्तिपातविकल्पान्मुक्ता इति पाठः ।
पं० १२ क० पु० आवेशात्मप्रकार इति पाठः ।
प्रकाशत्वं स्वप्रकाशे
८ श्रीतन्त्रालोकः ।
उपायः खलु करणे प्रसृते, अतश्च पूर्णेन भाव्य-
मेव, इति सर्वेषामविवादः, न चात्रैवं - क्रियादयो हि
संवेद्यमानत्वात्संविन्निष्ठा एव, इति संविच्छक्तिं विना
अप्रसिद्धत्वात् कथं तत्रोपायतामासादयेयुः, अतः
प्रत्युत क्रियादीनां बहिराभासने संविदुपायः, इति
युक्तम् ॥ अत एवाह
स हि तस्मात्समुद्भूतः
प्रत्युत प्रविभाव्यते ॥८॥
तस्मादित्यनुपायात्संवित्तत्त्वात् ॥८॥
अथ यद्यस्य क्रियादि न कारकम् अपि तु
ज्ञापकम् इति उच्यते, तदपि न युज्यते, इत्याह ।
ज्ञप्तावुपाय एव स्या-
दिति चेज्ज्ञप्तिरुच्यते ।
प्रकाशत्वं स्वप्रकाशे
तच्च तत्रान्यतः कथम् ॥६॥
इह जडस्तावत् स्वयमप्रकाशात्मा स्वात्मनो न
पं० ३ क० पु० एवेति संविदः प्रसिद्धत्वात्कथमिति पाठः ।
प्रकाशते, अपि तु परस्य, इति - पर एवास्य प्रकाशः,
श्लोक १० ] द्वितीयमाह्निकम् । ६
प्रकाशते, अपि तु परस्य, इति - पर एवास्य प्रकाशः,
अजडस्तु स्वयं प्रकाशात्मा स्वात्मन एव प्रकाशते,
न परस्य, इति - न परोऽस्य प्रकाशोऽपितु स्व एव
अस्य प्रकाशः, तस्यापि परप्रकाशत्वे ह्यप्रकाशात्म-
त्वात् जाड्यं स्यात्, अत एवाह 'स्वप्रकाशे तच्च
तत्रान्यतः कथम्' इति प्रकाशत्वम्, एवं चान्योऽपि
स्वप्रकाशो वा स्यात् अन्यथा वा, स्वप्रकाशत्वे
प्रथमस्यैव तथाभाव उच्यताम्, अनेनापि कोऽर्थः,
अन्यथात्वे तस्यापि जाड्यापत्तिः, इति प्रकाशत्वात्त-
त्प्रकाशनाय प्रमात्रन्तरापेक्षायामनवस्थापत्तिः, इति
सर्वेषामेव अप्रकाशात्मत्वान्न किंचिदपि प्रकाशेत,
इति - सर्वमिदमन्धं स्यात् ॥६॥
तदाह
संवित्तत्त्वं स्वप्रकाश-
मित्यस्मिन्किं नु युक्तिभिः ।
पं० २ ख० पु० अजडस्तद्द्वयं प्रकाशेति पाठः ।
पं० ७ क० पु० स्वप्रकाशकः स्यादिति पाठः ।
पं० ८ क० पु० तथा उत्पद्यतामिति ख० पु० भाव उच्यतामिति पाठः ।
२
प्रकाशेत इति ॥१०॥
१० श्रीतन्त्रालोकः ।
तदभावे भवेद्विश्वं
जडत्वादप्रकाशकम् ॥१०॥
किं नु युक्तिभिरिति-बह्वीभिर्युक्तिभिर्न किंचित्प्र-
योजनमित्याह, एकैव हि युक्तिरियं सर्वातिशायिनी-
यत्संविदः स्वप्रकाशत्वं यदि न स्यात्, न किंचिदपि
प्रकाशेत इति ॥१०॥
ननु यदि नाम अत्र न बाह्यः क्रियादिः प्रग-
ल्भते तदा गुरुज्ञानादि उपायतां भजताम् ? इत्या-
शंक्याह
यावानुपायो बाह्यः स्या-
दान्तरो वापि कश्चन ।
स सर्वस्तन्मुखप्रेक्षी
तत्रोपायत्वभाक्कथम् ॥११॥
यावानिति-नानाशास्त्रोपदिष्टः, सर्व इति-बाह्य
आन्तरो वा, तन्मुखप्रेक्षीति-संविदधीनसिद्धिरि-
त्यर्थः, यदपेक्ष्य हि यस्य सिद्धिरेवं भवति स कथं
तस्य उपायतां यायादिति भावः ॥११॥
पं० १६ क० घ० पु० यदपेक्षा हि यस्य सिद्धिरेव भवेत्स कथमिति पाठः।