सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

३६ ताण्ड्यमहाब्राह्मणे

द्राह्मायणः-‘अश्वरथं चेद्दद्यात् पूर्वेणाग्नीध्रीयमवस्थाप्य पुर-
स्ताज्जपं जपित्वा दर्भमुष्टिनाश्वमुखानि सम्मृज्य द्वाभ्यां द्वाभ्याम-
श्वनामभ्यामेकैकस्याश्वोसीत्येतत्प्रभृतिभिरुदक्सँस्थमिति’ । पुर-
स्ताज्जपो देवस्यत्वेत्यादिस्तं जपित्वा प्रतिग्रहीता रथसम्बन्धिन-
श्चतुरोऽश्वान् चतुर्भिर्नामयुग्मैर्दक्षिणमश्वमारभ्य उदगपवर्गं मुखेषु
सम्मृज्यात् । पाठस्तु--
अ॒श्वो॑स्य॒त्यो॑सि मयो॑सि हयो॑सि वा॒ज्य॑सि स॒प्ति-
रर्व्वा॑गसि वृषा॑सि ॥ १ ॥
एतान्यष्टावश्वनामानि तेषांनिर्वचनं प्रदर्श्यते-अश्नोतेर्व्याप्तिकर्म्म-
णोऽश्वः हे अश्व त्वं शीघ्रं व्यापनशीलोऽसि, ‘अत्यः’ सततगाम्यसि, अत
सातत्यगमन इति धातुः, मयतिः शब्दकर्म्मा हेषाशब्दकार्यासि, हयो
गन्तासि हिगताविति धातुः, ‘वाजी’ वेगवान् तादृशस्त्वमसि, ‘सप्तिः’
सर्पणशीलः ‘अर्वाङ्’ गमनशीलस्तादृशोऽसि,ऋगताविति धातुः, अन्येभ्यो
ऽपि दृश्यन्त इति वनिप्,-‘वृषा’ वर्षणकारी सेचनसमर्थोसि ॥ १ ॥
अत्र सूत्रम्-‘आदित्यानामिति रथशिर आलभ्य जपेदिति आल-
म्भ उपस्पर्शः । पाठस्तु--
आ॒दि॒त्यानां॒ पत्मा॒न्विहि॒ नम॑स्तेस्तु मा मा॑ हिꣳसीः ॥२॥
एत्वान्विहीति शाखान्तरे पाठः । हेरथ ‘आदित्यानां’द्वादशसं-
ख्यानां प्रतिमासं दिवि सञ्चरतामरुणसूर्यादीनां यत् ‘पत्म्’पदं सङ्गमन-
मस्ति तत् ‘अन्विहि’ अनुगच्छ अप्रतिहतगतिर्भवेत्यर्थः, स्पष्टमन्यत्॥२॥
द्राह्मायणः-‘यद्रथ्याँस्याद्वायोरिति चर्मण्यं प्रतिगृह्णीयान्नक्षत्रा-
णामित्यस्थिमयँसूर्य्यस्येत्ययो लोहे हिरण्यञ्चेति’ तत्र च यद्रथ्यं रथं
चर्मलोहहिरण्यादिनिर्मितं स्थानं तत्र वायोरिति चर्मविकारं प्रतिगृ-
ह्णीयादस्थिमयं गजदन्तादिनिर्मितम्, अयो लोहे हिरण्यञ्चेति आयसं
ताम्रं सौवर्णञ्चेत्यर्थः । पाठस्तु--
वा॒योष्ट्वा॒ तेज॑सा प्रति॑गृह्णामि॒ नक्ष॑त्राणां त्वा॑ रू॒-
पेण॒ प्रति॑गृह्णामि॒ सूर्य्य॑स्य त्वा॒ वर्च॑सा प्रति॑गृह्णामि ॥३॥
चर्मगतदौर्गन्ध्यापनयनक्षमं वायोर्यदसाधारणं तेजः तेन चर्मण्यं
त्वां प्रतिगृह्णामि । अस्थिमयस्य धवलत्वेन नक्षत्राणां रूपेणेत्युक्तमयोम-
यादीनां तैजसत्वात् सूर्य्यस्य वर्चसेत्युक्तम् । स्पष्टमन्यत् ॥ ३ ॥
द्राह्मायणः-‘दक्षिणेन रथं गत्वा रथन्तरमसीति’ दक्षिणञ्चक्रमाल-

्णीया'दिति->प्रतिगृह्णीया'दिति श्रुत्यन्तरात् Yes,प्रतिगृह्णीया'दिति`!

Line 32 (footer number):
४
Wait, bottom line is ४ centered.
And then the digitization metadata footer: CC-0. ASI Srinagar Circle... (do not transcribe metadata).

  1. Reviewing line by line carefully:

    Top Header:
    प्रथमाध्याये सप्तमखण्डः । (centered) ३७ (right)
    Wait, in Markdown, let's just make it:
    प्रथमाध्याये सप्तमखण्डः । ३७

    Line 1:
    भेत वामदेव्यमसीत्यधिष्ठानं बृहदसीत्युत्तरञ्चक्रमित्यधिष्ठानं रथोऽपवे-
    Wait, what is before भेत? Is it भेत?
    Wait, look at the left margin of Line 1:
    भेत starts indented or is it the continuation from page 36?
    Page 36 ended mid-sentence!
    "... [आर]भेत वामदेव्यमसीत्यधिष्ठानं बृहदसीत्युत्तरञ्चक्रमित्यधिष्ठानं रथोऽपवे-"
    Yes, it is भेत!
    Wait, is it भेत or

३८ ताण्ड्यमहाब्राह्मणे
व्यावृत्यात्मानं देवतारूपेणात्मनि ध्यात्वेति हि-तस्य व्याख्यानम्, 'वैश्वा-
नरः' विश्वेषान्नराणां हितः एतदात्मक उद्गाता 'प्रत्नथा' प्रत्न इव पुरा-
ण इवातीतेषु युगेष्विवास्मिन्नपि युगे 'नाकं' दुःखरहित्येन सुखकरं
रथं 'आरुह' आरोहेति छन्दसि लुङ् लङ्-लिट इति वर्त्तमाने लुङ्
हस्तृदृहेभ्य इति चलेः परटादेशः । 'दिवो' द्योतमानस्य 'पृष्ठे' उपरिभागे
'सुन्मन्मभिः' शोभनस्तुतिकैः स्तोतृभि'र्मन्दमानः' स्तूयमानः मदि स्तु-
तौ कर्मणि यकि प्राप्ते व्यत्ययेन शप् । किञ्च स वैश्वानरात्मोद्गाता
पूर्व्ववत्पूर्ब्बेषां यजमानानामिव तत्र तस्यैवेति षष्ठ्यर्थे वतिः । 'जन्तवे'
जनाय अस्मा अपि यजमानाय 'समानं' सदृशं यावदन्येभ्यः पूर्व्वं
प्रादात् तत्परिमाणं धनं स्तोत्रेण जनयन्नुत्पादयन् अनित्यमागमशा-
सनमिति तुमभावः 'अय्मन्' अय्मनि गमनसाधने रथे उपविष्टो 'जागृ-
विः' जागरूकः सन् 'पर्यैति' तेन रथेन परितो गच्छति ॥ ६ ॥
अत्र सूत्रम्--'आरुह्य जपेत् गिदैषत' इति । पाठस्तु -
गिदैष ते रथ एष वामश्विना रथोरिष्टो विश्व-
भेषजः ॥ ७ ॥
गिदो नाम रथपालकः कश्चिद्देवः, हे गिद ! 'ते' त्वदीयस्तस्मादेनं
पालयेत्यभिप्रायः । हे अश्विना अश्विनौ ! एष रथः 'वां' युवयोः सम्बन्धी
अतोयं अरिष्टो अहिंसितोऽभग्नः 'विश्वभेषजो' विश्वैः सर्व्वैर्भेषदयैर्यु-
क्तश्च भवतु ॥ ७॥
अत्र सूत्रम्-'कृशेति सव्यानभीशूनायच्छेदिति'। अभीशवोऽश्वब-
न्धनरज्जवः ।
कृशानो सव्यानायच्छ ॥ ८ ॥
कृशानुर्नाम सव्यपार्श्वस्थानां रश्मीनां धारयिता, हे कृशानो !
'सव्यान्' वामभागस्थितान् अश्वबन्धकान् पाशान् 'आयच्छ' आकर्षेण
नियच्छ ॥ ८ ॥
अत्र सूत्रम्-'दासेति दक्षिणानवगृह्णीयादिति' ।
दा

प्रथमाध्याये अष्टमखण्डः । ३९
अथ अष्टमः खण्डः ।
अत्र सूत्रम्—‘सर्वासां देवस्यत्वेति पुरस्ताज्जप इति’ सर्वासां दक्षि-
णानां प्रतिग्रहे प्रथमतॊ देवस्यत्वेति मन्त्रं जपेत् । पाठस्तु—
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो ह-
स्ताभ्यां प्रतिगृह्णामि ॥ १ ॥
‘सवितुः’ प्रेरकस्य देवस्य ‘प्रसवे’ प्रेरणे ऽनुज्ञायां सत्यां ‘त्वा’ त्वां
दक्षिणां प्रतिगृह्णामि । तत्र बाहू च हस्तौ च साधनमंसमणिबन्धनयोर्म-
ध्यवर्त्ती दीर्घो भागो बाहुः, मणिबन्धस्याग्रेऽवस्थितः साङ्गुलिर्भागो
हस्तः, अश्विनो बाह्वोरभिमानिदेवो हस्तयोस्तु पूषा, ततस्तयोस्तत्स-
म्बन्धोऽभिधीयते ॥ १ ॥
अत्र सूत्रम्—‘वरुणस्त्वेति यथादेवतं प्रतिगृह्णीयादिति’ यस्य द्रव्य-
स्य या देवता प्रतिग्रहमन्त्रे पठिता तामादिश्य तद्द्रव्यं प्रतिगृह्णीयाद्वरु-
णायश्वमग्नये हिरण्यं वायवे मृगमित्यादि । पाठस्तु—
वरुणस्त्वा नयतु देवि दक्षिणे वरुणायऽश्वं तेना-
मृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिगृहीत्रे ॥२॥
हे दक्षिणे एतत्संज्ञे देवि ! ‘त्वा’ त्वां ‘वरुणो’ देवो गृहं ‘नयतु’ वरु-
णप्रीत्यर्थमश्वमहं प्रतिगृह्णामि तेनानुगृहीतेनाश्वेनामृतत्वं देवत्वमहं
‘अशीय’ प्राप्तवान् ‘दात्रे’ यजमानाय ‘वयो’ऽन्नं भूयान्मह्यं प्रतिगृहीत्रे
‘मयः’ सुखं भूयात्, ‘यद्वै शिवं तन्मय’ इति श्रुत्यन्तरम् ॥ २ ॥
अश्वप्रतिग्रहे मन्त्र उक्तः गोप्रतिग्रहे मन्त्रमाह--
वरुणस्त्वा नयतु देवि दक्षिणे रुद्राय गां तयामृतत्व-
मशीय वयो दात्रे भूयात् मयो मह्यं प्रतिगृहीत्रे ॥ ३ ॥
रुद्रप्रीत्यर्थं ‘गां’प्रतिगृह्णामि तया रुद्रानुगृहीतया गवा रुद्रस्य पशु-
पतित्वात् गोस्तत्सम्बन्धोऽन्यत्पूर्ववत् ॥ ३ ॥
अथाजप्रतिग्रहे मन्त्रमाह—
वरुणस्त्वा नयतु देवि दक्षिणेऽग्नयेऽजम् ॥ ४ ॥
अस्मिन्मन्त्रे तेनामृतत्वमित्यादेरुत्तरभागस्यानुषङ्गो द्रष्टव्यः । प्र-
जापतिमुखादग्नेरजस्य सहोत्पत्तेस्तत्सम्बन्धः । अन्यत्पूर्ववत् ॥ ४ ॥
अथ हिरण्यस्य प्रतिग्रहे मन्त्रमाह--
अग्नये हिरण्यम् ॥ ५ ॥

४० ताण्ड्यमहाब्राह्मणे
अस्मिन्मन्त्रे वरुणस्त्वेत्यादेः पूर्वभागस्य तेनेत्यादेः पूर्वभागस्यानु-
षङ्गः कार्य्यः। हिरण्यस्याग्निरेतोरूपत्वात्सम्बन्धः॥ ५॥
अजायाः प्रतिग्रहे मन्त्रमाह—
अग्नीषोमाभ्यामजाम्नामृतत्वमशीय वयो दात्रे
भूयान्मयो मह्यं प्रतिग्रहीत्रे ॥ ६ ॥
अस्मिन्मन्त्रे वरुणस्त्वेत्यादेः पूर्वभागस्यैवानुषङ्गः, 'आग्नेयी वा एषा
यदजेति' श्रुत्यन्तरादजाया अग्नेः सम्बन्धः, लताभूतस्य सोमस्यौष-
धिषु सारभूतत्वेनाजायोपजीव्यत्वात्तत्सम्बन्धः, तथाचोक्तं- 'श्यामला-
स्तास्तु निष्पन्ना सोमाख्यछागभोजन' मिति ॥ ६ ॥
अन्नस्येति मन्त्रो लिङ्गादन्नप्रतिग्रहे विनियोज्यः, सूत्रकारस्तु अवेः
प्रतिग्रहेऽयं मन्त्रोऽधिक इति दर्शयति, अन्नस्येति प्राग् वारुणादवेः
प्रतिग्रहे वरुणस्त्वेत्यतः पूर्वं वायं मन्त्रो जप्यः। तत्पाठस्तु —
अन्नस्यान्नपतिः प्रादादनमीवस्य शुष्मिणो नमो
विश्वजनस्य क्षामाय भुञ्जति मा मा हिंसीः ॥ ७ ॥
अन्नस्येति कर्मणि शेषविवक्षायां षष्ठी, अन्नस्य पतिरन्नानां पालयि-
ता 'अन्नस्या'न्नं मह्यं 'प्रादात्' दत्तवान् अन्नं विशेष्यते 'ऽनमीवस्या'मीवा
रोगः तद्रहितस्यारोग्यकरस्य 'शुष्मिणो' बलवतो बलहेतुभूतस्येमेपि
कर्माणि षष्ठ्यौ, तस्मा अन्नपतये अग्नये नमोऽस्तु। कथम्भूताय 'विश्व-
जनस्य' सर्वप्राणिजातस्य 'क्षामाय' क्षेमकारिणे, क्षैजैक्षै क्षये, तस्मात्
क्रोधिकरणे चेति कर्तरि निष्ठा क्षायो म इति तकारस्य मकारः, ईदृशा-
ग्नये इत्यर्थः। हे भुञ्जति उपभोग्यत्वेन पालयित्रि! तदुपभोक्तारं 'मां'
मा 'हिंसीः' ॥ ७ ॥
अवेः पश्वन्तरोपभोगसाधनत्वेनान्नत्वेन संस्तावकन्तत्प्रतिग्राहम-
न्त्रैकदेशमुक्त्वा तच्छेषमन्त्रमाह--
वरुणस्त्वा नयतु देवि दक्षिणे त्वष्ट्रेऽविं तया ऽमृत-
त्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे ॥ ८ ॥
'त्वष्टा हि रूपाणां कर्त्ता त्वष्टा वै पशूनां मिथुनानां रूपकृदिति'
श्रुत्यन्तरात् नानारूपा अवयो भवन्तीति त्वष्टुरवेश्च सम्बन्धः, शिष्टं
पूर्ववत् ॥८॥
अत्र सूत्रम्--'ग्रास्त्वा कृन्तन्निति वसनस्येति' वस्त्रप्रतिग्रहे ग्रास्त्वा
कृन्तन्निति प्राग्वारुणात्पुरस्ताज्जपाद्वा जपेद् यदि तत् वस्त्रमतन्तुनि·

प्रथमाध्याये अष्टमखण्डः । ४१
र्भितं वल्कलादिजं स्यात्तत्रायं मन्त्रो न प्रयोज्यः । तत्र सूत्रम्-'तदुदस्ये-
दतान्तव' इति । पाठस्तु--
ग्रास्त्वाऽकृन्तन्नपसोऽतन्वत वयित्र्योऽवयन् ॥ ९ ॥
गच्छन्ति पुमांस एनामिति ग्रास्त्रियः, हे वस्त्र ! 'त्वा'त्वां 'अकृन्तन्'
निष्पादनानन्तरं कर्तनेन छेदनेन सम्पादितवन्तः 'अपसो'ऽपः कर्म
तद्वन्तो वा तन्तुग्रथनकुशलाः पुरुषा 'अतन्वत' तन्तवः पटस्य दीर्घा-
णि सूत्राणि तान्यकुर्वन्नित्यर्थः । ता 'वयित्र्यः' वेञ् तन्तुसन्ताने वय-
नकर्त्र्यो योषितो 'अवयन्' तिरश्चीनानि सूत्राणि समयोजयन् ॥ ९ ॥
अथ वस्त्रप्रतिग्रहमन्त्रविशेषः-
वरुणस्त्वा नयतु देवि दक्षिणे बृहस्पतये वासस्तेना-
मृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे ॥१०॥
स्पष्टोऽर्थः ॥ १० ॥
आसनशय्यादेरचेतनवस्तुनः प्रतिग्रहे मन्त्रमाह--
वरुणस्त्वा नयतु देवि दक्षिणे उत्तानायाङ्गिरसा-
याप्राणत् तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं
प्रतिग्रहीत्रे ॥ ११ ॥
'इयं वा उत्तान आङ्गिरस' इति श्रुत्यन्तरात्, उत्तान आङ्गिरस इति
शब्दाभ्यामुच्यते, ऊर्ध्वमुखत्वादुत्तानोऽङ्गिरसस्तपसा लब्धत्वादाङ्गि-
रसो लोकाभिप्रायेण पुंल्लिङ्गता, अप्राणतो भूमेश्च निष्कयत्वसाम्या-
त्सम्बन्धोऽन्यत्पूर्ववत् ॥ १२ ॥
उष्ट्रप्रतिग्रहे मन्त्रमाह--
वरुणस्त्वा नयतु देवि दक्षिणे पूष्ण उष्ट्रम् ॥ १२ ॥
तेनेत्यादिवाक्यशेषस्यानुषङ्गः ॥ १२ ॥
मृगप्रतिग्रहमन्त्रमाह--
वायवे मृगं तेनामृतत्वमशीय वयो दात्रे भूयान्मयो
मह्यं प्रतिग्रहीत्रे ॥ १३ ॥
वरुणस्त्वेति पूर्वभागस्यानुषङ्गः, मृगस्य शीघ्रगामित्वात् तद्वा-
हनत्वाद्वायुसम्बन्धः, उष्ट्रादीन्यपि सर्व्वदक्षिणे देयानि ॥ १३ ॥
पुरुषहस्तिवराहव्रीहीणां प्रतिग्रहे चतुरो मन्त्रानाह—
वरुणस्त्वा नयतु देवि दक्षिणे प्रजापतये पुरुषं प्र-

जापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहिय-
वाꣳस्तैरमृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रति-
ग्रहीत्रे ॥ १४ ॥
अत्र पुरुषमन्त्रे तेनेत्याद्युत्तरभागानुषङ्गः, हस्तिमन्त्रे पूर्व्वोत्तरयोर्द्व-
योरप्यनुषङ्गः, तथा वराहमन्त्रे, व्रीहियवमन्त्रे तु पूर्व्वभागस्यैवानुषङ्गः। यत्र
पुनर्व्रीहियवयोरक एव दीयते तन्त्र मन्त्रो विभज्य प्रयोक्तव्यः-प्रजापतये
व्रीहीन्। प्रजापतये यवान् इति। प्रजापतिना सृष्टत्वात्पुरुषादीनां तत्स-
म्बन्धः ॥ १४ ॥
तिलमाषप्रतिग्रहे मन्त्रमाह--
वरुणस्त्वा नयतु देवि दक्षिणे क्षेत्रपतये तिलमाषा-
स्तैरमृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्र-
हीत्रे ॥ १५ ॥
तिलमाषादीनां क्षेत्रजन्यत्वात्तत्स्वामिना सम्बन्धः ॥ १५ ॥
अश्वगर्दभसङ्करजस्य प्रतिग्रहे मन्त्रमाह-
वरुणस्त्वा नयतु देवि दक्षिणे सवित्रेऽश्वतरं वाऽश्व-
तरीं वा तयाऽ मृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं
प्रतिग्रहीत्रे ॥ १६ ॥
प्रेरकस्य सवितुः प्रेरणाद्विलक्षणमातापितृभ्यां विजातीयस्याश्व-
तरस्योत्पत्तिः ॥ १६ ॥
अत्र सूत्रम्-‘तेन क इदमित्युपरिष्टाज्जप’ इति, यस्मिन्मन्त्रे तेनामृ-
तत्वमित्यादिप्रतिगृहीत्र इत्यन्त उत्तरभागो नाम्नातस्तस्मिन्मन्त्रे तं
भागमनुषज्य जपेत् । पाठस्तु-
क इदं कस्मा अदात्कामः कामायादात्कामो दाता
कामः प्रतिग्रहीता कामः समुद्रमाविशत्कामेन त्वा प्र-
तिगृह्णामि कामैतत्ते ॥ १७ ॥
कशब्दाभिधेयः प्रजापति'रिदं' दक्षिणाद्रव्यं 'कस्मै' प्रजापतये 'अदात्'
दत्तवान् प्रजापतिरेव सर्व्वात्मा दानप्रतिग्रहयोः कर्त्तेति भावः। एवमनेन
मन्त्रेण स्मृते सति दातृप्रतिग्रहीत्रोः फलं पापराहित्यञ्च भवति । त-
था 'कामः कामाय' दातृस्वर्गादिफलकामनया यजमानो दातृऋत्विजश्च
धनकामनया प्रतिगृह्णन्ति, अत उभयत्र कामस्यैव प्रयोजकत्वं प्रति-

[Header] प्रथमाध्याये नवमखण्डः । ४३

ग्रहीतृत्वं च कामस्यैवेत्येतल्लोके प्रसिद्धमिति कामो दाता कामः
प्रतिग्रहीता इत्युच्यते, नहि निष्कामे परिव्राजकादौ तदस्ति । स च
कामः ‘समुद्रमाविशत्’मां परित्यज्य यत्र क्वापि गच्छतु इत्यर्थः । क-
स्यावस्थितौ तेन कामेन हेतुना त्वां प्रतिगृह्णामि । ततो हे काम ! एत-
द्धनं ‘ते’ तवैव तिष्ठतु नात्मानं मे स्पृशत्वित्यर्थः । सोऽयं मन्त्रोऽध्वर्यु-
शाखायामाम्नातस्तदीयब्राह्मणेनैव, व्याख्यातश्च-क इदं कस्मादि-
त्याह प्रजापतेर्वै कः स प्रजापतये ददाति कामः कामायेत्याह कामेन
हि ददाति कामेन प्रतिगृह्णाति कामो दाता कामः । प्रतिग्रहीतेत्याह
कामो हि दाता कामः प्रतिग्रहीता कामः समुद्रमाविशेत्याह समुद्र इव
कामयते नहि कामस्यान्तोस्ति नहि समुद्रस्य, कामेन त्वा प्रतिगृह्णामी-
त्याह येन कामः प्रतिगृह्णाति स एवैनममुष्मिंल्लोके दक्षिणामिच्छति
न प्रतिग्रहीतुरिच्छति ॥ १७ ॥
इति ताण्ड्यमहाब्राह्मणे प्रथमाध्यायस्य अष्टमः खण्डः ।

अथ नवमः खण्डः ।
अत्र सूत्रम्—‘रश्मिरसीत्येतावनुको स्तोमभागैस्तैः पृथगनुपूर्वं-
ऽस्तोत्रान्यनुमन्त्रयेत ब्रह्मन् स्तोष्यामः प्रशस्तेरित्युक्त’ इति । रश्मि-
रसीत्येकोनुवाकस्तन्तुरसीत्यपरस्तयोरनुवाकयोराम्नाता ये मन्त्रा-
स्तेषां स्तोमविभाग इति नामधेयम् । त्रिवृदादिस्तोमान् भजन्त्येते मन्त्रा
इति तच्छब्दव्युत्पत्तिः । उद्गातारो ब्रह्माणं प्रत्येवमनुज्ञां प्रार्थयन्ते-ब्रह्मन्
स्तोष्यामः प्रशास्तरिति । इदानीं बहिष्पवमानादीन्यतिरिक्तस्तोत्रपर्य-
न्तानि यानि त्रयस्त्रिंशतः स्तोत्राणि सन्ति तानि तैःस्तोमभागैस्तावत्-
संख्यैः क्रमेण ब्रह्मा पृथगनुमन्त्रयेत् । आपस्तम्बोऽप्याह—‘ब्रह्मन् स्तो-
ष्याम इत्युच्यमाने देवसवितरेतत्त्वे प्राहेत्यनुद्रुत्य रश्मिरसि क्षयाय
क्षयन् जिन्व स्तुतेति स्तौति, सर्व्वस्तोत्राणामेष कल्प उत्तरमुत्तरं स्तो-
मभागानां दधाति, द्वादशाग्निष्टोमे पञ्चदशोक्थे षोडशषोडशिनि सप्त-
दशवाजपेये एकोनत्रिंशदतिरात्रे त्रयस्त्रिंशदप्तोर्याम्नि इति । तत्रायं
प्रथमस्तोमभागमन्त्रः--
रश्मिरसि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता
बृहस्पतये स्तुत ॥ १ ॥

४४ ताण्ड्यमहाब्राह्मणे
तैत्तिरीयाणां पञ्चमकाण्डोक्तब्राह्मणे रश्मिरिति मन्त्राणामादित्या-
दिसृष्टिहेतुत्वाभिधानादादित्यादिपरतया रश्म्यादिशब्दा व्याख्येयाः ।
तच्च ब्राह्मणमुत्तरत्रोदाहरिष्यते । हे आदित्य ! त्वं ‘रश्मिरसि’ रश्मि-
युक्तोसि । देवा यस्मिन् क्षियन्ति निवसन्ति इति स्तोत्रसम्बन्धः क्षय-
स्तस्मै क्षयाय तत्सङ्घाय तत्प्राप्त्यर्थं हे आदित्य त्वां स्मरामि इति
शेषः । ततः ‘क्षयं’ देवसङ्घं ‘जिन्व’ प्रीणय क्षयशब्दस्य देवविषयत्वं तै-
त्तिरीयास्तृतीयकाण्डोक्तब्राह्मणे समामनन्ति-‘रश्मिरसि क्षयाय त्वा क्षयं
जिन्वेत्याह देवे क्षय इति । यद्वा बहिष्पवमानादिकंस्तोत्रमेव सम्बोध्य
हे स्तोत्र त्वं रश्मिर्वत्सम्बन्धकोसि यज्ञस्य तादृशं त्वां ‘क्षयाय’ यजमान-
स

प्रथमाध्याये नवमखण्डः । ४५
अथ पञ्चमः--
प्रतिधिरसि पृथिव्यै त्वा पृथिवीं जिन्व सवितृप्रसू-
ता बृहस्पतये स्तुत ॥ ५ ॥
हे स्तुतिविशेष ! त्वं 'प्रतिधिः' प्रतिमुखं धीयते प्रातस्सवनसमां-
प्यर्थमिति प्रतिधिस्तादृशोसि, अन्यत्पूर्ववद्योज्यम् ॥ ५ ॥
अथ षष्ठः--
विष्टम्भोसि वृष्ट्यै त्वा वृष्टिं जिन्व सवितृप्रसूता
बृहस्पतये स्तुत ॥ ६ ॥
हे माध्यन्दिनसवनपवमान त्वं ! 'विष्टम्भो' यज्ञस्य विशेषेण स्तम्भ-
यिता धारकोसि तं त्वां 'वृष्ट्यै' यज्ञमूलभूतायै प्रयोजयामि त्वं च
वृष्टिर्यथा भवति तथा तां प्रीणय ॥ ६ ॥
अथ सप्तमः--
प्राचोस्यहे त्वाहर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत ॥७॥
हे स्तोत्रविशेष ! त्वं 'प्राचः'ऽप्रकर्षेण रक्षकोसि त्वामहेऽहरर्थे प्रयोज-
यामि त्वञ्चाह 'जिन्व'प्रीणय ॥ ७ ॥
अथाष्टमः--
अन्वासि रात्र्यै त्वा रात्रिञ्जिन्व सवितृप्रसूता बृह-
स्पतये स्तुत ॥ ८ ॥
हे स्तोत्रविशेष ! त्वं 'मन्वा'ऽनुगन्तासि अनुपूर्वाद्धातेर्वा एतद्रूपं त्वां
'रात्र्यै' रात्र्यर्थे प्रयोजयामि त्वं च रात्रिं प्रीणय, इत्थमष्टभिः स्तोमभा-
गैरादित्यानां सृज्यमाना प्रीतिः प्रतिपादिता ॥ ८ ॥
अतःपरमग्निष्टोमस्य चत्वारि स्तोत्राणि तदीयैश्चतुर्भिः स्तोम-
भागैः प्रजापतिना सृज्यमानान् वसून् रुद्रानदित्यान् प्रीणयति ।
अथ नवमः--
उशिगसि वसुभ्यस्त्वा वसून् जिन्व सवितृप्रसूता
बृहस्पतये स्तुत ॥ ९ ॥
हे स्तोत्रविशेष ! त्वं 'उशिक्' कमनीयोसि त्वं 'वसुभ्यो' वसूनां प्री-
त्यर्थे त्वां प्रयोजयामि त्वं च वसून् प्रीणय ॥ ९ ॥
अथ दशमः--
प्रकेतोसि रुद्रेभ्यस्त्वा रुद्राञ्जिन्व सवितृप्रसूता बृह-
स्पतये स्तुत ॥ १० ॥

४६ । ताण्ड्यमहाब्राह्मणे
हे स्तोत्रविशेष ! त्वं ‘प्रकेतः’ प्रकृष्टं केतो ज्ञातासि, अन्यत्पूर्व्ववद्यो-
ज्यम् ॥ १० ॥
अथैकादशः--
सुदीतिरस्यादित्येभ्यस्त्वादित्याञ्जिन्व सवितृप्रसूता
बृहस्पतये स्तुत ॥ ११ ॥
हे स्तुतिविशेष ! त्वं ‘सुदीतिः’ सुदीप्तिरसि त्वामादित्यानां प्रीत्यर्थं
प्रयोजयामि त्वं चादित्यान् प्रीणय ॥ ११ ॥
अथ द्वादशः--
ओजोसि पितृभ्यस्त्वा पितॄञ्जिन्व सवितृप्रसूता
बृहस्पतये स्तुत ॥ १२ ॥
हे स्तोत्र ! त्वं ‘ओजः’ सारभूतोसि सारो ह्यग्निष्टोमस!म त्वां पितॄणां
प्रीत्यर्थं प्रयोजयामि त्वञ्च पितॄन्प्रीणयेति ॥ १२ ॥
अथ तोण्ड्यमहाब्राह्मणे प्रथमाध्यायस्य नवमः खण्डः ।
अथ दशमः खण्डः ।
अथ त्रयोदशः—
तन्तुरसि प्रजाभ्यस्त्वा प्रजा जिन्व सवितृप्रसूता
बृहस्पतये स्तुत ॥ १ ॥
हे स्तुतिविशेष ! त्वं ‘तन्तुः’ संतानहेतुरसि अतस्त्वां प्रजार्थं प्रयो-
जयामि त्वं च प्रजा प्रीणय ॥ १ ॥
अथ चतुर्दशः--
रेवदस्योषधिभ्यस्त्वौषधीर्जिन्व सवितृप्रसूता बृह-
स्पतये स्तुत ॥ २ ॥
हे स्तोत्र ! त्वं ‘रेवत्’ रयिमत् धनयुक्तं धनप्रदमसि अत ओषध्यर्थं
त्वां प्रयोजयामि ॥ २ ॥
अथ पञ्चदशः--
पृतनाषाडसि पशुभ्यस्त्वा पशूञ्जिन्व सवितृप्रसूता
बृहस्पतये स्तुत ॥ ३ ॥
हे स्तुतिविशेष! त्वं ‘पृतनाषाट्’ पृतनानां शात्रवीनां सेनानां सो-

प्रथमाध्याये दशमखण्डः। ४७
ढाभिभूतासि अतः पशुभ्यः शत्रुसम्बन्धिभ्यस्तल्लाभार्थं त्वां प्रयोज-
यामि त्वं च तान् पशून् मह्यं प्रदाय प्रीणय ॥ ३ ॥
अथ षोडशः--
अभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रञ्जिन्व सवितृप्रसू-
ता बृहस्पतये स्तुत ॥ ४ ॥
हे षोडशिस्तोत्र! त्वं 'अभिजित्' अभिजयहेतुरसि तथा युक्तग्रा अभि-
भवार्थं युक्ता ग्रावाणो येन स तथोक्तः तादृशश्चासि सर्व्वदा सोमब-
द्धासीत्यर्थः, अतस्त्वामिन्द्रायेन्द्राथं ग्रयोजयामि त्वं चेन्द्रं प्रीणय ॥ ४ ॥
अथ सप्तदशः--
अधिपतिरसि प्राणाय त्वा प्राणाञ्जिन्व सवितृप्रसू-
ता बृहस्पतये स्तुत ॥ ५ ॥
हे स्तोत्रविशेष ! त्वं 'अधिपतिः' रात्रिपर्यायगतानां स्तोत्राणां मु-
ख्योऽ

४८ ताण्ड्यमहाब्राह्मणे
अथैकविंशाद्याश्चत्वारो मन्त्राः--
त्रिवृदसि त्रिवृते त्वा सवृदसि सवृते त्वा प्रवृद-
सि प्रवृते त्वा ऽनुवृदस्यनुवृते त्वा सवितृप्रसूता बृहस्प-
तये स्तुत ॥ ९ ॥
मध्यरात्रिपर्यायगतानां चतुर्णांऽ स्तोत्राणामनुमन्त्रणमन्त्रा एते
सवितृप्रसूता इत्यादि सर्वशेषः । हे स्तुतिविशेष ! त्वं त्रिभिः पञ्चकैर्नि-
वृत्तत्वेन 'त्रिवृदसि'त्वां 'त्रिवृते' स्तोमाय प्रयोजयामि, 'सवृत्' अन्यैः
सह वर्त्तत इति सवृत्, प्रवर्त्तते त्वकार्यं प्रति 'प्रवृत्' मध्यमपर्यायग-
तेभ्यस्त्रिभ्यः स्तोत्रेभ्यो ऽनु पश्चात् वर्त्तते इत्यनुवृत् । शिष्टं स्पष्टार्थम् ॥९॥
अथोत्तमपर्यायस्य स्तोत्रचतुष्टयस्यानुमन्त्रणाश्चत्वारो मन्त्राः--
निरोहोसि निरोहाय त्वा सङ्ग्रोहोसि सङ्ग्रोहा-
य त्वा प्ररोहोसि प्ररोहाय त्वाऽनुरोहोऽस्यनुरोहाय त्वा
सवितृप्रसूता बृहस्पतये स्तुत ॥ १० ॥
उत्तमपर्यायस्य यज्ञारोहणसामर्थ्यात्तस्य स्तोत्राणि रोह इत्युच्यते ।
हे स्तुतिविशेष ! त्वं 'निरोहोसि' नितरां रोहहेतुरसि, अतो नितरां रो-
हार्धं त्वां प्रयोजयामि । एवमन्येष्वपि योजना कार्या । पदार्थस्तु सं-
रोहः सम्यक् रोहणहेतुः, अनुरोहो ऽनु पश्चात् चरमभावी सन् रोहण-
हेतुरिति ॥ १० ॥
अथ सन्धिस्तोत्रस्य त्रिदेवत्यत्वात् त्रेधाऽनुमन्त्रणं कर्त्तव्यं तन्म-
न्त्रोऽयम्-
वसुकोऽसि वस्यष्टिरसि वेषश्रीरसि सवितृप्रसूता
बृहस्पतये स्तुत ॥ ११ ॥
हे सन्धिस्तोत्र ! त्वं 'वसुको' वासयिता अग्निस्तादृशोसि । तथा
'वस्यष्टिः' वसनेन तमसां विवासनेनाश्नुते व्याप्नोति विश्वमिति व-
स्यष्टिः उषास्तादृशोसि । 'वेषश्रीः' वेषो रूपं तद्वन्तावश्विनौ तावेव
वेषश्रीः वेषस्य श्रयितासि ॥ ११ ॥
आक्रमोसीत्याद्याः अप्तोर्यामस्य यज्ञस्यातिरिक्तस्तोत्राणाञ्चतुर्णां
मनुमन्त्रणमन्त्राः । तेषां पाठस्तुः--
आक्रमोस्याक्रमाय त्वा संक्रमोसि संक्रमाय त्वो-

प्रथमाध्याये दशमखण्डः । ४९
त्क्रमोस्युत्क्रमाय त्वोत्क्रान्तिरसि उत्क्रान्त्यै त्वा सवितृ-
प्रसूता बृहस्पतये स्तुत ॥ १२ ॥
हे स्तोत्रविशेष ! त्वम् 'आक्रमः' यज्ञफलस्याक्रमणाय त्वां योजयामि,
स्थानात्स्थानान्तरप्राप्तिः संक्रमस्तद्धेतुरसि, उर्ध्वं स्वर्गं प्रत्युत्क्रमणमु-
त्क्रमः तद्धेतुरसि, उत्क्रमणरूपा या क्रिया सा उत्क्रान्तिः तद्रूपोसि,
अत उत्क्रान्त्यै स्वर्गं प्रत्युत्क्रमणार्थं त्वां योजयामि । गतमन्यत् ।१२-१-१०
अत्र विनियोगसङ्ग्रहः--
ब्राह्मणप्रथमाध्याय मन्त्राणां विनियोजनम् ।
अत्रादौ वृत उद्गाता महदित्यादिकं जपेत् ॥ १ ॥
देवा गृहाद्विनिर्गत्य दूरङ्गत्वा विहाय जपेत् ।
यागभूम्यन्तिके बद्ध्वा पितरः पितुरुपस्थितिम् ॥ २ ॥
नृमयूपोच्छ्रितो

५० ताण्ड्यमहाब्राह्मणे
स्याद्गार्हपत्यो जोसीति सगरा दक्षिणाग्निके ॥ १३ ॥
कव्यो दक्षिणवेद्यन्ते पातमा सर्व्वसंहतौ ।
चतुर्थखण्डे मन्त्राणां विंशतिः समुदीरिताः ॥ १४ ॥
ऋतमृज्याद्वारबाहू मामेत्यन्तः प्रवेशनम् ।
नम इत्युपविश्याथ श्येनश्चमसवीक्षणम् ॥ १५ ॥
इन्दोद्विर्भक्षयेदूर्ध्वो मुखच्छिद्राणि संस्पृशेत् ।
सोमरा हृदयस्पर्शः सोमगीर्नाभिमामृशेत् ॥ १६ ॥
चमसं पूरयेदाप्याऽवमैरद्याग्निमन्त्रतः ।
दीक्षायै स्तोमभागोयं भवेन्मन्त्रचतुष्टयात् ॥ १७ ॥
वायुर्माध्यन्दिने योगो वृषकः स्वामिवाचनम् ।
इन्दो भक्षस्तोमयोगः सूर्य्योयु सवने भवेत् ॥ १८ ॥
स्वरोसि वाचयेदिन्दो कुर्य्याच्चमसभक्षणम् ।
आयुः सौम्यं चरुं पश्येद्यन्मे तन्न विकल्प्यते ॥ १९ ॥
येन सौम्यं च संस्पृष्टाङ्गुलिभ्यामक्षिमार्जनम् ।
पञ्च विंशतिमन्त्रा स्युः पञ्चमे खण्ड ईरिताः ॥ २० ॥
ऐन्द्रमन्त्रे सोमभक्ष स्तुतस्य स्वामिवाचनम् ।
पृष्ठसन्धौ सोमभक्षं ऋतस्य स्तोममोचनम् ॥ २१ ॥
सोमे हि निर्गमः सूर्य्यस्योपस्थानं सुभूरिति ।
अपां द्वाभ्यामाहुती द्वे धानाभक्षां हारियोजने ॥ २२ ॥
देवाष्टौ शकले होमा अप्सुधौ चमसं स्पृशेत् ।
मधु पाणिमुपघ्राय चमसोत्सेचनं शमत् ॥ २३ ॥
कामाभ्यावर्त्तवेदेतत् ऊर्ग्गस्तदुरसि क्षिपेत् ।
प्राणेतिमुखसंस्पर्शो दधीति दधि भक्षयेत् ॥ २४ ॥
चतुर्विंशतिमन्त्रास्तु षष्ठे खण्डे प्रकीर्तिताः ।
साश्वं रथं दक्षिणार्थे प्रतिगृह्णाति चेत्तदा ॥ २५ ॥
मृज्यादश्वमुखाभ्यश्वनामयुग्मचतुष्टयम् ।
रथोर्ध्वस्पर्श आदित्या वायोश्चर्म्मप्रतिग्रहे ॥ २६ ॥
अस्त्रप्रतिग्रहे नक्ष सूर्य्य लोहप्रतिग्रहे ।
रथेति दक्षिणे चक्रे स्पर्शो वामेत्याधिष्ठितौ ॥ २७ ॥
बृहदित्युत्तरे चक्रे चक्रावंकेति संस्पृशेत् ।
वैश्वा रथं समारोहेद्भिदेत्यत्र स्थितो जपेत् ॥ २८ ॥
कुशा यच्छेत्सव्यरज्जुं स्पृशेद्व्यासेति दक्षिणाम् ।

द्वितीयाध्याये प्रथमखण्डः । ८१
मन्त्रास्तु सप्तमे खण्डे षोडशेत्यवगम्यताम् ॥ २९ ॥
पुरस्तात्सर्वमन्त्राणां देवस्यत्वेत्यमुञ्जपेत् ।
वरुणेत्यादयो मन्त्रान् क्रमात्तत्तत्प्रतिग्रहे ॥ ३० ॥
अश्वो गौरप्यजः स्वर्णमजाऽविर्व्वसनां गिराः ।
उष्ट्रो मृगश्च पुरुषो हस्तिवरा व्रीह्यादयः ॥ ३१ ॥
तिला अश्वतरो मन्त्रं क इत्यन्तं जपेदथ ।
अष्टादशात्र मन्त्राः स्युरष्टमे खण्ड ईरिताः ॥ ३२ ॥
रश्मिरित्यादयस्तोमभागास्तैरनुमन्त्रणम् ।
कुर्यात्क्रमेण स्तोत्राणां ते त्रयस्त्रिंश ईरिताः ॥ ३३ ॥
वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ ३४ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकबुक्कभूपालसाम्राज्य-
धुरन्धरेण सायनाचार्य्येण विरचिते माधवीये सामवेदार्थप्रकाशे
ताण्ड्यमहाब्राह्मणे प्रथमाऽध्यायस्य दशमः खण्डः ।
प्रथमाऽध्यायः समाप्तिमगमत् ।
द्वितीयोऽध्यायः ।
अथ प्रथमः खण्डः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलञ्जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
प्रथमाध्यायगा मन्त्रा व्याख्याताः क्रतुगामिनः ।
अध्यायान्ते स्तोमभागा उक्ताः स्तोमान् ब्रवीम्यथ ॥ २ ॥
अस्मिन् ब्राह्मणे प्राधान्येन गवामयनं प्रतिपाद्यते । प्रायणीयादि
भिर्महाव्रतान्तैः पञ्चविंशतिसंख्यैरहोभिर्निष्पद्यते प्रायेणैतान्येवा-
हानि अन्येषामपि एकाहाहीनत्रात्मकानाङ सोमयागानां प्रकृतीनि ।
द्वादशाहश्चाहर्गणानां प्रकृतिः। अतः प्राधान्यात् प्राणीयोदयनीयौ उक्त्वा
मध्ये यानि द्वादशाहानि तेषां विष्टुतयः । एवं च सति गवामयनि-
कानामपि त्रिवृदादयः स्तोमाः प्रदर्शिताः । ये स्तोमास्त्रिवृदादयस्तेषां
विष्टुतयः क्रमेण द्वितीयतृतीयाभ्यामध्यायाभ्यां प्रदर्श्यन्ते ।

तत्र बहिष्पवमानसाधनस्य त्रिवृत्स्तोमस्य तिस्रो विष्टुतयः
उद्यती परिवर्त्तिनी कुलायिनीति, आदितस्त्रिभिरनुवाकैस्ताः प्रदर्श्य-
न्ते। तत्र तावत् उद्यत्याः स्वरूपमाह-
तिसृभ्यो हिङ्करोति स प्रथमया तिसृभ्यो हिङ्करोति
स मध्यमया तिसृभ्यो हिङ्करोति स उत्तमयोद्यती त्रि-
वृतो विष्टुतिः ॥ १ ॥
एकैकस्य साम्नः पञ्च विभक्तयः हिङ्कारप्रस्तावोद्गीथप्रतिहारोप-
द्रवनिधनाख्याः। तत्र हिङ्कारस्त्रिभिरुद्गातृभिः कर्त्तव्यः। अत एव सू-
त्रकृतोच्यते-'साम्ने साम्ने हिङ्कुर्य्युरिति'। 'तिसृभ्य' इति क्रियार्थोपप-
दस्य च कर्म्मणि स्थानिन इति कर्म्मणि चतुर्थी। तिस्र ऋचो गातुं
हिङ्कुर्य्यात् एकवचनमन्त्रम् उक्तादेव हेतोः अतस्त्रयोप्युद्गातारो हिङ्कुर्यु-
रित्यर्थः। एवमुत्तरत्रापि हिङ्कारविधायकेषु वाक्येषु योजना। 'स हि-
ङ्करोति' सहिङ्कर्त्ता 'मध्यमया' त्रिरुक्तया गायेत्। अयं द्वितीयः पर्या-
यः। पुनरपि तिसृभ्यो हिङ्करोति सहिङ्कर्त्ता तृचस्योत्तमया अन्त्या
तया त्रिरुक्तया गायेत्। एषः तृतीयः पर्यायः। अनेन पर्यायेण त्रि-
वृत्स्तोमः सम्पद्यते। उक्तप्रकारेण त्रिधा वर्त्तते इति त्रिवृत्स्तोमः
तस्य विष्टुतिरेषा उद्यती ऊर्ध्वं गच्छन्ती। उक्तेषु पर्यायेषु प्रथम-
मध्यमोत्तमक्रमेण ऊर्ध्वगमनादन्वर्थसञ्ज्ञेयमेषा त्रिवृतः प्रथमा वि-
ष्टुतिः ॥ १ ॥
एतस्यां विष्टुतौ अधिकारिणमाह-
ज्येष्ठो ज्यैष्ठिनेय स्तुवीत ॥ २ ॥
यो यजमानो भ्रातॄणां मध्ये स्वयं ज्येष्ठो भवति सपत्नीनां मध्ये
या ज्येष्ठा तस्याः पुत्रश्च भवति स यजमान एतया विष्टुत्या 'स्तुवीत'
स्तौति। तत्रान्तर्णीतण्यर्थः स्तावयेत् तस्य यजमानस्य एतया विष्टु-
त्या स्तुयुरित्यर्थः ॥ २ ॥
एतां विष्टुतिं अग्रप्राप्त्यादिफलसाधनतया प्रशंसति--
अग्रादग्रꣳ रोहत्यभिक्रामन्ती विष्टुतिरभिक्रा-
न्त्या एवाभिक्रान्तेन हि यज्ञमृध्नोति तस्मादेतया
स्तोतव्य मृध्या एव ॥ ३ ॥
'अग्रादग्र'मुत्कर्षादूर्ध्वं पुनरप्युत्कर्षं 'रोहति' प्राप्नोति उत्तरोत्तराभि-
वृद्धिर्भवति तस्यैतया विष्टुत्या स्तुवते, तथा इयं विष्टुतिभिरभिक्राम-

न्ती त्रिषु पर्यायेषु प्रथममध्यमोत्तमानुपूर्व्येणाभिमुखमाक्रामन्ती उप-
र्युपरि गन्त्री अत एषा प्रयुज्यमाना यज्ञस्याभिक्रमणायैव उपर्युपरि
प्राप्तये एव भवति । ततश्च किमित्यत आह-यज्ञस्य 'भिक्रान्तेन' भावे
निष्ठा ऽभिक्रमणेनारोहणेन परिसमापनेन 'ऋध्नोति' यजमानः समृ-
द्धो भवति हिशब्दो हेतौ । यस्मादेवं तस्मादेतया विष्टुत्या स्तो-
तव्यम् ऋद्ध्या एव तत्स्तवनं यजमानस्य समृद्ध्या एव भवति ॥ ३ ॥
पुनरपि नानाविधफलसाधनत्वेन प्रशंसति--
पापवसीयसो विष्टुतिर्विपाप्मना वर्त्तते य एतया
स्तुते नावगतो ऽपरुध्यते नापरुद्धो ऽवगच्छति । न श्रेया-
ऽसं पापीयानभ्यारोहति न जनता जनतामभ्येति ना-
न्योन्यस्य प्रजा आददते यथाक्षेत्रं कल्पन्ते । अवर्षुक-
स्तु पर्ज्जन्यो भवतीमे हि लोकास्तृचस्तान् हिङ्कारेण
व्येति ॥ ४ ॥
पापन्निकृष्टं वसीय उत्तमं पापं च वसीयश्च पापवसीयसी तयो-
रुभयो 'र्विधरिणी' असङ्कीर्य्यकरणी इयं विष्टुतिरेवं जानन् यए-
तया विष्टुत्या 'स्तुते' स्तौति, सः 'पाप्मना' पापेन 'निवर्त्तते' पाप्मनः
पृथग् भवति इत्यर्थः । यत्र देशे विधरणी एषा विष्टुतिः प्रयुक्ता तत्र
'अवगतः' कर्त्तरि निष्ठायां अवगन्ता ज्ञाता 'नापरुध्यते' अज्ञानेनापरुद्धः
अनाक्रान्तो भवति । यस्त्वपरुद्ध अज्ञानेनावृतः स नावगच्छति न
जानाति ज्ञानाज्ञाने तस्मिन्नधिकरणे सह न तिष्ठत इत्यर्थः । तथा-
'श्रेयाऽसं' प्रशस्यतममुत्तमजातिं ब्राह्मणादिकं 'पापीया'न्निकृष्टतमः
शूद्रादिर्ना 'भ्यारोहति' नाभिक्रामति न श्रेयाऽसः पापीयाऽसश्च विभ-
क्ता एव वर्त्तन्त इत्यर्थः । तथा 'जनता' जनसमूहो 'जनतां' अन्य-
जनसमूहं 'नाभ्येति'नाभिगच्छति जनपदो जनपदान्तरं दौर्भिक्षादि-
कारणेन न प्रविशतीत्यर्थः । प्रजाश्चान्योन्यस्य धनादिकं 'नाददते' न
स्वीकुर्व्वन्ति।अपि तु यथाक्षेत्रं स्वं स्वं क्षेत्रमनतिक्रम्य स्वक्षेत्रे कल्पन्ते ।
इत्थमस्या विष्टुतेर्बहूनि फलानि दर्शितानि, एकस्तु दोषो भवति,
कोऽसौ दोष उच्यते—'पर्ज्जन्यो' वृष्ट्यभिमानी देवः 'अवर्षुकोऽवर्षेण-
शीलो भवति तस्मिन् देशे वृष्टिर्न स्यादित्यर्थः । यस्मिन् देशे एतया
विष्टुत्या स्तुवते । कुत इत्यत आह इमे भूरादयस्त्रयो लोकाः तृच-
स्तिस्र ऋचो भूरादिलोकस्थानीयास्तान् लोकान् हिङ्कारेण प्रत्यूचं कृतेन

५४ ताण्ड्यमहाब्राह्मणे

'व्येति' विगमयति वियुक्तान् करोति । वयतिरत्रान्तर्णीतण्यर्थः । पर-
स्परोपकार्योपकारकभावं विश्लेषयतीत्यर्थः । सति हि तस्मिन्नन्तरि-
क्षात्पृथिव्या उपकारात्मिका वृष्टिर्भवति नान्यथा । हि यस्मादेवं
तस्माद्वर्षुकः पर्जन्यो भवति ॥ ४ ॥
अथैतां प्रतिष्ठाफलतया प्रशंसति—
एषा वै प्रतिष्ठिता त्रिवृतो विष्टुतिः प्रतितिष्ठति
य एतया स्तुते ॥ ५ ॥
'एषा वै' एषा खलु उद्यती त्रिवृतो विष्टुतिः प्रतिष्ठिता एकैक-
स्यामृचि एकैकस्य पर्यायस्य परिसमापनादस्यां प्रतिष्ठिता भवति ।
अन्नादिभिः समृद्धो भवतीत्यर्थः ॥ ५ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य प्रथमः खण्डः ।

अथ द्वितीयः खण्डः ।
अथ परिवर्त्तिनीं विष्टुतिं दर्शयति—
तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्क-
रोति स पराचीभिस्तिसृभ्यो हिङ्करोति स पराचीभिः
परिवर्त्तिनी त्रिविष्टुतिः ॥ १ ॥
तिसृभ्यस्तिस्र ऋचो गातुं हिङ्कुर्यात् । स हिङ्कर्त्ता 'पराचीभि'
रनावृत्ताभिस्तिसृभिऋग्भिर्गायेत् । एवमुत्तरयोरपि पर्याययोर्यो-
जना । एषा त्रिवृत् स्तोमस्य विष्टुतिः 'परिवर्त्तिनी' आवर्त्तिनी । यथा
प्रथमे पर्याये अनावृत्ताभिर्गानं तथोत्तरयोरपीति अस्या आवृत्तिः ॥१॥
अथैतां बहुफलसाधनत्वेन प्रशंसति—
प्रपरीवर्त्तमाप्नोति य एतया स्तुते सन्तता विष्टुतिः
प्राणोऽपानो व्यानस्त ऋचस्तान् हिङ्कारेण सन्तनोति ।
सर्व्वमायुरेति न पुरायुषः प्रमीयते य एतया स्तुते वर्षुकः
पर्ज्जन्यो भवतीमे हि लोकास्तृचस्तान् हिङ्कारेण
सन्दधाति ॥ २ ॥
यो यजमान 'एतया' विष्टुत्या स्तुते स 'परीवर्त्तं' परिवृत्य परि-
वृत्य पुनः पुनर्धनादिकं प्राप्नोति । परिपूर्व्वाद्वृत्तेराभीक्ष्ण्ये णमुल्वेतीति

द्वितीयाध्याये द्वितीयखण्डः। ५५
णमुल्प्रत्ययः। यद्वा परिवर्त्तन इति परिवर्त्तन् धनं पचाद्यच्। तथा इयं
विष्टुतिः 'सन्तता' पूर्ववच्च मध्ये हिङ्काराभावेनाविच्छिन्ना मुख्यप्रा-
णस्य मुख्यप्रदेशवर्त्तिनी या प्राणनरूपा वृत्तिः स प्राणः अपानरूपा
अधोगामिनी सोऽपानः। तयोरुभयोर्मध्यवर्त्तिनी विविधं सर्व्वं शरीरं
व्याप्य वर्त्तमाना या वृत्तिः स व्यानः। तदेतत् त्रितयं तृचः एतास्ति-
स्त्र ऋचः प्राणादिस्थानीया इत्यर्थः। तथासति ऋचो हिङ्कारेण स-
न्तन्वन् तान् तान् प्राणादीनेव आदौ सकृत्प्रयुक्तेन हिङ्कारेण सन्तनो-
ति सन्ततानविच्छिन्नान् करोति व्यवच्छेदकस्य हिङ्कारस्य मध्ये प्रयो-
गाभावात्, अत एव प्राणवृत्तीनामवच्छेदात्सर्व्वं शतवर्षलक्षणमा-
युरेति प्राप्नोति। एतदेव व्यतिरेकेणाह आयुषः क्रमात् शतवर्षलाक्ष