सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 62, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 62

जापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहिय-
वाꣳस्तैरमृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रति-
ग्रहीत्रे ॥ १४ ॥
अत्र पुरुषमन्त्रे तेनेत्याद्युत्तरभागानुषङ्गः, हस्तिमन्त्रे पूर्व्वोत्तरयोर्द्व-
योरप्यनुषङ्गः, तथा वराहमन्त्रे, व्रीहियवमन्त्रे तु पूर्व्वभागस्यैवानुषङ्गः। यत्र
पुनर्व्रीहियवयोरक एव दीयते तन्त्र मन्त्रो विभज्य प्रयोक्तव्यः-प्रजापतये
व्रीहीन्। प्रजापतये यवान् इति। प्रजापतिना सृष्टत्वात्पुरुषादीनां तत्स-
म्बन्धः ॥ १४ ॥
तिलमाषप्रतिग्रहे मन्त्रमाह--
वरुणस्त्वा नयतु देवि दक्षिणे क्षेत्रपतये तिलमाषा-
स्तैरमृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्र-
हीत्रे ॥ १५ ॥
तिलमाषादीनां क्षेत्रजन्यत्वात्तत्स्वामिना सम्बन्धः ॥ १५ ॥
अश्वगर्दभसङ्करजस्य प्रतिग्रहे मन्त्रमाह-
वरुणस्त्वा नयतु देवि दक्षिणे सवित्रेऽश्वतरं वाऽश्व-
तरीं वा तयाऽ मृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं
प्रतिग्रहीत्रे ॥ १६ ॥
प्रेरकस्य सवितुः प्रेरणाद्विलक्षणमातापितृभ्यां विजातीयस्याश्व-
तरस्योत्पत्तिः ॥ १६ ॥
अत्र सूत्रम्-‘तेन क इदमित्युपरिष्टाज्जप’ इति, यस्मिन्मन्त्रे तेनामृ-
तत्वमित्यादिप्रतिगृहीत्र इत्यन्त उत्तरभागो नाम्नातस्तस्मिन्मन्त्रे तं
भागमनुषज्य जपेत् । पाठस्तु-
क इदं कस्मा अदात्कामः कामायादात्कामो दाता
कामः प्रतिग्रहीता कामः समुद्रमाविशत्कामेन त्वा प्र-
तिगृह्णामि कामैतत्ते ॥ १७ ॥
कशब्दाभिधेयः प्रजापति'रिदं' दक्षिणाद्रव्यं 'कस्मै' प्रजापतये 'अदात्'
दत्तवान् प्रजापतिरेव सर्व्वात्मा दानप्रतिग्रहयोः कर्त्तेति भावः। एवमनेन
मन्त्रेण स्मृते सति दातृप्रतिग्रहीत्रोः फलं पापराहित्यञ्च भवति । त-
था 'कामः कामाय' दातृस्वर्गादिफलकामनया यजमानो दातृऋत्विजश्च
धनकामनया प्रतिगृह्णन्ति, अत उभयत्र कामस्यैव प्रयोजकत्वं प्रति-