ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 60, कुल 518 में से
संदर्भ में पढ़ें४० ताण्ड्यमहाब्राह्मणे
अस्मिन्मन्त्रे वरुणस्त्वेत्यादेः पूर्वभागस्य तेनेत्यादेः पूर्वभागस्यानु-
षङ्गः कार्य्यः। हिरण्यस्याग्निरेतोरूपत्वात्सम्बन्धः॥ ५॥
अजायाः प्रतिग्रहे मन्त्रमाह—
अग्नीषोमाभ्यामजाम्नामृतत्वमशीय वयो दात्रे
भूयान्मयो मह्यं प्रतिग्रहीत्रे ॥ ६ ॥
अस्मिन्मन्त्रे वरुणस्त्वेत्यादेः पूर्वभागस्यैवानुषङ्गः, 'आग्नेयी वा एषा
यदजेति' श्रुत्यन्तरादजाया अग्नेः सम्बन्धः, लताभूतस्य सोमस्यौष-
धिषु सारभूतत्वेनाजायोपजीव्यत्वात्तत्सम्बन्धः, तथाचोक्तं- 'श्यामला-
स्तास्तु निष्पन्ना सोमाख्यछागभोजन' मिति ॥ ६ ॥
अन्नस्येति मन्त्रो लिङ्गादन्नप्रतिग्रहे विनियोज्यः, सूत्रकारस्तु अवेः
प्रतिग्रहेऽयं मन्त्रोऽधिक इति दर्शयति, अन्नस्येति प्राग् वारुणादवेः
प्रतिग्रहे वरुणस्त्वेत्यतः पूर्वं वायं मन्त्रो जप्यः। तत्पाठस्तु —
अन्नस्यान्नपतिः प्रादादनमीवस्य शुष्मिणो नमो
विश्वजनस्य क्षामाय भुञ्जति मा मा हिंसीः ॥ ७ ॥
अन्नस्येति कर्मणि शेषविवक्षायां षष्ठी, अन्नस्य पतिरन्नानां पालयि-
ता 'अन्नस्या'न्नं मह्यं 'प्रादात्' दत्तवान् अन्नं विशेष्यते 'ऽनमीवस्या'मीवा
रोगः तद्रहितस्यारोग्यकरस्य 'शुष्मिणो' बलवतो बलहेतुभूतस्येमेपि
कर्माणि षष्ठ्यौ, तस्मा अन्नपतये अग्नये नमोऽस्तु। कथम्भूताय 'विश्व-
जनस्य' सर्वप्राणिजातस्य 'क्षामाय' क्षेमकारिणे, क्षैजैक्षै क्षये, तस्मात्
क्रोधिकरणे चेति कर्तरि निष्ठा क्षायो म इति तकारस्य मकारः, ईदृशा-
ग्नये इत्यर्थः। हे भुञ्जति उपभोग्यत्वेन पालयित्रि! तदुपभोक्तारं 'मां'
मा 'हिंसीः' ॥ ७ ॥
अवेः पश्वन्तरोपभोगसाधनत्वेनान्नत्वेन संस्तावकन्तत्प्रतिग्राहम-
न्त्रैकदेशमुक्त्वा तच्छेषमन्त्रमाह--
वरुणस्त्वा नयतु देवि दक्षिणे त्वष्ट्रेऽविं तया ऽमृत-
त्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे ॥ ८ ॥
'त्वष्टा हि रूपाणां कर्त्ता त्वष्टा वै पशूनां मिथुनानां रूपकृदिति'
श्रुत्यन्तरात् नानारूपा अवयो भवन्तीति त्वष्टुरवेश्च सम्बन्धः, शिष्टं
पूर्ववत् ॥८॥
अत्र सूत्रम्--'ग्रास्त्वा कृन्तन्निति वसनस्येति' वस्त्रप्रतिग्रहे ग्रास्त्वा
कृन्तन्निति प्राग्वारुणात्पुरस्ताज्जपाद्वा जपेद् यदि तत् वस्त्रमतन्तुनि·