ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 70, कुल 518 में से
संदर्भ में पढ़ें५० ताण्ड्यमहाब्राह्मणे
स्याद्गार्हपत्यो जोसीति सगरा दक्षिणाग्निके ॥ १३ ॥
कव्यो दक्षिणवेद्यन्ते पातमा सर्व्वसंहतौ ।
चतुर्थखण्डे मन्त्राणां विंशतिः समुदीरिताः ॥ १४ ॥
ऋतमृज्याद्वारबाहू मामेत्यन्तः प्रवेशनम् ।
नम इत्युपविश्याथ श्येनश्चमसवीक्षणम् ॥ १५ ॥
इन्दोद्विर्भक्षयेदूर्ध्वो मुखच्छिद्राणि संस्पृशेत् ।
सोमरा हृदयस्पर्शः सोमगीर्नाभिमामृशेत् ॥ १६ ॥
चमसं पूरयेदाप्याऽवमैरद्याग्निमन्त्रतः ।
दीक्षायै स्तोमभागोयं भवेन्मन्त्रचतुष्टयात् ॥ १७ ॥
वायुर्माध्यन्दिने योगो वृषकः स्वामिवाचनम् ।
इन्दो भक्षस्तोमयोगः सूर्य्योयु सवने भवेत् ॥ १८ ॥
स्वरोसि वाचयेदिन्दो कुर्य्याच्चमसभक्षणम् ।
आयुः सौम्यं चरुं पश्येद्यन्मे तन्न विकल्प्यते ॥ १९ ॥
येन सौम्यं च संस्पृष्टाङ्गुलिभ्यामक्षिमार्जनम् ।
पञ्च विंशतिमन्त्रा स्युः पञ्चमे खण्ड ईरिताः ॥ २० ॥
ऐन्द्रमन्त्रे सोमभक्ष स्तुतस्य स्वामिवाचनम् ।
पृष्ठसन्धौ सोमभक्षं ऋतस्य स्तोममोचनम् ॥ २१ ॥
सोमे हि निर्गमः सूर्य्यस्योपस्थानं सुभूरिति ।
अपां द्वाभ्यामाहुती द्वे धानाभक्षां हारियोजने ॥ २२ ॥
देवाष्टौ शकले होमा अप्सुधौ चमसं स्पृशेत् ।
मधु पाणिमुपघ्राय चमसोत्सेचनं शमत् ॥ २३ ॥
कामाभ्यावर्त्तवेदेतत् ऊर्ग्गस्तदुरसि क्षिपेत् ।
प्राणेतिमुखसंस्पर्शो दधीति दधि भक्षयेत् ॥ २४ ॥
चतुर्विंशतिमन्त्रास्तु षष्ठे खण्डे प्रकीर्तिताः ।
साश्वं रथं दक्षिणार्थे प्रतिगृह्णाति चेत्तदा ॥ २५ ॥
मृज्यादश्वमुखाभ्यश्वनामयुग्मचतुष्टयम् ।
रथोर्ध्वस्पर्श आदित्या वायोश्चर्म्मप्रतिग्रहे ॥ २६ ॥
अस्त्रप्रतिग्रहे नक्ष सूर्य्य लोहप्रतिग्रहे ।
रथेति दक्षिणे चक्रे स्पर्शो वामेत्याधिष्ठितौ ॥ २७ ॥
बृहदित्युत्तरे चक्रे चक्रावंकेति संस्पृशेत् ।
वैश्वा रथं समारोहेद्भिदेत्यत्र स्थितो जपेत् ॥ २८ ॥
कुशा यच्छेत्सव्यरज्जुं स्पृशेद्व्यासेति दक्षिणाम् ।