तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 318, कुल 368 में से
संदर्भ में पढ़ें३०८ श्रीतन्त्रालोकः ।
परेषां विदुषामभ्यर्थना क्रियतां, यदत्र यथावस्त्वेव
बुद्ध्वा द्वेषो मा कार्यः ? इत्याशङ्क्याह
इह गलितमलाः परावरज्ञाः
शिवसद्भावमया अधिक्रियन्ते ।
गुरवः प्रविचारणे यतस्तद्-
विफला द्वेषकलंकहानियाच्ञा ॥३३३॥
इह द्वये पुरुषाः सन्ति - अनायातशक्तिपाता आ-
यातशक्तिपाताश्च, तत्र पूर्वेषां शतशोऽभ्यर्थिता-
नाम् एतदधिगमाय मनोऽपि न प्रसरति, इत्यत्र
अवधातव्यम्, द्वेषो माकार्यः इत्यभ्यर्थनाया असा-
मर्थ्यम् । अपरे च अनभ्यर्थिता अपि स्वयमेव एत-
दधिगमाय प्रवर्तन्ते इति तत्रापि एवमभ्यर्थनाया
वैयर्थ्यम् । तदाह 'द्वेषकलङ्कहानियाच्ञा' इति । आया-
तशक्तिपाताश्च कीदृशाः ? इत्याह गलितमलाः
इति, गलितं मलम् - अज्ञानं येषां ते तथाविधाः,
अत एव च परम् आदिमम् अनुत्तरम् अवरम् अन्त्यं
विसर्गं च ये जानते ते पराहंपरामर्शात्मकमन्त्रवी-
पं० ५ ग० पु० प्रविचारणे धियस्तदिति च पाठः ।